Sanskrit Blogs

Sri Gayatri Sahasranama Stotram

॥ संस्कृत सुधा॥ - Mon, 06/04/2007 - 10:44
॥ श्रीगायत्रीसहस्रनामस्तोत्रम् ॥ śrīgāyatrīsahasranāmastotram (देवी भागवतांतर्गत)(devī bhāgavatāṁtargata)(from Devī Bhāgavatām)नारद उवाच -nārada uvāca -भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥bhagavansarvadharmajña sarvaśāstraviśārada śrutismṛtipurāṇānāṁ rahasyaṁ tvanmukhācchrutam 1 सर्वपापहरं देव येन विद्या प्रवर्तते ।केन वा ब्रह्मविज्ञानं किं नुA Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Madhurastakam

॥ संस्कृत सुधा॥ - Sun, 06/03/2007 - 02:26
॥ मधुराष्टकम् ॥|| madhurāṣṭakam ||composed by śrī vallabhācāryaअधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम् ।हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ १ ॥adharaṁ madhuraṁ vadanaṁ madhuraṁnayanaṁ madhuraṁ hasitaṁ madhuram |hṛdayaṁ madhuraṁ gamanaṁ madhuraṁmadhurādhipaterakhilaṁ madhuram || 1 ||Krishna's lip, face, eye, smile, heart and gait are all sweet and nice.Everything about the A Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Saundaryalahari

॥ संस्कृत सुधा॥ - Mon, 05/28/2007 - 23:18
॥ सौन्दर्यलहरी ॥|| saundaryalaharī ||written by śrī ādi śaṅkarācārya Translated by: P.R.Ramachander, Bangalore.(With minor edits by A Swami)Source of translation: http://www.geocities.com/ramya475/SoundaryaLahari.htmIntroduction:Saundaryalaharī consists of two parts viz., ānandalaharī, meaning waves of bliss (first 41 stanzas), and saundaryalaharī, meaning waves of beauty (the next 59 stanzasA Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Bhaja Govindam

॥ संस्कृत सुधा॥ - Thu, 05/17/2007 - 19:25
॥ भज गोविन्दम् ॥|| bhaja govindam ||written by śrī ādi śaṅkarācārya भजगोविन्दं भजगोविन्दंगोविन्दं भज मूढमते ।संप्राप्ते सन्निहिते कालेनहि नहि रक्षति डुकृञ्करणे ॥ १ ॥bhajagovindaṁ bhajagovindaṁgovindaṁ bhaja mūḍhamate |saṁprāpte sannihite kālenahi nahi rakṣati ḍukṛñkaraṇe || 1 ||Worship Govinda, worship Govinda, worship Govinda, oh fool! The rules of grammar will not save you at the time A Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Sri Anjaneya Dhyanam

॥ संस्कृत सुधा॥ - Sun, 05/13/2007 - 08:02
॥ श्री आञ्जनेय ध्यानम् ॥|| śrī āñjaneya dhyānam ||उद्यदातिय संकाशं उदार भुज विक्रमम् ।कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ १ ॥udyadātiya saṁkāśaṁ udāra bhuja vikramam |kandarpa koṭi lāvaṇyaṁ sarva vidyā viśāradam || 1 ||श्रीराम हृदयानन्दं भक्त कल्प महीरुहम् ।अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ २ ॥śrīrāma hṛdayānandaṁ bhakta kalpa mahīruham |abhayaṁ varadaṁ dorbhyāṁ kalaye A Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Sri Visnu Sahasranama Stotram

॥ संस्कृत सुधा॥ - Tue, 05/01/2007 - 09:14
॥ श्रीविष्णुसहस्रनामस्तोत्रम् ॥|| śrīviṣṇusahasranāmastotram ||शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥śuklāṁbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |prasannavadanaṁ dhyāyet sarvavighnopaśāntaye || 1 ||यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatamA Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Sri Venkatesvara Suprabhatam

॥ संस्कृत सुधा॥ - Sat, 04/28/2007 - 22:37
॥ श्रीः ॥|| śrīḥ ||॥ श्री वेङ्कटेश्वर सुप्रभातम् ॥|| śrī veṅkaṭeśvara suprabhātam ॥कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्ततेउत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १ ॥kausalyā suprajā rāma pūrvā sandhyā pravartateuttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 1 ||उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वजउत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥uttiṣṭhottiṣṭha govinda uttiṣṭha A Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com0
Categories: Sanskrit Blogs

Prayers

॥ संस्कृत सुधा॥ - Sat, 04/07/2007 - 08:04
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तयेजगतः पितरौ वन्दे पार्वतीपरमेष्वरौ॥vāgarthāviva sampṛktau vāgarthapratipattayejagataḥ pitarau vande pārvatīparameṣvarau ||दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालांदधानहस्तेनेकैन पद्मम् सितमपि च शुकम् पुस्तकम् चापरेण।भासाकुंदेन्दु शङ्खस्फटिकमणिनिभा भासमाना समानसा मे वाग्देवतेयम् निवसतुवदने सर्वदा सुप्रसन्ना॥dorbhiryuktā caturbhiḥ A Shttp://www.blogger.com/profile/03768568740804456403noreply@blogger.com1
Categories: Sanskrit Blogs

विनोदकणिकाः

संस्कृतपत्रिका - Wed, 02/07/2007 - 10:06
१) कोरिया देशस्य शिबिरम्

अध्यापकः -- मम नाम वसुवजः । भवतः नाम किम् ?

विद्यार्थी -- मम नाम किम् ।

अध्यापकः - प्रतिप्रश्नं मा प्रच्छतु भोः । नाम वदतु ।

विद्यार्थी -- मम नाम एव किम् । किम् जोन्ग् ।

(Remember ?

"Who is China's PM ?"
"Hu is China's PM" )

--------------------

२) गृहपाठम्

अध्यापकः -- गृहपाठम् श्रद्धया करोतु ।

विद्यार्थी -- श्रद्धा का ? कुत्र वसति ?
Categories: Sanskrit Blogs

बीर्बलस्य किछडी

संस्कृतपत्रिका - Sat, 02/03/2007 - 00:08
अत्र महाशैत्यमस्ति खलु। अतः प्रसक्ता इयं कथा । सर्वे प्रायः एतां कथां श्रुतवन्तः स्युः । परन्तु संस्कृतेन न श्रुतवन्तः इति भावयामि ।

अक्बरमहाराजः शैत्यकाले एकदा प्रभाते उत्थाय मन्त्रिभिः साकं विहारार्थं गतवान् । तत्र मार्गे एकं सरोवरमासीत् । तस्य सरोवरस्य शीतले जले एव जनाः स्नानादिकं कुर्वन्तः आसन् । तदा महाराजः जलं कियच्छीतलं स्यात् इति परीक्षितुं हस्तं सरोवरजले स्थापयति । जलं तु अत्यधिकशीतलमेव आसीत् । तथापि तत्र स्नानं कुर्वतः जनान् वीक्ष्य राज्ञः मनसि विचारमागतं कथं वा एतादृशं शैत्यं सोढुं शक्नुवन्ति इति । सः घोषितवान् च "यदि कोऽपि अस्मिन् शीतले सरोवरजले रात्रिपर्यन्तं तिष्ठति तस्मै अहं शतसुवर्णमुद्राणि दास्यामि" इति ।

कतिचन दिनानन्तरम् एकः निर्धनः ब्राह्मणः अक्बरमहाराजस्य सभाम् आगतवान् । सोऽपि राजानं प्रणम्य अब्रवीत् "महाराज ! मया श्रुतं यत् भवान् घोषितवान् सारोवरजले आरात्रिः यः तिष्ठति तस्मै शतसुवर्णमुद्राणि दास्यति इति । तदर्थम् आगतोऽस्मि । अहं रात्रिपर्यन्तं सरोवरजले स्थातुं सिद्धः " इति । राजा तद्वचनं श्रुत्वा "अस्तु ! अद्य रात्रिमेव भवान् सरोवरे यापयतु । श्वः प्रभाते पुनरागत्य घोषितं पारितोषकं स्वीकरोतु । परन्तु भवान् सरोवरे एव भवति इति परीक्षितुं तत्र सैनिक एकः भविष्यति " इति । तदङ्गीकृत्य ब्राह्मणः ततः निर्गच्छति ।

परेद्युः पुनरागत्य ब्राह्मणः राजानं नमस्कृत्य वदति " यथा महाराजेन आज्ञापितः तथैव कृतः" इति । राजा तं सैनिकं पृच्छति "किं सत्यमेतत् ? एषः रात्रिपर्यन्तं सरोवरे एव आसीत् वा?" इति । तदा सैनिकः "सत्यं महाराज! एषः तत्रैव आसीत्" इति उत्तरं ददाति । "भवान् तु रात्रौ कुत्रापि न गतवान् खलु" इति सैनिकं पृच्छति एकः मन्त्री । तदा सैनिकः "न तु । अहं तु आरात्रिः सरोवरतीरे एव आसम् " इति वदति । अन्येकः वदति "ब्राह्मणवर्य! कथं वा भवान् आरात्रिः सरोवरे स्थातुं शक्तवान् ?" । ब्राह्मणः विन्म्रतया वदति "मनोनिग्रहेण । दूरे एकः दीपः आसीत् । तद्दीपम् एव पश्यन् तस्मिन्नेव मनः केन्द्रीकृत्य जपमकरवम् " इति । तदा सः मन्त्री वदति " अहो ! एतत्तु नियमोल्लङ्घनमस्ति । तस्य दीपस्य तापः तु तत्रासीत् खलु । अत एव भवान् रात्रिपर्यन्तं सरोवरे स्थातुं शक्तवान् । अतः भवान् पुरस्कारं नार्हति। " राजा अपि तत्कारणात् ब्राह्मणं रिक्तहस्तम् एव प्रेषयति । एतेन प्रसङ्गेन असन्तृप्तः बीर्बलः राज्ञः मनः परिवर्तयितुं निश्चयति ।

एकदा बीर्बलः सपरिवारं राजानं भोजनार्थं स्वगृहमाह्वयति । राजा सपरिवारः आगच्छति । सर्वे वार्तालापं कुर्वन्तः कञ्चित् समयं यापयन्ति । बुभुक्षितास्ते भोजनस्य प्रतीक्षां कुर्वन्ति । भोजनसमयः भवति चेदपि आहारस्य विषये बीर्बलः किमपि न सूचयति । कश्चित् समयानन्तरं महाराजः एव बीर्बलं पृच्छति । "बीर्बल । भोजनं सिद्धं किम् ?" इति । बीर्बलः "क्षम्यतां महाराज । किछडीखादनं पचत् अस्ति । यदा सिद्धः भवति तदा भोजनं कुर्मः" इति वदति । अर्धघण्टानन्तरमपि भोजनम् अप्राप्तः राजा बीर्बलं पुनर्पृच्छति भोजनविषये । बीर्बलः पुनर्वदति यत् किछडीखादनम् इदानीम् अपि न सिद्धम् इति । एतेन कुपितः राजा स्वयमेव महानसं प्रति गच्छति । तत्र एकस्मिन् कोने अग्निः प्रज्वालितः भवति । तस्योपरि किमपि पात्रमदृष्ट्वा राजा वदति प्रायः इदानीं सिद्धमस्ति खादनम् इति । तदा बीर्बलः तं सूचयति पात्रं तु महानसस्य अन्यस्मिन् कोने अस्ति इति । तत्र अग्निः ज्वालितः न भवति एव । राजा वदति "किमेतत् ? तत्र अग्निः न प्रज्वालितः" इति । बीर्बलः वदति "अस्य अग्नेर्तापेन एव तत्र स्थिते पात्रे किछडीखादनं पचत् अस्ति " इति । राजा कोपेन "कथं वा तावद्दूरे स्थिते पात्रे पचेत् । अस्याग्नेर्तापस्तु तत्र न प्राप्यते एव" इति वदति । बीर्बलः विनम्रतया वदति "यदि दूरे स्थितस्य दीपस्य तापः सरोवरे स्थितं ब्राह्मणं प्राप्यति तर्हि अत्रापि किछडीखादनं पचेत्" इति । स्वप्रमादं ज्ञातवान् राजा चिन्तयन् ततः निर्गच्छति । क्षणार्धे एव बीर्बलः आगत्य भोजनं सिद्धम् इति सूचयति ।

दिनाभ्यन्तरे राजा तं ब्राह्मणं आनाय्य तं शतसुवर्णमुद्राणि दत्वा सत्करोति ।
Categories: Sanskrit Blogs

परिचय

नेतामहाभारतम् - Fri, 07/07/2006 - 23:58
शास्त्री नित्यगोपाल कटारे जन्म : २६ मार्च १९५५ ई० (चैत्र शुक्ल तृतीया संवत २०१२) जन्म स्थान : ग्राम टेकापार (गाडरवारा) जि० नरसिंहपुर (म.प्र.) आत्मज : स्व० श्री रामचरण लाल कटारे शिक्षा : वाराणसेय संस्कृत विश्व विद्यालय वाराणसी से व्याकरण 'शास्त्री` उपाधि; संस्कृत भूषण; संगीत विशारद। प्रकाशन : विभिन्न पत्र-पत्रिकाओं में व्यंग्य लेख, कविता, नाटक आदि का हिन्दी एवं संस्कृत भाषा में अनवरत प्रकाशन। प्रसारण : आकाशवाणी एवं दूरदर्शन के विभिन्न केन्द्रों से संस्कृत एवं हिन्दी कविताओं का प्रसारण। कृतियाँ : पञ्चगव्यम् (संस्कृत कविता संग्रह) विपन्नबुद्धि उवाच (हिन्दी कविता संग्रह) नेता महाभारतम् (संस्कृत व्यंग्य काव्य) नालायक होने का सुख ( व्यंग्य संग्रह ) विशेष : हिन्दी एवं संस्कृत भाषा के अनेक स्तरीय साहित्यिक कार्यक्रमों का संचालन एवं काव्य पाठ । पन्द्रह साहित्यिक पुस्तकों का संपादन। सम्प्रति : अध्यापन; महासचिव शिव संकल्प साहित्य परिषद्, नर्मदापुरम् एवं मार्गदर्शक 'प्रखर` साहित्य संगीत संस्था भोपाल। संपर्क : ई०डब्ल्यू एस०-६० हाउसिंग बोर्ड कॉलोनी होशंगाबाद पिन-४६१००(म०प्र०) दूरभाष- 07574-257338 e-mail- katare_nityagopal@yahoo.co.in जालघर : www.hindikonpal.blogspot.com http://sanskritseekho.blogspot.com/ http://netamahabhartam.blogspot.com/ शास्त्री नित्यगोपाल कटारे विभिन्न कार्यक्रमों में
Categories: Sanskrit Blogs

अथ संसद् समाचारः

नेतामहाभारतम् - Thu, 06/22/2006 - 09:12
राष्ट्राध्यक्षः उवाच - http://www.geocities.com/katare_nityagopal/sansad.wav संसद् क्षेत्रेऽधर्मक्षेत्रे राजनीति युयुत्सवः। समवेताः किं कुर्वन्ति सत्तापक्ष-विपक्षिणः।।१।। राष्ट्राध्यक्ष जी बोले- हे सचिव तुम मुझे बताओ कि इस समय अपनी धर्मनिरपेक्ष संसद सभा में क्या हो रहा है? वहाँ राजनैतिक योद्धागण सत्तापक्ष और विपक्ष के नेतागण एकत्रित होकर क्या कर रहे हैं? सचिव उवाच- प्रजातन्त्रस्य भो राजन् पश्यामि तच्छ्रूयताम्। विचित्रं संसद् दृश्यं नैतदुचितं न शोभनम्।।३ सचिव बोला- हे प्रजातन्त्र के राजन् मैं जो कुछ देखरहा हूँ ,कृपा केके आप भी सुनिये, किन्तु यह विचित्र सा संसद का दृश्य तो उचित है और न ही शोभनीय । सर्वे उत्थाय कुर्वन्ति कोलाहलं मत्स्य-हट्टवत्। बलात् गर्भगृहे गत्वा कटु वचनानि वदन्ति ते।।४ समस्त सांसद अपने-अपने स्थान से उठकर एक साथ बोल रहे हैं, जिससे मछली बाजार जैसा कोलाहल हो रहा है। कुछ सांसद बलात् गर्भगृह में घुसकर कटुवचन बोल रहे हैं। हस्तस्य मुष्ठिकां बध्वा कुर्वन्ति दन्तवादनम्। आसनं पादत्राणानि प्रक्षेपन्ति परस्परम्।।५ सब अपने अपने हाँथ की मुट्ठियाँ बाँधकर और दाँत किटकिटा कर चिल्ला रहे हैं।अपनी कुर्सियाँ और जूते-चप्पल एक दूसरे के ऊपर फेंक रहे हैं। तदा प्रलपति सभाध्यक्षः क्रुद्धं भूत्वा मुहुर्मुहुः। कोलाहले सभा मध्ये नादं तस्य न श्रूयते।।६ ऐसा दृश्य देखकर सभापति बार-बार क्रोधित होकर प्रलाप कर रहे हैं।किन्तु हुडदंग में उनकी आबाज बिल्कुल ही सुनाई नहीं दे रही है। किं कर्तव्य विमूढास्ते सचिवाः कर्मचारिणः। मतदातारश्च पश्यन्ति लज्जया दूरदर्शने।। ७ संसद के सचिव और कर्मचारीगण किं कर्तव्य विमूढ होकर असहाय बैठे हैं और उन्हें चुनकर भेजने वाले मतदातागण भी उनके इस कृत्य को लज्जा पूर्वक दूरदर्शन पर देख रहे हैं। सर्वकारस्य वक्तव्यं न कोऽपि श्रोतुमिच्छति। बहिष्कारं च कृतवन्तः सर्वे प्रतिपक्ष-सांसदाः।।८ सरकार कुछ वक्तव्य देना चाहती है पर उसे कोई सुनना ही नहीं चाहता, और प्रतिपक्ष के समस्त सांसदों ने हल्ला करते हुए बहिष्कार कर दिया। स्थितिमेतादृशीं दृष्ट्वा हताशः खिन्न मानसः। चिन्तितः मंत्रिमण्डलस्य नेता वचनमब्रबीत्।।९ ऐसी दुर्भाग्य पूर्ण स्थिति को देखकर दुखी मन से हताश होते हुए और चिन्ता करते हुए मन्त्रिमण्डल के नेताप्रधान मन्त्री जी ने ये वचन कहे। श्री वाजपेयी उवाच-- हे सखे हे लालकृष्ण अधुना किं करवाण्यहम्। ममैते बान्धवाश्चैव शत्रु भावमुपागताः ।।१० श्री वाजपेयी बोले- मेरे परम प्रिय मित्र लालकृष्ण जी इस समय मैं क्या करूँ?मेरे ये बन्धु-बान्धव जो हमेशा मेरा सम्मान करते थेवे ही आज शत्रुता पूर्ण कार्य कर रहे हैं। एकतः संघ परिवारः अपरतः विहिप साधवः । सर्वे मिलित्वा कृतवन्तः दयनीयाति मे स्थितिः ।।११ एक ओर मेरा आत्मीय संघ परिवार है, दूसरी ओर मेरे ही शुभ चिन्तक विश्व हिन्दु परिषद के साधु-सन्त हैं,ये सब मिलकर मेरी स्थिति अत्यन्त दयनीय बना रहे हैं। कर्त्तव्यं किमकर्त्तव्यं किमुचितं किञ्च नोचितम्। करवाणि किन्न करवाणि मम बुद्धिर्विमोहिता।।१२ क्या कर्तव्य है ? क्या अकर्तव्य है ? क्या उचित है? क्या अनुचित है? मैं क्या करूँ ? क्या न करूँ इस मामले में मेरी बुद्धि मोहित सी हो गई है। तृमूका तेलगूदेशम अन्ये च सहयोगिनः। भिन्नं भिन्नं च वक्तव्यं ददति कष्टकरं महत्।।१३ तृणमूल काँग्रेस .तेलगूदेशम् .आदि मेरे ही सहयोगी दल अलग अलग प्रकार के अवांछित वक्तवय दे देकर मेरे कष्ट को और भी बढा रहे हैं। अतीव संवेदनशीलः ममता नीतेश विग्रहः। समता ममताभ्यां मध्ये अहं पिष्टोस्मि चूर्णवत्।।१४ अभी अभी ममता और नीतेश का झगड़ा तो और भी अधिक संवेदनशील हो गया है।इन ममता समता के बीच में मैं तो व्यर्थ ही पिसा जा रहा हूँ।।
Categories: Sanskrit Blogs

Pages

Subscribe to Sanskrit Central aggregator - Sanskrit Blogs