Learning Sanskrit

कहानी २ (Kahaani 2)

Learn Sanskrit - Wed, 01/10/2018 - 17:09

अद्य अहं कहानी २ इति नाम चलचित्रम् अपश्यम्। चलचित्रं तु शोभनम् अस्ति किन्तु मया मम होरात्रयं विनष्टम्। नैकानि कार्याणि सन्ति किन्तु तानि विहाय चलचित्रम् अपश्यम्। मम भार्या चलचित्रम् आरभत तदन्तरं बिभेमि इति उक्त्वा सा ततः अगच्छत् किन्तु अहम् उत्सुकतायाः वशे समापनपर्यन्तं चलचित्रम् अपश्यम्।

२०१८-०१-१० बुधवासरः (2018-01-10 Wednesday)

Categories: Learning Sanskrit

ओप्रामहाभागा (Oprah)

Learn Sanskrit - Tue, 01/09/2018 - 17:18

अहम् ओप्रामहाभागा २०२० इति घोषस्य समर्थनं करोमि। इदानीं तु सा समग्रविश्वे सतीनां धुरि तिष्ठति। अहं ज्ञातुम् उत्सुकः अस्मि तस्याः राजनीत्यां प्रवेशात् अनन्तरं सा सतीनां कुत्र स्थास्यति इति।

२०१८-०१-०९ मङ्गलवासरः (2018-01-09 Tuesday)

Categories: Learning Sanskrit

मनोगतम्”  [३९] (प्रसारण-तिथि:- 31.12.2017)

Learn Sanskrit - Mon, 01/01/2018 - 14:21

 

मन की बात [३९]

“मनोगतम्”  [३९]              (प्रसारण-तिथि:- 31.12.2017)

[“मन की बात”- “मनोगतम्” – इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]

  • भाषान्तर-कर्ता –  बलदेवानन्द-सागरः

मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोsयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोsस्ति | सम्पूर्णेsपि वर्षेsस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति |

कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता | आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  – “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्”

इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं प्रयतेम |

 

मम प्रियाः देशवासिनः ! एतद् वर्षं गुरुगोविन्द-सिंहस्य सार्ध-त्रिशती-रूपेण प्रकाश-पर्व-वर्षमपि आसीत् | गुरुगोविन्द-सिंहस्य साहस-त्याग-सम्भरितम् असाधारणं जीवनम् अस्माकं कृते प्रेरणा-स्रोतस्त्वेन वर्तते | गुरुगोविन्द-सिंहः महान्ति जीवन-मूल्यानि उपादिशत् तथा च, तानि आधृत्य स्वीयं जीवनं यापितवान् | अन्यतमः गुरुः, कविः, दार्शनिकः, महान् योद्धा च गुरुगोविन्द-सिंहः एतासु सर्वास्वपि भूमिकासु जनान् प्रबलतया प्रेरितवान् | असौ उत्पीडनम् अन्यायञ्च विरुद्ध्य संघर्षमकरोत् | जाति-धर्मयोः बन्धनानि परिहर्तुं सः जनान् शिक्षितवान् | एवंक्रियमाणः असौ व्यक्तिगतरूपेण बहुशः हानिमपि सम्मुखीकृतवान् | परञ्च सः न कदापि द्वेष-भावनान्वितः सञ्जातः | जीवनस्य प्रत्येकमपि क्षणे सः प्रेम्णः त्यागस्य शान्तेश्च सन्देशं प्रादात् | कियतीभिः महतीभिः विशेषताभिः सम्भरितमासीत् तस्य व्यक्तित्वम् ! ममेदं सौभाग्यं यत् एतद्-वर्षस्य आरम्भे गुरुगोविन्द-सिंहस्य सार्ध-त्रि-शती-जयन्त्याः अवसरे पटनासाहिब-स्थले आयोजिते प्रकाशोत्सवे सहभागित्वम् आवहम् | आगच्छन्तु, वयं सर्वेsपि संकल्पयेम तथा च, गुरुगोविन्द-सिंहस्य महद्भ्यः उपदेशेभ्यः प्रेरणादायि-जीवनात् च शिक्षाम् आदाय निज-जीवने तदाचरितुं प्रयतेम |

अष्टादशोत्तर-विंशति-शत-तम-वर्षे जान्युआरि-मासे प्रथम-दिनम् अर्थात् श्वः, मम मन्तव्यानुसारेण श्वस्तनः विशिष्ट-दिवसः अस्ति | स्यात् भवन्तः अपि आश्चर्यम् अनुभविष्यन्ति यन्नूतनं वर्षम् आयाति, जान्युआरि-मासीयः प्रथम-दिनमपि प्रतिवर्षम् आगच्छति परं यदाहं विशिष्ट-दिनमिदम् इति कथयामि, तत्तु नूनं विशिष्टमेव ! ये जनाः [ 2000 ] द्विसहस्र-तमे वर्षे जनिं लब्धवन्तः आहोस्वित् ततः परं जाताः अर्थात् एकविंशति-तमे शताब्दे समुत्पन्नाः ते अष्टादशोत्तर-विंशति-शत-तम-वर्षे जान्युआरि-मासे प्रथम-दिनात् मतदातृ-रूपेण अर्हाः भवितारः | भारतीय-लोकतन्त्रं, एकविंशति-तम-शताब्दस्य मतदातॄणां, नूतन-भारतं भवतां मतदातॄणां स्वागतं करोति | अहम्, एतान् अस्मदीयान् युव-जनान् वर्धापयामि, सर्वान् च साग्रहं व्याहरामि यत् भवन्तः आत्मानं मतदातृ-रूपेण पञ्जीकारयन्तु | अशेष-भारतं भवतः एकविंशति-तम-शताब्दस्य मतदातृ-रूपेण वर्धापयितुं लालायते | एकविंशति-तम-शताब्दस्य मतदातृ-रूपेण भवन्तः अपि गौरवमनुभवेयुः | भवतां मतदानं नूतन-भारतस्य आधारः सेत्स्यति | मतदानस्य शक्तिः, कस्मिन्नपि लोकतन्त्रे महत्तमा शक्तिः भवति | लक्षशो जनानां जीवने सकारात्मकं परिवर्तनम् आपादयितुं मतदानं हि सर्वोत्तमं प्रभावि साधनं वर्तते | न केवलं भवन्तो मतदानार्थम् अर्हाः भवन्ति अपि तु, एकविंशति-तम-शताब्दस्य भारतं कीदृशं स्यात् ? एकविंशति-तम-शताब्दस्य भवतां स्वप्नानि कानि स्युः ? भवन्तोsपि एकविंशति-तम-शताब्दस्य भारतस्य निर्मातारः भवितुम् अर्हन्ति तथा च, अस्य आरम्भः जान्युआरिमासस्य प्रथम-दिनाङ्कात्   विशेषरूपेण सञ्जायते | तथा चाद्य स्वीयेsस्मिन् ‘मन की बात’-प्रसारणे अहम् अष्टादशतः पञ्चविंशति-वर्षीयैः ऊर्जा-संकल्प-सम्भरितैः यशस्विभिः युवभिः सम्भाषितुमीहे | अहमेतान् ‘New India Youth’-इति नूतन-भारतस्य तारुण्यम् आमिनोमि | नूतन-भारतस्य तारुण्यम् इत्यस्य अर्थो भवति- उमङ्गः, उत्साहः, ऊर्जा च | दृढमहं विश्वसिमि यत् अस्मदीयानाम् एतेषां ऊर्जावतां यूनां कौशलेन शक्त्या चैव अस्माकं नूतन-भारतस्य स्वप्नं पूर्णं भविता | यदा वयं नूतन-भारत-विषये वदामः, तदा तु, इदं हि तत् भारतं यद्धि जातिवाद-सम्प्रदायवाद-आतङ्कवाद-भ्रष्टाचाराणां गरलात् मुक्तं स्यात् | अस्वच्छतातः निर्धनतातः च मुक्तं स्यात् | ‘New India’ – इति नूतनं भारतं यत्र सर्वेभ्योsपि तुल्यावसराः भवेयुः, यत्र च सर्वेषामपि आशाः आकाङ्क्षाः च पूर्णाः स्युः | अभिनवं भारतं यत्र शान्तिः, एकता, सद्भावना चैव अस्मदीया सञ्चालन-शक्तिः भवेत् | ममेदं नवीन-भारतस्य तारुण्यम् अग्रे आगच्छेत् मन्थनं च कुर्यात् यत् केन विधिना भविष्यति नवीनं भारतम् ? सः स्वयमपि आत्मनः कृते मार्गं निश्चिनुयात्, यैः साकं सः सम्पृक्तोsस्ति, तान् अपि संयोजयेत्, एवं हि पथिक-सार्थः संवर्धेत | भवन्तोsपि अग्रेसरन्तु, देशोsपि अग्रेसरेत् | सद्यः यदाहं भवद्भिः सम्भाषे तदा मम मनसि विचारः स्फुरितः यत् किं वयं भारतस्य प्रत्येकमपि जनपदे mock parliament- इति विडम्बितां संसदम् आयोजयितुं शक्नुमः ? यत्र अष्टादशतः पञ्चविंशति-वर्षीयाः युवानः, सम्भूय नूतन-भारत-विषयकं मन्थनं कुर्युः, मार्गान् मृगयेयुः, योजनाः विरचयेयुः ? केन प्रकारेण च वयं अस्मदीयानि स्वप्नानि एतत्-शताब्दस्य द्वा-विंशति-तम-वर्षात् पूर्वमेव साधयिष्यामः ? केन प्रकारेण च वयं तादृशं भारतं विरचयिष्यामः यस्य स्वप्नम् अस्मदीयाः स्वतन्त्रता-सैनिकाः अवालोकयन् ? महात्म-गाँधी स्वतन्त्रतायाः आन्दोलनं जनान्दोलनं व्यदधात् |

मम तरुणाः सखायः ! साम्प्रतं कालस्य इयम् अपेक्षा यद्वयं अपि एकविंशति-तम-शताब्दस्य भव्य-दिव्य-भारतस्य कृते जनान्दोलनमेकं प्रवर्तयेम | विकासस्य जनान्दोलनम् ! प्रगतेः जनान्दोलनम् !! सामर्थ्यवतः शक्तिशालिनश्च भारतस्य जनान्दोलनम्  !!! अहमभिलषामि यत् ओगष्ट-मासे प्रायेण पञ्चदशे दिनाङ्के दिल्ल्याम् एकां विडम्बितां परिभावितां च संसदम् आयोजयेम यत्र प्रत्येकमपि जनपदात् चितः एकः युवा, विषयमेनं परिचर्चेत यत् आगामिनि वर्ष-पञ्चके नूतन-भारतस्य निर्माणं केन प्रकारेण कर्तुं शक्यते ? संकल्पतः सिद्धिः कथं प्राप्तुं शक्यते ? सम्प्रति यूनां कृते बहवः अवसराः सञ्जाताः | Skill Development- इति कौशल-विकासतः Innovation-entrepreneurship- इति नवाचार-उद्यमिता-क्षेत्रे अस्मदीयाः युवानः अग्रगामिनो भवन्ति सफलाश्च वर्तन्ते | अभिलषामि यत् एतेषां सर्वेषामपि अवसराणां योजनानां सूचना नवीन-भारतस्य तरुणाः एकत्र एव कथं प्राप्नुयुः ? तथा च, विषयेsस्मिन् तादृशी काचित् व्यवस्था भवेत् येन प्राप्ते सति अष्टादश-वर्षीयायुषि सः एतत्-जगतः, एतेषां विषयाणां कृते च सहजतया सूचितो भवेत्, स च आवश्यकान् लाभान् अपि अवाप्नुयात् |

मम प्रियाः देशवासिनः ! विगते ‘मन की बात’-प्रसारणे अहं भवतां समक्षं positivity- इति उत्साह-निश्चययोः महत्व-विषये किञ्चित् ख्यापितवान् |  साम्प्रतं संस्कृत-वाङ्मयस्य श्लोकमेकं स्मरामि –

 

उत्साहो बलवान् आर्य ! नास्त्युत्साहात् परं बलम् |

सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||

अर्थात् उत्साह-समन्वितः जनः अतितरां बलशाली भवति, यतो हि उत्साहात् परं न किमपि उत्तमं विद्यते | उत्साह-समन्वितस्य रचनात्मकता-युतस्य च जनस्य कृते न किञ्चिदपि अशक्यमस्ति | आङ्ग्ल-भाषायाम् अपि जनाः निगदन्ति – ‘Pessimism leads to weakness, optimism to power’ | निराशावादः दुर्बलताम् अनुभावयति, आशावादश्च शक्तिं प्रददाति | विगते ‘मन की बात’-प्रसारणे देशवासिनो मया प्रार्थिताः आसन्  यत् ते वर्षेsस्मिन् अधिगतान् रचनात्मकान् क्षणान् संविभाजयेयुः तथा च, आगामि-वर्षस्य स्वागतं रचनात्मके आशापूर्णे च परिवेशे कुर्युः | नूनं प्रसीदामितरां यत् जनानाम् अधिसंख्यं सामाजिक-सञ्चार-माध्यमेषु, MyGov-NarendraModi App – चेत्यत्र सोत्साहं उत्तरितवत्, स्वीयान् अनुभवान् च संविभाजितवत् | Positive India hashtag (#)- इत्यनेन सह लक्षशो tweet-सन्देशाः विहिताः ये हि प्रायेण सार्धैक-कोट्यधिक-जनैः अवगताः |  एकतः उत्साहस्य अयं सञ्चारः भारताद् आरभत, स च, कृत्स्नेsपि जगति प्रसृतो जातः | ये हि tweet-सन्देशाः अपराणि चोत्तराणि अधिगतानि तानि सुतरां प्रेरणादायीनि वर्तन्ते | अयं हि सुखदोsनुभवः आसीत् | केचन देशवासिनः वर्षेsस्मिन् तान् घटनाक्रमान् संविभाजितवन्तः ये हि तेषां मनान्सि विशेषेण सकारात्मक-रूपेण   प्रभावितवन्तः, केचन तु स्वीयानां व्यक्तिगतोपलब्धीनां संविभाजनं कृतवन्तः |

ध्वनि-सन्दर्भाः {साउंड बाईट} #

# मम नाम मीनू भाटिया अस्ति | अहं मयूरविहारपॉकेट-वनफेज़वन दिल्ल्यां निवसामि | मम पुत्री एम.बी.ए.-इति अध्ययनं वाञ्छति स्म, एतदर्थं मह्यं बैङ्कात् ऋणम् अपेक्ष्यते स्म तद्धि अहं अतितरां सरलतया प्राप्तवती तथा च, मम पुत्र्याः अध्ययनं निर्विघ्नं प्राचलत्

# मम नाम ज्योतिराजेंद्रवाडे अस्ति | अहं बोडल-तः वदामि | मम पतिः प्रतिमासं रूप्यक-प्रदेयं आगोपं कृतवान् | दुर्घनायां सः मृतः | तस्मिन् समये अस्मदीया अवस्था कीदृशी जाता – तत्तु वयमेव जानीमः | सर्वकारस्य अमुना साहाय्येन वयं प्रभूतं लाभान्विताः जाताः, अहञ्च आश्वस्ता संवृत्ता |  

# म नाम संतोषजाधवः अस्ति |  ऐषमः वर्षे, अस्मदीयात् भिन्नर-ग्रामतः National Highway– इति राजमार्गः प्रावर्तत | एतस्मात् कारणात् अस्मदीयः मार्गः समीचीनः समभवत् तथा च, व्यापार-कार्याणि अपि वर्धमानानि सन्ति |

# म नाम दीपांशुआहूजा, मोहल्लासादतगंज, ज़िलासहारनपुरम्, उत्तरप्रदेशनिवासी अस्मि | भारतीय-सैनिकानां घटना-द्वयं वर्तते- एतयोः अन्यतरा तु – पाकिस्तानोपरि विहितं  surgical strike-इति शस्त्र-निपातनात्मकम् आक्रमणं येन आतङ्कवादस्य आरम्भिक-सोपानानि समूलं प्रणाशितानि, युगपदेव अस्मदीयानां भारतीयसैनिकानां पराक्रमं डोकलाम्-इत्यत्र दृष्टवन्तः सः तु अतुलनीयः एवास्ति |

# म नाम सतीशबेवानी अस्ति | अस्मदीयायां वसतौ पेय-जलस्य समस्या आसीत् | प्रायेण विगतेभ्यः चत्वारिंशत्-वर्षेभ्यः वयं सेनायाः जल-प्रणालिकासु निर्भराः आस्मः | अधुना एषा पृथक्तया प्रणालिका व्यवस्थापिता अस्ति, नूनम् इयम् अस्य वर्षस्य अस्मदीया महती उपलब्धिः वर्तते

        एतादृशाः अनेके जनाः सन्ति ये नैजेषु स्तरेषु तादृन्शि कार्याणि कुर्वन्ति यानि अनेकेषां जीवनेषु सकारात्मकं परिवर्तनं विदधति | वस्तुतस्तु एतदेवास्ति – नूतनं भारतम् – यस्य निर्माणं वयं सर्वे सम्भूय कुर्मः | आगच्छन्तु, आभिः लघु-लघु-प्रसन्नताभिः सहैव वयं नव-वर्षे प्रविशेम, नव-वर्षस्य शुभारम्भं करवाम, तथा च, ‘positive India’-इति रचनात्मक-भारततः ‘progressive India’- इति प्रगतिशील-भारतस्य दिशि दृढतरं पद-क्षेपं विदधेम | अस्मिन् सन्दर्भे अहमपि कश्मीरस्य प्राशासनिक-सेवा-स्पर्धायाः प्रथम-स्थान-भाजिनः अंजुम-बशीर-खान-खट्टकस्य ( Anjum Bashir Khan Khattak) प्रेरणादायि-वृत्तम् उदाहर्तुम् अभिलषामि | सः विद्वेष-आतङ्कवादयोः दंशात् बहिः निष्क्रम्य Kashmir Administrative Service-परीक्षामुत्तीर्य प्रथमं स्थानम् अध्यगच्छत् | भवन्तः उदन्तमिमं श्रुत्वा आश्चर्यम् अनुभविष्यन्ति यत् विगते शताब्दे नवतितमे वर्षे आतङ्कवादिनः तस्य पैतृकं गृहं प्रदाहितवन्तः | तत्र हिंसातङ्कवादयोः तादृशः परिवेशः आसीत् येन विवशीभूतं तस्य कुटुम्बं स्वीय-पैतृक-भूमिं अत्यजत् | लधुः बालकः यं परितः यः हिंसा-परिवेशः आसीत्, हृदि अन्धकारात्मकं कटुतरं च भावं जनयितुम् अलमासीत् – परञ्च अंजुमः एवम् नैवाकरोत् | सः न कदापि आशां पर्यत्यजत् | सः आत्मनः कृते पृथगेकं पन्थानम् अवाचिनोत् – जनानां सेवा-मार्गम् | साम्प्रतमसौ न केवलं जम्मू-कश्मीरस्यैव, अपि तु अशेष-देशस्य यूनां कृते प्रेरणा-प्रदः सिद्ध्यति | अंजुमेन इदं प्रमाणितं यत् कस्याञ्चन अपि प्रतिकूलायां स्थितौ सकारात्मकैः कार्यैः निराशायाः अभ्रम्लिहाः अपि ध्वंसयितुं शक्यन्ते |

नातिचिरं विगते एव सप्ताहे अहं जम्मू-कश्मीरस्य काश्चन पुत्रीः मेलितुम् अवसरं लब्धवान् | तासु अप्रतिमः भावः, अतुलनीयः उत्साहः, उत्कृष्टानि च स्वप्नानि आसन्, मया श्रुतं यत्ताः जीवनस्य केषु केषु क्षेत्रेषु प्रगतिमनुष्ठातुं समीहन्ते | ताश्च कियतीं प्रबलाम् आशां सन्धारयन्ति ! ताभिः साकं संवादावसरे मया अनुभूतं यत्तासु निराशा-लेशोsपि नैवास्ति – उत्साहः, उमङ्गः, ऊर्जा, स्वप्नानि, संकल्पाः चैवासन्  | अहमपि प्रेरितोsभवम् | एषा एवास्ति – देशस्य शक्तिः, एते एव सन्ति मदीयाः युवानः, एतत् एव विद्यते मदीय-देशस्य भविष्यत् |

मम प्रियाः देशवासिनः ! न केवलं अस्मदीयस्य देशस्य अपितु, विश्वस्य प्रसिद्ध-धार्मिक-स्थलानि यदा यदा चर्च्यन्ते तदा केरलस्य सबरीमाला-मन्दिरस्य चर्चा स्वाभाविकतया भवत्येव | विश्व-प्रसिद्धेsस्मिन् मन्दिरे, भगवतः अय्यप्पा-स्वामिनः आशीर्वादम् आदातुं प्रतिवर्षं श्रद्धालवः कोटिशो जनाः आयान्ति | यत्र एतावन्तो बृहन्मात्रिकाः श्रद्धालवः आयान्ति तत्र स्वच्छता-सन्धारणं हि कियत् दुष्करं समाह्वान-रूपम् ? विशेषेण तस्मिन् स्थले यद्धि पर्वतानां काननानाञ्च मध्ये विराजते | परञ्च एनां समस्यां संस्कारत्वेन केन प्रकारेण परिवर्तयितुं शक्यते, जन-सहभागित्वस्य च कियती शक्तिः वर्तते चेति प्रमाणयितुं सबरीमाला-मन्दिरं हि उदाहरण-रूपं वर्तते | पी.विजयन्-नाम रक्षि-अधिकारी ‘पुण्यम्  पुन्कवाणम्’ (Punyam Poonkavanam) इत्यभिधेयं कार्यक्रमम् आरभत यस्यान्तर्गतं स्वच्छतायाः जागरुकतायै स्वैच्छिकम् अभियानं सः प्रवर्तितवान् | तेन एतादृशी परम्परा प्रवर्तिता यत् यः कश्चन अपि यात्री आगच्छति, तस्य यात्रा तावदेव पूर्णा नैव भविष्यति यावत् सः स्वच्छता-कार्यक्रमे कञ्चन अपि शारीरिक-श्रमं नैव विधास्यति | अभियानेsस्मिन् न कश्चन ज्येष्ठः वा श्रेष्ठः वा न कश्चन कनिष्ठो वा लघुः भवति | प्रत्येकमपि यात्री, भगवतः पूजायाः अंशत्वेन किञ्चित्-कालार्थं स्वच्छता-कार्याणि करोति, मलिनतायाः अपसारणं च विदधाति | प्रति-प्रभातं अत्र स्वच्छतायाः दृश्यम् अतितराम् अद्भुतं भवति, सर्वेsपि तीर्थयात्रिणः सम्भूय अत्र संलग्नाः भवन्ति | भवतु नाम कश्चन विशिष्टो जनो वा समृद्धो वा विशेषाधिकारी, प्रत्येकमपि सामान्य-यात्रि-रूपेण ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam)- इति कार्यक्रमस्य अङ्गत्वेन स्वच्छतां विधाय एव अग्रे यान्ति | अस्माकं देशवासिनां कृते एतादृन्शि अनेकानि उदाहरणानि सन्ति | सबरीमाला-क्षेत्रे एतावत्-सम्वर्धितम् एतत् स्वच्छता-अभियानम्, तत्रापि च ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam), इदं हि प्रत्येकमपि यात्रिणः यात्रायाः अङ्गमेव भवति | तत्र कठोर-व्रतेन साकं स्वच्छतायाः कठोर-संकल्पः अपि युगपदेव प्रचलति |

मम प्रियाः देशवासिनः ! एतद्-शताब्दस्य चतुर्दशे वर्षे ओक्टोबर-मासे द्वितीये दिने पूज्य-बापू-वर्यस्य जन्म-जयन्त्याः अवसरे वयं सर्वे संकल्पितवन्तः यत् पूज्य-बापू-वर्यस्य अपूर्णं कार्यं यद्धि ‘स्वच्छ-भारतम्’, ‘मलिनता-मुक्तं भारतम्’ चेति वर्तते, तस्य सार्ध-शती भवेत् तदा अस्यां दिशि नूनं किञ्चिद् किञ्चिदपि करवाम | स्वच्छतादिशि सम्पूर्णेsपि भारते व्यापक-स्तरीयः प्रयासो भवति | ग्रामीणेषु महानगरीयेषु च क्षेत्रेषु व्यापकेण जन-सहभागितयापि परिवर्तनं दृग्गोचरीभवति | पौर-क्षेत्रेषु स्वच्छता-स्तरस्य उपलब्धीनाम् आकलनार्थम् आगामिनि जान्युआरिमासे चतुर्थ-दिनाङ्कतः मार्च-मासीयं दशम-दिनं यावत् जगतः सर्वोच्चं सर्वेक्षणं- ‘स्वच्छ-सर्वेक्षणम् – अष्टादशोत्तर-एकविंशति-तम-वर्षम्-[2018]’- इति विधास्यते | सर्वेक्षणमिदं, चतुःसहस्राधिकेषु नगरेषु प्रायेण चत्वारिंशत्-कोट्यधिक-जनानां वसतिषु विधास्यते | अस्य सर्वेक्षणस्य अवधौ, नाना वृन्दानि विभिन्नानि नगराणि निरीक्षिष्यन्ते | नागरिकैः सम्भाष्य तेषां प्रतिभावान् एकत्रीकरिष्यन्ति | स्वच्छता-App- इति उपादानस्य उपयोगेण तथा च, विभिन्न-प्रकारकेषु सेवा-स्थलेषु सञ्जातान् परिष्कारान् विश्लेषयिष्यन्ति | स्वच्छता, न केवलं प्रशासनस्य दायित्वम् | प्रत्येकमपि नागरिकः नागरिक-संघटनानि चापि एतदर्थं नितरां समुत्तरदायीनि सन्ति | सर्वान् नागरिकान् प्रार्थये यत्ते सम्पत्स्यमानेsस्मिन् स्वच्छता-सर्वेक्षणे सोत्साहं सहभागित्वं निर्वाहयेयुः | दृढं विश्वसिमि यत् गृहस्य शुष्कम् आर्द्रञ्च अवकरं पृथक्-कृत्वा नील-वार्णिकेषु हरित-वार्णिकेषु च कण्डोलेषु निक्षेप्स्यन्ति | अवकरस्य मलिन-वस्तूनाञ्च reduce, re-use, re-cycle- इति अपचय-पुनःप्रयोग-पुनःसर्जनात्मकः सिद्धान्तः अतितरां प्रभावी भवति | यदा जान्युआरिमासे चतुर्थ-दिनाङ्कतः मार्च-मासीयं दशम-दिनं यावत् जगतः सर्वोच्चं सर्वेक्षणं- ‘स्वच्छ-सर्वेक्षणं भविता तदा स्वच्छतायाः अस्यां स्वस्थ-स्पर्धायां कदाचित् भवान् पश्चवर्ती मा स्यादिति – प्रत्येकमपि नगरे सार्वजनिक-चर्चायाः विषयो भवेत् | भवतां सर्वेषां इदं स्वप्नं स्यात्, ‘अस्मदीयं नगरम् – अस्मदीयः प्रयासः’, ‘ अस्मदीया प्रगतिः – देशस्य प्रगतिः’ | आगच्छन्तु, अमुना संकल्पेन साकं वयं सर्वे पुनरेकवारं पूज्य-बापू-चरणं स्मरन्तः स्वच्छ-भारतस्य संकल्पं स्वीकुर्वन्तः पुरुषार्थस्य पराकाष्ठाम् अनुतिष्ठेम |

मम प्रियाः देशवासिनः ! केचन विषयाः प्रथम-दृष्ट्या लघवः प्रतीयन्ते परञ्च समाज-दृशा अस्मदीयम् अभिज्ञानं सुदीर्घकालं यावत् सततं प्रभावयन्ति | अद्यतनस्य ‘मन की बात’-प्रसारणस्य माध्यमेन अहं भवद्भिः साकं तादृशमेकं विषयं संविभक्तुं वाञ्छामि | अहं सूचितोsस्मि यत् काचित् मुस्लिम-महिला, हज-यात्रार्थं गन्तुकामा अस्ति चेत् सा ‘महरम’-इति वा स्वीय-पुरुष-अभिभावकं विना गन्तुं नैव शक्नोति | मया चिन्तितं यत् केन अयं नियमः विरचितः ? कथम् एतादृशो भेद-व्यवहारः ? मया गभीरतया चिन्तितं तदा आश्चर्यम् अनुभूतम् – स्वतन्त्रतायाः प्राप्तेः सप्ततेः वर्षाणाम् अनन्तरमपि एतादृक्-नियमनस्य प्रवर्तकाः अपि वयमेव | विगतेभ्यः दशकेभ्यः मुस्लिम-महिलाभिः साकम् अन्याय-व्यवहारः प्रवर्तते स्म, परञ्च न केनापि विषयोsयं चर्च्यते स्म | न केवलम् एतावदेव, केषुचित् इस्लामिक-देशेष्वपि एतादृशो नियमः नास्ति | परञ्च भारते मुस्लिम-महिलानां कृते अयमधिकारः सुलभः नासीत् | प्रसन्नताम् अनुभवामि यत् अस्मदीयेन सर्वकारेण एतद् अवहितम् | अस्माकम् अल्पसंख्यक-कार्य-मन्त्रालयेन आवश्यकोपायाः विहिताः तथा च, सप्तति-वर्ष-प्राचीनां परम्पराम् उत्सार्य एतादृक्-नियमनम् अपाकृतम् | साम्प्रतं मुस्लिम-महिलाः, ‘महरम’-इत्येनं विना हज-यात्रार्थं गन्तुं शक्नोति, अहं नितरां प्रसीदामि यत् ऐषमः क्रमे देशस्य प्रायेण विभिन्न-भागेभ्यः त्रयोदश-शत-मिताः मुस्लिम-महिलाः ‘महरम’-इत्येनं विना हज- यात्रार्थम् आवेदितवत्यः | अल्पसंख्यक-कार्य-मन्त्रालयमहं परामर्शितवान् यत् तादृशीः सर्वाः अपि महिलाः हज-यात्रायै अनुमताः स्युः | पूर्ण-विश्वासेन वदामि यत् भारतस्य विकास-यात्रा, अस्माकं नारी-शक्तेः बलाधृतास्ति, तासां प्रतिभाधारेण समुन्नता तथा च, सततम् अग्रेसरिष्यति | अस्मदीयोsयम् अनारतः प्रयासः स्यात् यत् अस्माकं महिलाः अपि पुरुष-तुल्यान् अधिकारान् अवाप्नुयुः, समानावसरान् च लभेरन्, येन ताः अपि प्रगति-पथि युगपदेव सम्भूय अग्रेसर्तुं पारयेयुः |

मम प्रियाः देशवासिनः ! जान्युआरि-मासीयं षड्-विंशतमं दिनम्  अस्माकं कृते ऐतिहासिक-पर्व वर्तते  | परम् ऐषमः दिनमिदं विशेषतया स्मरिष्यते | एतद्-वर्षीये  गणतंत्र-दिवस-समारोहे सर्वेषामपि दश-संख्याकानाम् आसियान-(ASEAN)-देशानां नेतारः मुख्य-अतिथि-रूपेण भारतमागमिष्यन्ति | गणतंत्र-दिवसावसरे अस्मिन् क्रमे एकः एव नैव ‘दश’ (10) मुख्याः अतिथयो भवितारः | भारतस्य इतिहासे पूर्वं न कदाचिद् एवं जातम् | एतद्-वर्षं सप्तदशोत्तर-द्विसहस्रतमम् [2017], आसियान-(ASEAN) देशानां भारतस्य च कृते विशिष्टमेव अवर्तत | आसियान-संघटनेन (ASEAN)- सप्तदशोत्तर-द्विसहस्रतमे वर्षे स्वीयानि पञ्चाशत्-वर्षाणि पूर्णतां नीतानि, अपि च, सप्तदशोत्तर-द्विसहस्रतमे एव वर्षे आसियान-संघटनेन (ASEAN) साकं भारतस्य सहभागितायाः पञ्च-विंशति-मितानि वर्षाणि पूर्णतां नीतानि | जान्युआरि-मासीये षड्-विंशे दिनाङ्के विश्वस्य दश-देशानां महान्तः नेतारः सम्भूय समुपस्थास्यन्ते इति तु सर्वेषामपि भारतीयानां कृते गौरवास्पस्दमेव |

मम प्रियाः देशवासिनः ! अयं हि उत्सवानाम् ऋतुः | वस्तुतस्तु अस्मदीयोsयं देशः पर्वणाम् उत्सवानाञ्च देशोsस्ति | स्यादेव कश्चन दिवसोsस्ति यस्मिन् पर्व वा उत्सवो वा नास्ति | नातिचिरम् अस्माभिः क्रिस्मस्-उत्सवः आमानितः, इतः परं नूतन-वर्षमागम्यमानमस्ति | आगामि-नूतन-वर्षं भवतां सर्वेषां कृते अनेक-विध-प्रसन्नता-प्रदायकं सुख-समृद्धि-वर्धकञ्च स्यादिति | वयं सर्वेsपि नवीनेन उत्साहेन, नूतनेन उमङ्गेन, अभिनवेन संकल्पेन, नूत्नया च ऊर्जया च साकम् अग्रेसरेम, राष्ट्रमपि अग्रेसारयेम | जान्युआरि-मासः आदिदेवस्य आदित्यस्य सूर्यस्य उत्तरायण-गमनस्य कालोsस्ति, तथा च अस्मिन्नेव मासे मकर-संक्रान्तिः आमान्यते | एतद्धि प्रकृत्या सम्पृक्तं पर्व वर्तते | यद्यपि अस्मदीयं प्रत्येकमपि पर्व कथं कथञ्चन रूपेण प्रकृत्या सम्पृक्तं वर्तते परञ्च विविधता-पूर्णायाम् अस्मदीयायां संस्कृतौ, प्रकृतेः अद्भुत-घटनायाः  पृथक्-पृथक्-रूपेण आयोजनस्य प्रथापि वर्तते | पंजाबे उत्तर-भारते च लोहड़ी-पर्व सानन्दम् आयोज्यते, अपरतः उत्तर-प्रदेशेsपि, अपरत्र च, बिहारे खिचड़ी-तिल-संक्रांति-पर्व सोत्साहं प्रतीक्ष्यते | राजस्थाने संक्रांत-इति, असम-राज्ये च माघ-बिहू-इति, आहोस्वित् तमिलनाडु-राज्ये पोंगल-इति – एतानि सर्वाणि अपि पर्वाणि निज-वैशिष्ट्य-युतानि सन्ति, एतेषां सर्वेषामपि नैजं नैजं महत्वमस्ति | एतानि सर्वाण्यपि पर्वाणि प्रायेण जान्युआरि-मासस्य त्रयोदशतः सप्तदश-दिनाङ्कस्य मध्ये आयोज्यन्ते | एतेषां सर्वेषाम् उत्सवानां नामानि पृथक्-पृथक् वर्तन्ते परञ्च एतेषां मूल-तत्वन्तु एकमेवास्ति – प्रकृत्या कृष्या च सार्धं सम्पृक्तिः |

सर्वेषामपि देशवासिनां कृते एतेषां शुभ-पर्वणाम् अवसरे भूरि भूरि शुभकामनाः वितरामि | पुनरेकवारं अष्टादशोत्तर-विंशति-तमेति नूतन-वर्षावसरे हार्दिक्यः मङ्गल-कामनाः |  भूरिशो धन्यवादाः ! प्रियाः देशवासिनः ! इतः परम् अष्टादशोत्तर-विंशति-तमे वर्षे पुनः सम्भाषणं करिष्यामः |  धन्यवादः !

*****

—     भाषान्तर-कर्ता –   डॉ.बलदेवानन्द-सागरः

 

 

 

 

 


Categories: Learning Sanskrit

सीता और गीता (Sita aura Gita)

Learn Sanskrit - Sun, 12/31/2017 - 16:50

वर्षस्य अन्तिमदिवसे अद्य अहं मम भार्यया सह सीता और गीता इति चलचित्रम् अपश्यम्। हिन्दीचलचित्रदर्शनस्य एका युक्तिः अस्ति ता मूर्खतया मया न आचरिता। युक्तिः अस्ति चलचित्रस्य अन्तिमार्धहोरावधिः न द्रष्टव्या। कालः नष्टः जातः। चलचित्रस्य नैके अंशाः मनोहारिनः आसन्। किन्तु अन्तः कालनाशाय एव आसीत्।

२०१७-१२-३१ रविवासरः (2017-12-31 Sunday)


Categories: Learning Sanskrit

भारतदेशे अंशविपणेः उपचयः (Gains in the Indian share market)

Learn Sanskrit - Sat, 12/30/2017 - 09:41

भारतदेशे अंशविपणेः लाभ-हानिभ्यां द्वौ मापकौ स्तः। एकः अस्ति सेन्सेक्स इति अन्यः अस्ति निफ्टी इति। २०१७तमेवर्षे अनयोः मापकयोः त्रिंशत्-प्रतिशतमितः उपचयः अभवत्। तस्मात् मन्ये भारतस्य अर्थव्यवस्था समीचीना अस्ति। अपि तत् अनुमानं सम्यग् अस्ति?
http://zeenews.india.com/markets/sensex-gains-208-points-to-end-at-new-closing-peak-of-34056-2070658.html

२०१७-१२-३० शनिवासरः (2017-12-30 Saturday)


Categories: Learning Sanskrit

यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात्

संस्कृत - Fri, 12/29/2017 - 19:49

यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात्।
किमुताग्रे हरिं पश्यन्स्तेनैव निहतोऽसुरः॥३-७-१९॥
yannāmājño’pi maraṇe smṛtvā tatsāmyamāpnuyāt।
kimutāgre hariṃ paśyanstenaiva nihato’suraḥ॥3-7-19॥

By remembering whose name at the time of death even an ignorant person becomes equal to Him. What to talk of Marica, who was killed by the same Rāma while looking at him?

तद्देहादुत्थितं तेजः सर्वलोकस्य पश्यतः।
राममेवाविशद्देवा विस्मयं परमं ययुः॥३-७-२०॥
taddehādutthitaṃ tejaḥ sarvalokasya paśyataḥ।
rāmamevāviśaddevā vismayaṃ paramaṃ yayuḥ॥3-7-20॥

While being observed by the whole world, a lustre arose from his body and entered into Rāma. Devas were highly amazed.

किं कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः।
अथवा राघवस्यायं महिमा नात्र संशयः॥३-७-२१॥
kiṃ karma kṛtvā kiṃ prāptaḥ pātakī munihiṃsakaḥ।
athavā rāghavasyāyaṃ mahimā nātra saṃśayaḥ॥3-7-21॥

[There seems to be no coherence.] What action he did and what result this sinner and killer of Munis obtained! Or else, it is simply the glory of Sri Rāma no doubt!

रामबाणेन संविद्धः पूर्वं राममनुस्मरन्।
भयात्सर्वं परित्यज्य गृहवित्तादिकं च यत्॥३-७-२२॥
rāmabāṇena saṃviddhaḥ pūrvaṃ rāmamanusmaran।
bhayātsarvaṃ parityajya gṛhavittādikaṃ ca yat॥3-7-22॥

Shot by Rāma with his arrow (earlier) he was so terrified that forgetting his house, wealth etc., he repeatedly remembered Rāma only.

हृदि रामं सदा ध्यात्वा निर्धूताशेषकल्मषः।
अन्ते रामेण निहतः पश्यन् राममवाप सः॥३-७-२३॥
hṛdi rāmaṃ sadā dhyātvā nirdhūtāśeṣakalmaṣaḥ।
ante rāmeṇa nihataḥ paśyan rāmamavāpa saḥ॥3-7-23॥

By remembering Rāma always, all his sins were washed away. Looking at Rāma, he was killed by him. So he attained Rāma!

द्विजो वा राक्षसो वाऽपि पापी वा धार्मिकोऽपि वा।
त्यजन् कलेवरं रामं स्मृत्वा याति परं पदम्॥३-७-२४॥
dvijo vā rākṣaso vā’pi pāpī vā dhārmiko’pi vā।
tyajan kalevaraṃ rāmaṃ smṛtvā yāti paraṃ padam॥3-7-24॥

A twice-born Brāhmaṇa or Rākṣhasa, a sinner or a dhārmic person, whosoever he may be, at the time of death, if he remembers Rāma, he attains the supreme goal.

इति तेऽन्योन्यमाभाष्य ततो देवा दिवं ययुः।
iti te’nyonyamābhāṣya tato devā divaṃ yayuḥ।

Talking thus to one another, the Devās returned to Svarga.

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे सप्तमः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde araṇyakāṇḍe saptamaḥ sargaḥ


Categories: Learning Sanskrit

ब्रह्मानन्दं गतो यथा

संस्कृत - Fri, 12/29/2017 - 16:00

इत्युक्त्वाऽऽघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः।
हर्षेण महताऽऽविष्टो ब्रह्मानन्दं गतो यथा॥१-६-४३॥
—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः
ityuktvā”ghrāya mūrdhānamāliṅgya ca punaḥ punaḥ।
harṣeṇa mahatā”viṣṭo brahmānandaṃ gato yathā॥1-6-43॥
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe ṣaṣṭhaḥ sargaḥ

.. so saying, he smelt them at their head, embraced again and again. He was overjoyed as if plunged in Brahmānandaṃ!

Well, indeed, Brahma-sparsham will lead to Brahmānandaṃ!


Categories: Learning Sanskrit

कोऽन्यस्त्वत्तोऽधिरक्षिता

संस्कृत - Fri, 12/29/2017 - 15:55

अद्य मे सफलं जन्म राम त्वां सह सीतया।
एकासनस्थं पश्यामि भ्राजमानं रविं यथा॥१-६-७२॥
adya me saphalaṃ janma rāma tvāṃ saha sītayā।
ekāsanasthaṃ paśyāmi bhrājamānaṃ raviṃ yathā॥1-6-72॥

Rāma, by seeing you sit along with Sīta at a single seat like a splendrous sun, my life is blessed.

त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः।
बलिस्त्वत्पादसलिलं धृत्वाऽभूद्दिविजाधिपः॥१-६-७३॥
tvatpādāmbudharo brahmā sṛṣṭicakrapravartakaḥ।
balistvatpādasalilaṃ dhṛtvā’bhūddivijādhipaḥ॥1-6-73॥

By holding water with which you feet were washed, Brahma became able to set going this wheel of creation. Balī, by holding the same water became the ruler of the Devās.

त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः।
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता॥१-६-७४॥
tvatpādapāṃsusaṃsparśādahalyā bhartṛśāpataḥ।
sadya eva vinirmuktā ko’nyastvatto’dhirakṣitā॥1-6-74॥
When touched by the dust of your feet, Ahalyā got at once liberated from her husband’s curse. Who else can be a greater protector of us than you?

यत्पादपङ्कजपरागसुरागयोगि-
वृन्दैर्जितं भवभयं जितकालचक्रैः।
यन्नामकीर्तनपरा जितदुःखशोका
देवास्तमेव शरणं सततं प्रपद्ये॥१-६-७५॥
yatpādapaṅkajaparāgasurāgayogi-
vṛndairjitaṃ bhavabhayaṃ jitakālacakraiḥ।
yannāmakīrtanaparā jitaduḥkhaśokā
devāstameva śaraṇaṃ satataṃ prapadye॥1-6-75॥

Having supreme attachment to whose dust of the lotus feet, the Yogis, having subdued the kālachakra, conquer the element of fear from the world (birth and death) and by chanting whose name the Devās have won over misery and sorrow; I constantly take refuge in Him.

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe ṣaṣṭhaḥ sargaḥ


Categories: Learning Sanskrit

या धृता मूर्ध्नि शर्वेण

संस्कृत - Fri, 12/29/2017 - 15:31

सभार्यो जनकः प्रायाद्रामं राजीवलोचनम्।
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत्॥१-६-५१॥
sabhāryo janakaḥ prāyādrāmaṃ rājīvalocanam।
pādau prakṣālya vidhivattadapo mūrdhnyadhārayat॥1-6-51॥

Then, he along with the queen went to Rama with lotus-like eyes, washed His two feet in accordance with the rules, sprinkled that water on his head…

या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा।
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम्॥१-६-५२॥
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः।
yā dhṛtā mūrdhni śarveṇa brahmaṇā munibhiḥ sadā।
tataḥ sītāṃ kare dhṛtvā sākṣatodakapūrvakam॥1-6-52॥
rāmāya pradadau prītyā pāṇigrahavidhānataḥ।

… [that water,] which has always been borne on the head by Shiva, Brahmā and Munis! Therefter, holding Sītā in his hand, with rice grains and water, gave her to Rāma observing pāṇigrahaṇa rules.

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe ṣaṣṭhaḥ sargaḥ


Categories: Learning Sanskrit

कार्यपञ्चकम् (Five Tasks)

Learn Sanskrit - Fri, 12/29/2017 - 14:17

अस्य अवकाशकालस्य पूर्वं मया चिन्तितं प्रत्येकस्मिन् दिवसे कार्यपञ्चकं करिष्यामि इति। कार्यपञ्चकम् अस्ति जलनेती क्रियायोगः गीतापाठः भ्रमणं संस्कृतलेखनं च। अद्य प्रथमं वारं मया कार्यपञ्चकं कृतं तस्मात् सन्तुष्टोऽस्मि।

२०१७-१२-२९ शुक्रवासरः (2017-12-29 Friday)


Categories: Learning Sanskrit

सदारः सहितोऽग्निभिः

संस्कृत - Fri, 12/29/2017 - 13:44

रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम्।
वसिष्ठस्त्वग्रतो यातु सदारः सहितोऽग्निभिः॥१-६-३७॥
rathamānaya me śīghraṃ gacchāmyadyaiva mā ciram।
vasiṣṭhastvagrato yātu sadāraḥ sahito’gnibhiḥ॥1-6-37॥
—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe ṣaṣṭhaḥ sargaḥ

“Get my chariot at once Do not delay. I shall start today itself.” Vasiṣṭha, the royal preceptor, must be at the head of the procession along with the mothers or Rama and his wife and all the fires.

This shloka emphasises the pre-eminent position of the preceptor, as well as the sacrificial fires of the Grihasthāshrama. No travel was even made without these fires! It was common practice, till a few decades ago, to carefully preserve the fires from vivāha till the end! See also http://www.kamakoti.org/hindudharma/part19/chap6.htm, where MahaPeriyava emphasises the importance of various yajnas and the different sacrificial fires.


Categories: Learning Sanskrit

मानुषीकरणचूर्णमस्ति ते पादयोरिति कथा प्रथीयसी

संस्कृत - Fri, 12/29/2017 - 13:27

नाविक उवाच
nāvika uvāca

The Boatman Said—

क्षालयामि तव पादपङ्कजम्
नाथ दारुदृषदोः किमन्तरम्।
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी॥१-६-३॥
kṣālayāmi tava pādapaṅkajam
nātha dārudṛṣadoḥ kimantaram।
mānuṣīkaraṇacūrṇamasti te
pādayoriti kathā prathīyasī॥1-6-3॥

Oh Lord! I must wash your lotus feet as there is no considerable difference between wood and stone. It is a widely known fact that there is some mystical power in your feet that humanises (inanimate objects).

पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि।
नो चेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटुम्बहानिः॥१-६-४॥
pādāmbujaṃ te vimalaṃ hi kṛtvā
paścātparaṃ tīramahaṃ nayāmi।
no cettarī sadyuvatī malena
syāccedvibho viddhi kuṭumbahāniḥ॥1-6-4॥

Only after washing your feet, I will take you to the other shore. Otherwise, if my boat, having a touch of the dust of your feet, transforms into a young lady, it might result in a great loss to my family, Oh Lord!

इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः।
ityuktvā kṣālitau pādau paraṃ tīraṃ tato gatāḥ।

So saying, he washed the feet and then they crossed the river to the other shore.

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe ṣaṣṭhaḥ sargaḥ

Pretty cool strategy by the Boatman to wash Rama’s feet :)! नाविकधावितमृदुपद राम!

 


Categories: Learning Sanskrit

राम बाल लीलाः

संस्कृत - Fri, 12/29/2017 - 12:47

रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया।
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः॥१-३-४३॥
rāmastu lakṣmaṇenātha vicaran bālalīlayā।
ramayāmāsa pitarau ceṣṭitairmugdhabhāṣitaiḥ॥1-3-43॥

Rama, moving along with Lakshmana, with His infantile sports and gestures and sweet utterances, pleased the parents.

भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम्।
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम्॥१-३-४४॥
bhāle svarṇamayāśvatthaparṇamuktāphalaprabham।
kaṇṭhe ratnamaṇivrātamadhyadvīpinakhāñcitam॥1-3-44॥

On His forehead shone a golden ornament in the shape of an Aśvattha (Pipala) leaf studded with shining pearls and in the neck, a necklace of gems interpolated with the tiger’s nail.

कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम्।
शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम्॥१-३-४५॥
karṇayoḥ svarṇasampannaratnārjunasaṭālukam।
śiñjānamaṇimañjīrakaṭisūtrāṅgadairvṛtam॥1-3-45॥

In both the ears, golden ornaments in the shape of raw Arjuna fruits studded with precious gems were hanging. The ankles were adorned by anklets made of ruby and the waist region, with a golden girdle, and arms, with armlets, all tinkling.

स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम्।
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः।
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा॥१-३-४६॥
smitavaktrālpadaśanamindranīlamaṇiprabham।
aṅgaṇe riṅgamāṇaṃ taṃ tarṇakānanu sarvataḥ।
dṛṣṭvā daśaratho rājā kausalyā mumude tadā॥1-3-46॥

With a smiling face having few teeth, the sapphire coloured Rama running after the calves here and there in the royal courtyard. Dasharatha and Kausalya, seeing Rama (this way) were immensely pleased.

भोक्ष्यमाणो दशरथो राममेहीति चासकृत्।
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया॥१-३-४७॥
bhokṣyamāṇo daśaratho rāmamehīti cāsakṛt।
āhvayatyatiharṣeṇa premṇā nāyāti līlayā॥1-3-47॥

During the course of taking meals, Dasharatha called Rama more than once—”come”. Dasharatha calls affectionately and Rama does not come in His childly pranks.

आनयेति च कौसल्यामाह सा सस्मिता सुतम्।
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम्॥१-३-४८॥
ānayeti ca kausalyāmāha sā sasmitā sutam।
dhāvatyapi na śaknoti spraṣṭuṃ yogimanogatim॥1-3-48॥

Then, the king used to ask Kausalya to fetch Him. On her part, Kausalya with a smiling face trying (to catch hold of Him). Though she ran after Him, could not catch Him, who is always the only prop of the minds of Yogis!

प्रहसन् स्वयमायाति कर्दमाङ्कितपाणिना।
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते॥१-३-४९॥
prahasan svayamāyāti kardamāṅkitapāṇinā।
kiñcidgṛhītvā kavalaṃ punareva palāyate॥1-3-49॥

Then, He Himself comes (to His mother), with muddy hands, taking a couple of morsels of food, again runs away!

कौसल्या जननी तस्य मासि मासि प्रकुर्वती।
वायनानि विचित्राणि समलङ्कृत्य राघवम्॥१-३-५०॥
kausalyā jananī tasya māsi māsi prakurvatī।
vāyanāni vicitrāṇi samalaṅkṛtya rāghavam॥1-3-50॥

His mother Kausalya, bedecking Rama properly and (celebrating his birthday) every month, made and distributed sweets of various kinds.

अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा।
कर्णपूरान्श्च विविधान् वर्षवृद्धौ च वायनम्॥१-३-५१॥
apūpān modakān kṛtvā karṇaśaṣkulikāstathā।
karṇapūrānśca vividhān varṣavṛddhau ca vāyanam॥1-3-51॥

On His annual birthday, she made Apūpa , Modaka, Jalebi etc. distributed them and celebrated the day.

गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात्।
एकदा रघुनाथोऽसौ गतो मातरमन्तिके॥१-३-५२॥
gṛhakṛtyaṃ tayā tyaktaṃ tasya cāpalyakāraṇāt।
ekadā raghunātho’sau gato mātaramantike॥1-3-52॥

Kausalya had abandoned her domestic chores on account of her son’s mischievousness. One day,  Sri Rama went to His mother.

भोजनं देहि मे मातर्न श्रुतं कार्यसक्तया।
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा॥१-३-५३॥
bhojanaṃ dehi me mātarna śrutaṃ kāryasaktayā।
tataḥ krodhena bhāṇḍāni laguḍenāhanattadā॥1-3-53॥

“Give me food” (said Rama). She did not pay attention, busy with her domestic chores. Then, with anger (Rama) struck the utensils with a stick.

शिक्यस्थं पातयामास गव्यं च नवनीतकम्।
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम्॥१-३-५४॥
śikyasthaṃ pātayāmāsa gavyaṃ ca navanītakam।
lakṣmaṇāya dadau rāmo bharatāya yathākramam॥1-3-54॥

He felled down the pot of cow butter hanging on the rope and gave it to Lakshmana and Bharata turn by turn!

शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च।
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति॥१-३-५५॥
śatrughnāya dadau paścāddadhi dugdhaṃ tathaiva ca।
sūdena kathite mātre hāsyaṃ kṛtvā pradhāvati॥1-3-55॥

Then (He) gave it to Shatrughna also and so was the case with curd and milk. When the cook reported to the mother, the mother laughed and ran (to catch them).

आगतां तां विलोक्याथ ततः सर्वैः पलायितम्।
कौसल्या धावमानाऽपि प्रस्खलन्ती पदे पदे॥१-३-५६॥
āgatāṃ tāṃ vilokyātha tataḥ sarvaiḥ palāyitam।
kausalyā dhāvamānā’pi praskhalantī pade pade॥1-3-56॥

Seeing her coming, they all fled. Kausalya too ran, but slipped at every step.

रघुनाथं करे धृत्वा किञ्चिन्नोवाच भामिनी।
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह॥१-३-५७॥
raghunādhaṃ kare dhṛtvā kiñcinnovāca bhāminī।
bālabhāvaṃ samāśritya mandaṃ mandaṃ ruroda ha॥1-3-57॥

[Eventually], she caught hold of Rama but did not say anything. Still, as a childish prank, He started weeping gently.

ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः।
एवमानन्दसन्दोहजगदानन्दकारकः॥१-३-५८॥
te sarve lālitā mātrā gāḍhamāliṅgya yatnataḥ।
evamānandasandohajagadānandakārakaḥ॥1-3-58॥

[Finding them frightened] She embraced them affectionately and fondled, in this manner, the source of bliss, giving delight to the entire Universe!

मायाबालवपुर्धृत्वा रमयामास दम्पती।
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे॥१-३-५९॥
māyābālavapurdhṛtvā ramayāmāsa dampatī।
atha kālena te sarve kaumāraṃ pratipedire॥1-3-59॥

The Lord, assuming the illusory form of child, provided bliss to His parental couple. After that, in due course, they attained boyhood.

—श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे तृतीयः सर्गः
—śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe tṛtīyaḥ sargaḥ


Categories: Learning Sanskrit

साकेते भाति देवोऽखिलेशः

संस्कृत - Fri, 12/29/2017 - 11:25

साकेते लोकनाथप्रथितगुणगणो लोकसङ्गीतकीर्तिः
श्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः।
नित्यश्रीर्निर्विकारो निरवधिविभवो नित्यमायानिरासो
मायाकार्यानुसारी मनुज इव सदा भाति देवोऽखिलेशः॥१-७-५७॥
–श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे सप्तमः सर्गः
sākete lokanāthaprathitaguṇagaṇo lokasaṅgītakīrtiḥ
śrīrāmaḥ sītayāste’khilajananikarānandasandohamūrtiḥ।
nityaśrīrnirvikāro niravadhivibhavo nityamāyānirāso
māyākāryānusārī manuja iva sadā bhāti devo’khileśaḥ॥1-7-57॥
–śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde bālakāṇḍe saptamaḥ sargaḥ

Śrī Rāma, whose virtuous qualities are well-known to all guardian deities of the regions; whose glory is chanted in all the worlds; who is personified bliss of everybody; who is ever effulgent and immutable; who is illimitably magnificent, who even though beyond Māyā, follows the customary pattern of Māyā like an ordinary human, the Supreme Lord of all, shines always in Sāketa!

This is the final shloka of Bālakāṇḍa in Adhyātma Rāmāyaṇam.


Categories: Learning Sanskrit

कृच्छ्रेण च नीरोगतां नीतः। (With difficulty he became well.)

Learn Sanskrit - Thu, 12/28/2017 - 16:09

पञ्चतन्त्रे युधिष्ठिर-कुम्भकारकथायाम् –
ततः कर्परकोट्या पाटितललाटो रुधिरप्लावितनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः।
खपडे की नोंक उसके ललाट में धंस गयी और खून से लथपथ होकर बडी कठिनाई से वह उठा और अपने घर चला अया।
कृच्छ्रेण च नीरोगतां नीतः। बडी मुश्किल से वह अच्छा हुआ।
करणे च स्तोकाल्पकृच्छ्रकतिपयस्याऽसत्त्ववचनस्य॥२।३।३३॥

कृच्छ्रhttps://sa.wiktionary.org/wiki/कृच्छ्र
२०१७-१२-२८ गुरुवासरः (2017-12-28 Thursday)


Categories: Learning Sanskrit

अजस्रम् (Perpetual)

Learn Sanskrit - Wed, 12/27/2017 - 13:36

अनवरतम्, अश्रान्तम्, अजस्रम्, सन्ततम्, अविरतम्, अनिशम्, नित्यम्, अनारतम्, सततम्, इत्यमरः।
पञ्चतन्रे घृतान्धब्राह्मण-कथायाम् –
तस्य भार्या पुंश्चल्यन्यासक्तमना अजस्रं विटाय खण्डघृतान् कृत्वा भर्तुश्चौरिकया प्रयच्छति।
कुत्र वा अजस्रं नयसि इदम्?
रघुवंशे –
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्त्तसे।
२६दिसम्बर२०१७तिथौ २७दिसम्बर२०१७तिथौ च दूरदर्शने प्रसारितायां संस्कृतवार्तायाम् अपि अजस्रम् इति शब्दः आसीत्।

२०१७-१२-२७ बुधवासरः (2017-12-27 Wednesday)


Categories: Learning Sanskrit

राहुलं बिभीमः (We fear Rahul)

Learn Sanskrit - Tue, 12/26/2017 - 04:11

१५दिसेम्बर२०१७तिथौ यदा गुर्जरराज्यस्य निर्वाचनस्य मतानां गणना भवति स्म तदा अहं लखनऊनिवसिना मम मिर्त्रेण राजीवेन सह दूरभाषया संभाषणम् अकरवम्। सः कॉग्रेस्स्दलसदस्यः अस्ति। दूरदर्शने मतगणनापरिणामान् दृष्ट्वा सः आनन्दे लीनः आसीत्। सः मम हास्यम् अकरोत् भवन्तः पप्पू पप्पू इति कुर्वन्ति तेन एव पप्पूना प्रथमे युद्धे एव भवन्तः धराशयाः कृताः इति। सः अपृच्छत् अपि पप्पू-आख्यातं राहुलवर्यं इदानीं बिभीमः अथवा न बिभीमः इति।

मया स्वीकृतं बिभीमः इति। तस्य आनन्दे अहं कामपि बाधां न इच्छामि। सः मम प्रियः मित्रम् अस्ति।

मम मित्रं सः राजीवः कर्मठः अस्ति बुद्धिमान् अस्ति व्यवहारकुशलः अस्ति गुणसम्पन्नः अस्ति किन्तु तस्य मनसि मतौ च भारतदेशे विकासः न सम्भवः इति दृढास्था अस्ति। सः मन्यते षष्टिवर्षेषु कॉग्रेसदलशासनकाले या कापि प्रगतिः अभवत् ता एव शक्यासीत्। तस्याः प्रगतेः द्रुततरां प्रगतिं कोऽपि कर्तुं न शक्नोति।

किं वदामि। अहं राहुलं न बिभेमि किन्तु अहं बिभेमि तां विचारधारां तां मानसिकतां यया मम मित्रसदृशाः जनाः विकासः न सम्भवः इति आस्थां धारयन्ति। कॉग्रेसदलस्य राष्ट्रम् उपादानम् अस्ति भारते प्रगतिः न सम्भवः इति विनाशकारि चिन्तनम्। तत् चिन्तनं भारतीयमानसिकतायां प्रविश्य देशस्य विनाशं करोति। अस्माकं युद्धम् अस्ति तेन चिन्तनेन सह न तु केनापि जनेन सह।

राहुलः तस्य नकारात्मकस्य विनाशकारिणः चिन्तनस्य मूर्तिः अस्ति तस्मात् तं बिभेमि न तु पराजयभयेन।

२०१७-१२-२६ मङ्गलवासरः (2017-12-26 Tuesday)


Categories: Learning Sanskrit

तारकस्य ईश्वरपुत्रस्य जन्मदिवसः (Christmas)

Learn Sanskrit - Mon, 12/25/2017 - 09:10

सर्वेभ्यः तारकस्य ईश्वरपुत्रस्य जन्मदिवसस्य शुभाशयाः। अस्माकं गृहे अयम् उत्सवः न परिपाल्यते। उत्तरगोलार्धे अयम् उत्सवः शीतकालिकः अस्ति किन्तु अत्र सः उत्सवः ग्रीष्मकालिकः अस्ति किन्तु अद्य अत्रापि शीतम् अस्ति।

२०१७-१२-२५ सोमवासरः (2017-12-25 Monday)


Categories: Learning Sanskrit

रघुवंशमहाकाव्यं द्वितीयः सर्गः (Raghuvamsha – A Great Poem – Chapter 2)

Learn Sanskrit - Sun, 12/24/2017 - 15:45

अद्य मया रघुवंशमहाकाव्यस्य द्वितीयस्य सर्गस्य पाठः समाप्तः। मन्ये रघुवंशपठनस्य प्रथा अस्ति तस्य पाठः द्वितीयसर्गात् आरभ्यते इति। अस्मिन् सर्गे नैकानि प्रसिद्धवाक्यानि सन्ति तेषु एकम् अस्ति प्रसादचिह्नानि पुरःफलानि।

२०१७-१२-२४ रविवासरः (2017-12-24 Sunday)

 


Categories: Learning Sanskrit

Pages

Subscribe to Sanskrit Central aggregator - Learning Sanskrit