Sanskrit Blogs

Sanskrit blog : Chandrika ( A Fairy tale)- 61

Simple Sanskrit - Sat, 10/29/2016 - 16:10
चन्द्रिका-६१
स्वसखायमनुद्धतं बिडालंरथमारुह्य सहर्षमाह्वयन्ती ।सह तेन जगामचाङ्गनाभ्यांवृतबाला जनपालयं जवेन ॥ २२३ ॥
रुरुधे रथमाशु चन्द्रिकायाःप्रतिहारः नृपमन्दिरस्य मार्गे ।अवदत् प्रतिषिध्यतेऽस्य जन्तोःनृपसौधे नरपाज्ञया प्रवेशः ॥ २२४ ॥- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog : Chandrika (A Fairy tale)-60

Simple Sanskrit - Sat, 10/22/2016 - 18:46
चन्द्रिका-६०
तनये तव वाञ्छितं प्रपूर्णंसकलं स्थास्यति सृष्टमत्र तावत् ।नववस्त्रविभूषणानि राजासुखितो दास्यति वो शुभाय यावत् ॥ २२० ॥
इति यावदुवाच दिव्ययोषित्क्षणदेव प्रसभंह्यभूददृश्या ।अनिरीक्ष्यगतेन तावदेवप्रजहत्याशु कृतिस्थलं कृतार्थाः ॥ २२१ ॥
उमया सह लज्जिता विमाताप्रसमीक्ष्याचरणं हि चन्द्रिकायाः ।अपकारकृतां कृतोपकारः बहुशो वर्धयते सतां प्रवृत्तिम् ॥ २२२ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog:Chandrika (A Fairy tale)-५९

Simple Sanskrit - Sat, 10/15/2016 - 21:42
चन्द्रिका-५९
लसदुज्ज्वलभूषणैर्विविक्तैःविमलक्षौमपरिच्छदैश्च रामाः।सुरयोषिदमोघमाययैवक्षणमात्रेण विभूषिता बभूवुः ॥ २१८ ॥
पुरुहूतनियन्तृरूपसूतःदृढपुष्टाकृतयस्सितास्तुरङ्गाः ।कनकोदकलिप्तशृङ्गयुक्तःशतघण्टासहितः रथश्च सिद्धाः ॥ २१९ ॥ 
- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

अपोहस्तदपोहनं च

Balramshukla's Blog - Fri, 10/14/2016 - 19:41

This  paper deals with the Apoha Theory and its refutation published in the Volume titled- काश्मीरशैवदर्शनबौद्धदर्शनमीमांसा edited by Prof. Hareram Tripathi; from Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapitha, New Delhi-2016.

 

    अपोहस्तदपोहनं च

अपोहवादः–

बाह्यवस्तूनां वास्तविकीं नित्यां च सत्तां निराकुर्वाणाः सौगताः[i] तेषां वस्तुवत्प्रतीतिं नेत्रामयातुरस्य चन्द्रद्वयप्रतीतिवदयथार्थामुपतिष्ठन्ते। यत्सत्तत् क्षणिकमिति मन्यमानानां क्षणिकवादिनां प्रतिक्षणं नव एव भावप्रवाहोऽस्तित्वे दरीदृश्यते नास्ति च तेषां परस्परं संबन्धः प्रतीत्यसमुत्पादादृते। पूर्वं वस्तु परम् उत्पाद्य विलीयते[ii] ।  प्रतिक्षणं नवीभवत्स्वपि वस्तुषु या साम्यधारा प्रवहन्तीव दृश्यते अनुगतप्रतीतिकारिणी सा त्वत्यन्तवेगेन प्रवर्तमानतया क्षणिकसन्तानानां भ्रमवशात्प्रतीयते न तु तुच्छसामान्यादिकारणवशात्। तथा च तत्रभवान् धर्मकीर्तिः एकप्रत्यवमर्श एव एकरूपतायाः कारणं न तु सामान्यम्–

एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी ।

एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता[1]

वस्तुतो बौद्धा जातिं न स्वीकुर्वते तस्य कारणं जातेर्नित्यतया स्वीकृतं स्वरूपम्। तेषाम्मतेन अनुगताकारप्रतीतेः कारणत्वेन जातिर्मन्यतामित्यस्य आवश्यकतैव न विद्यते यतः येयमनुगताकारप्रतीतिः सा भ्रमात्मिका वस्तुनः क्षणमात्रस्थायित्वात्। अतो जातिर्निरर्था।

तत्त्वविचारप्रसङ्गे तु जातिर्निराकृता। अधुना, विभिन्नमतवादिनो जातिं वाच्यतया आवश्यकीं स्वीकुर्वते । वैयाकरणनैयायिकादीनां मते जातिर्विशिष्टा वासहाया वा वाच्यत्वेन स्वीकृतैव। तेषाम्मतेन शब्दाः वस्तूनाम् जातिमवश्यमेवाभिदधति अन्यथा समान एव घटशब्दः भिन्नभिन्नघटपदार्थान् कथं प्रत्याययेत्। एवं तेषां मतौ जातिर्वाच्यापि वाच्यनियमस्य व्यस्थापिकापि वर्तते।    तत्र बौद्धा संगिरन्ते– आदौ जातिर्न वाच्या तस्य असत्त्वात्, तुच्छभूतत्वात्,मनस्संरचितत्त्वाच्च[2]। अथ च भवन्तः वाच्यवाचकनियमने यां जातिं हेतुं मन्यन्ते वयं शाब्दव्यवहारं तां विनापि व्याचक्ष्महे। कथमिति चेत् अपोहप्रक्रियाद्वारा।

शब्दैः अर्थानां वाचनं न भवति तेषां क्षणमात्रस्थायित्वात् तत्र सङ्केतासंभवात्। अर्थात् यावता वयं शब्दान् प्रयुञ्ज्महे तावता यस्मै अर्थाय शब्दान् प्रयुञ्ज्महे स नास्त्येव। अतः शब्दैर्वस्तूनां वाचनं दुःशकम्। अतो सौगतैः स्थिरीक्रियते यद्वाग्व्यापारे शब्दैर्वस्तूनि नोच्यन्ते अपितु यस्मै प्रयुज्यते शब्दस्तमर्थं तद्भिन्नेभ्यो व्यावर्तयति। यतः वाचनमसम्भवम्। अष्टमशतके बङ्गप्रदेशे लब्धजनिना सौगतराद्धान्तविशारदेन शान्तरक्षितेन तत्त्वसंग्रहस्य शब्दार्थपरीक्षायां शब्दस्य पञ्चसंभावितवाच्यानि आशङ्क्य तेषा शब्दवाच्यता खण्डिता–

यतः स्वलक्षणं जातिस्तद्योगो जातिमानपि।

बुद्ध्याकारो न शब्दार्थे घटामञ्चति तत्त्वतः[3]

धर्मकीर्तिः स्वलक्षणसामान्यलक्षणभेदेन विषयं द्विधा विभनक्ति तदनुगुणं च प्रत्यक्षमनुमानं च द्वयं प्रमाणं स्वीकरोति। प्रत्यक्षविषयः स्वलक्षणः,असदृशः,असाधारणः,सर्वव्यावृत्तः,शब्दाविषयः,अर्थक्रियासमर्थः क्षणिकश्चास्ति। तत्प्रतीपतया अनुमानविषयः सामान्यलक्षणः,साधारणः,शब्दविषयः,अर्थक्रियासामर्थ्यरहितश्च भवति। सामान्यलक्षणं संवृतिसत् स्वलक्षणं च परमार्थसत्। परमार्थसत्स्वलक्षणं न शाब्दज्ञानविषयः,तत्र सङ्केताभावात्[4]। अतश्शाब्दज्ञानविषयोऽवस्त्वेव। शब्दा विकल्पेभ्य उपजायन्ते विकल्पांश्चोपजनयन्ति। ते खलु अर्थं स्प्रष्टुमपि न शक्नुवन्ति। यथोक्तम् बौद्धन्यायस्यपितृभूतेन दिङ्नागेन–

विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः।

कार्यकारणता तेषां नार्थं शब्दा स्पृशन्त्यपि ॥

तथापि शब्दः अर्थमुक्तवानित्युच्यते।कथमेतदिति दिङ्नागमतमनुवदञ्शान्तरक्षितो ब्रूते– वस्तुतः शब्दो बाह्यार्थज्ञानस्य प्रतिबिम्बमुत्पादयति विकल्परूपेण यद्बाह्यार्थाध्यवसायि भवति , एतदेव व्यतिरेकव्याप्त्या वस्तून् ज्ञापयति। यदा शब्दः विकल्पप्रतिबिम्बमुत्पादयति प्रतिबिम्बं च यदा बाह्यार्थाध्यवसाये प्रवर्तते तदा कथ्यते–,अनेन स्वार्थ एवाभिधीयते, इति। एतदेवाभिधानं यत्स्वजातीयविजातीयेभ्य व्यावर्तनम्[5]।अन्यथा सर्वोऽपि शब्दव्यवहारः अनित्य एव[6]

तिमिरोपहाताक्षो हि यथा प्राह शशिद्वयम्।

स्वसमाय तथा सर्वा शाब्दी व्यवहृतिर्मता॥

व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम्।

मिथ्यावभासिनो ह्येते प्रत्यया शब्दनिर्मिताः॥

सर्वेऽपि धर्मा अवाच्याः इति साधयितुमपोहो वर्ण्यते–

(अपोहः) साध्यते सर्वधर्माणामवाच्यत्वप्रसिद्धये[7]

अथ च–

गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः।

शून्यम् आरोपिताकारशब्दप्रत्ययगोचरम्[8]

(बाह्यज्ञानमेतैर्भेदकैर्हीनमारोपिताकाराशब्दानां प्रत्ययैश्च ग्राह्यम्।)

शब्दस्य ज्ञानस्य वा वस्तुतः विषयो नास्त्येव बाह्यजगति–

…..विषयोऽमीषां धीध्वनीनां न कश्चन[9]

यस्य यस्य हि शब्दस्य यो यो विषय उच्यते।

स स संघटते नैव वस्तूनां सा हि धर्मता [10]

अतः अन्यव्यावृत्त्यैव शब्दव्यवहारोपपत्तिः सम्भवति।

केवलमभिधानस्य कृते जातेः सत्ता स्वीक्रियतामिति अविचारितरमणीयमिदम्। बौद्धैस्तत्कार्यमपोहैरेव साध्यते आकाशकुसुमवज्जातेश्च पश्चान्न भ्राम्यन्तो भवन्ति। यथाह बौद्धधर्मकीर्तिः धर्मकीर्तिः–

व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत्प्रयोजनम्।

शब्दानामिति किं तत्र सामान्येनापरेण वः॥[11]

अत्रावधेयं यद्बौद्धैश्शाब्दव्यवहारस्यापलापो न क्रियतेऽपितु तत्रारोप्यमाणा या तात्त्विकता सैव निवार्यते[12]

बाह्यरूपेण ज्ञातो बुद्ध्याकार एव शब्दार्थः[13]ज्ञानस्य बुद्धिरूपताया यदा बाह्यवस्तुरूपेण पर्यवसानं तदा ज्ञाता विपर्यस्तः सन् तस्य क्रियाकारित्वमवैति। बाह्यमिदं नपारमार्थिकमपितु समारोपितबुद्धयाकारः। सविषयबाह्यद्रव्यादौ अध्यस्तो बुद्ध्याकारः शब्दार्थः। समारोपितमसद्भवति अवस्तुभूतत्वात्। निष्कर्षतः शब्दैः कस्यचिदपि वस्तुनो भावतयाभिधानमसंभवम्। तथा च धर्मकीर्तिः–

तद्रूपारोपगत्यान्यव्यावृत्त्यधिगते पुनः ।

शब्दार्थोऽर्थः स एवेति वचने न विरुद्ध्यते ॥[14]

स्वलक्षणस्याभिप्रायः स्वतो व्यावृत्तः, इतरव्यावर्तकं,अथवा तद्भिन्नभिन्नत्वमस्ति। प्रत्येकं पदार्थः स्वत एवान्येभ्यः पदार्थेभ्यः भिन्नः अस्ति– अयमेव तस्य स्वभावः स्वलक्षणम् वर्तते। स्व आत्मा एव लक्षणं व्यार्तको यस्य। एवं प्रत्येकपदस्यवाच्यमपोह एव।

अपोहोऽपि पर्युदासप्रसज्यभेदेन द्विविधः[15]। पर्युदासोऽपि अर्थस्य विजातीयात् व्यावृत्तस्यार्थस्य स्वलक्षणं रूपमस्ति। ज्ञानश्रीमित्रः मनुते शब्दैर्मुख्यतः निषेध एव क्रियते विधिरूपो गौणोऽर्थः निषेधमाध्यमेनैव प्रतिफलति[16]

संक्षेपेणाधुनोच्यते। बौद्धा सर्वं वस्तुजातं क्षणिकमनित्यं च स्वीकुर्वते। तत्र शब्दस्य संकेतो भवितुं नार्हति–स्वलक्षणत्वाद्वस्तुतत्त्वस्य। अतो नास्ति शब्दार्थयोर्वाच्यवाचकभावः। किं तर्हि शब्देन क्रियते– अन्यापोहः न तु वाचनम्।

                                        तदपोहनम्–

१–अपोहवादे प्रत्यक्षस्यापलापः दृश्यते। नास्माभिः अगौभिन्नं वस्तु बौधयितुं गौशब्द उच्चार्यते– तर्हि किम्। गावं बोधयितुम्। अथ च प्रतिपत्तापि अगौव्यावर्तनपुरस्सरं गोशब्दस्यार्थं न प्रतिपद्यतेऽपितु प्रत्यक्षतः शब्दादर्थं जानाति[iii]

निषेधमात्रं नैवेह प्रतिभासेऽवगम्यते[17]

विधिरूपावसायेन मतिः शाब्दी प्रवर्तते[18]

२–अवाचकत्वे शब्दानां प्रतिज्ञाहेत्वर्व्याघातः (उद्योतकरः)।

३– शब्दार्थम् अपोहलब्धं मन्वाना अपि बौद्धा वाक्यार्थं प्रतिभात्मकं मन्वते। तथा च दिङ्नागः–

   अपोद्धारे पदस्यायं वाक्यादर्थो विवेचितः।

   वाक्यार्थः प्रतिभाख्योऽयं तेनादावुपजायते[19]

एषः पदार्थद्वयाभ्युपगमस्तेषां सिद्धान्तानामसमर्थतामपर्याप्तता च द्योतयितुं पर्याप्ता।

४– गोशब्दो यदि गोभिन्नस्य अर्थस्य निराकृतौ गतार्थस्तर्हि गवार्थं बोधयितुं अन्यः कश्चित् शब्दः वक्त्रा प्रयुज्येत। एकेनैव शब्देन विधिनिषेधार्थमुभयं कार्यं कल्पनागौरवं प्रयोजयति। (भामहः[20])

५–यथा सामान्यवादिनः सर्वत्र गोबुद्धौ गोत्वसामान्यमुपतिष्ठन्ते तथैव भवद्भिस्तेष्वेव प्रसङ्गेषु अगोसामान्यमिव स्वीकृतम्। नास्त्येवमुभययोरन्तरं किञ्चिदपि[21](कुमारिलः)

६–सामान्यविशेषाभिधायकाः सर्वेऽपि शब्दाः पर्यायवचनाः स्युः। अपोहग्राह्यत्वात्। अवस्तुत्वाच्चापोहस्य तत्र भेदासंभवात्।[iv]

७–शब्दप्रयोगः सदैव तत्प्रत्याय्यनिश्चयपूर्वकमेव भवति। अपोहप्रसंगे तु अगोऽपोहनिश्चयः कस्यचिदपि न भवति। कथं पुनरस्मिन् दर्शने शब्दस्य प्रयोगः सम्भवति[22]?

८– उद्द्योतकरो ब्रूते– सर्वपदस्यापोहलब्धोऽर्थः कः भविष्यति। यावता असर्वः कश्चिदपि न भवति[23]

९– च, तु, हि, वै इत्यादिनिपातानाम् अपोहार्थः कथं प्रतिभातु।

……………………………………………………………………………………..

बौद्धानामपोहवादः क्षणभङ्गवादजनितः जातिविरोधेन चोपोद्बलित आस्ते। सर्वधर्माणामनित्यतानुरोधं रक्षद्भिर्बौद्धै सिद्धान्तोऽयं पल्लवितः,विरोधिनां कर्कशतर्ककुठारेभ्यश्चास्य सयत्नं सुरक्षा कृता। यद्यपि क्षणभङ्गवादः धार्मिकसिद्धान्तरूपेण वैराग्यसन्धुक्षणाय मनःप्रीतिकरः प्रतिभाति तथापि तदनुरोधेनानुप्राणितः अपोहसिद्धान्तः शाब्दबोधसम्बन्धिष्वनुबन्धेषु नोत्तरन्निव प्रतिभाति। अनेकघटेभ्यः प्रयुज्यमानः घटशब्दः घटभिन्नभिन्नमेव किमर्थं द्योतयति नान्यच्च किञ्चित्? वर्तत एव तत्र काचित् समानता शब्दे तस्य व्यापारे तस्य फले च येन शब्दव्यापारः सम्भवति। बौद्धा सशपथं सामान्यं निराकुर्वाणाः अपि प्रकारान्तरेण तत्तुल्यमेव कार्यं कुर्वन्तः प्रतिभान्ति। सामान्ये च स्वीकृते तेषामपोहवादोऽपोह्यत एव।

 

 

[1] प्रमाणवार्तिकम्, स्वार्थानुमानपरिच्छेदः–१०९

[2] तद्व्यक्त्याकृतिजातीनां पदार्थत्वं यदुच्यते।तदसम्भवि सर्वासामपि नीरुपता यतः॥ (शब्दार्थपरीक्षा–८८३)

[3] शब्दार्थपरीक्षा–८७०

[4] यच्च वस्तुबलाज्ज्ञानं जायते तदपेक्षते।न संकेतं न सामान्यबुद्धिष्वेतद्विभाव्यते॥ (प्रमाणवार्तिकम्– प्रत्यक्षपरिच्छेद–४५)

तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते।संकेतव्यवहाराप्तकालव्याप्तिवियोगतः॥(शब्दार्थपरीक्षा–८७१)

[5] अर्थान्तरव्यच्छेदं कुर्वती श्रुतिरुच्यते।अभिधत्त इति स्वार्थमित्येतदविरोधि तत्॥

 बाह्यार्थाध्यवसायेन प्रवृत्तं प्रतिबिम्बकम्।उत्पादयति येनेयं तेनाहेत्यपदिश्यते॥

 न तु स्वलक्षणात्मानं स्पृशत्येषा विभेदिनम्। तन्मात्रांशातिरेकेण नास्त्यस्या अभिधाक्रिया॥(शब्दार्थपरीक्षा–१०१५–१०१७)

[6] शब्दार्थपरीक्षा–१२१०–१२११

[7] ज्ञानश्रीमित्रनिबन्धावली

[8] तत्त्वसंग्रहः २

[9] शब्दार्थपरीक्षा–८६८

[10] शब्दार्थपरीक्षा–८६९

[11] प्रमाणवार्तिकम् – ३–१७

[12] नहि सर्वथा शब्दार्थापवादोऽस्माभिः क्रियते–तस्यागोपालमपि प्रतीतत्वात्।किन्तु तात्त्विकधर्मो यः परैस्तत्रारोप्यते तस्य निषेधः क्रियते । न तु धर्मिणः। (तत्त्बसंग्रहपञ्जिका, खण्ड१, पृ.२२७)

[13] बुद्ध्याकारो बाह्यरूपतया गृहीतः शब्दार्थः।(शान्तरक्षितः)

[14] प्रमाणवार्तिकम्– २१–७

[15] तथा हि द्विविधोऽपोहः पर्युदासनिषेधतः।द्विविधः पर्युदासोऽपि बुद्ध्यात्मार्थात्म भेदतः॥ (शब्दार्थपरीक्षा–१००३)

[16] तत्त्वसंग्रह–शब्दार्थपरीक्षा की रमेशचन्द्रशर्माकृत हिन्दीव्याख्या पृष्ठ २, पादटिप्पणी १।

[17] शब्दार्थपरीक्षा–९०९

[18] शब्दार्थपरीक्षा–९१०

[19] प्रमाणसमुच्चय,वा.का.४६, Masaaki Hattori द्वारा उद्धृत,– Bhartrihari and Pratibha.

कुमारिलोऽपि– असत्यपि च बाह्येऽर्थे प्रतिभालक्षणो यथा।पदार्थोऽपि तथैव स्यात् किमपोहः प्रकल्प्यते॥

[20] यदि गौरिति शब्दश्च कृतार्थोऽन्यनिराकृतौ।जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिः॥

न तु (‍?)ज्ञानफलाः शब्दा न चैकस्य फलद्वयम्। अपवादविधिज्ञानं फलमेकस्य वः कथम्॥(काव्यालङ्कारसूत्र ६–१७,१८)

[21] अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम्।गोत्वं वस्त्वेव तैरुक्तमगोपोह गिरा स्फुटम्॥(श्लोकवार्तिकम्–)

[22] इन्द्रियैर्नाप्यगोपोहः प्रथमं व्यवसीयते।नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम्॥(श्लोकवार्तिकम्)

[23]

[i]   बौद्धानां प्रमुखसिद्धान्तास्तत्र च तत्त्वस्थितिः

 

मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्

योगाचारमते तु सन्ति मतयस्तासां विवर्तोऽखिलः।

अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्ध्येति सौत्रान्तिकः

प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको मन्यते ॥

 

[ii] यश्चापि क्षण उत्पन्नस्तद्बलेन तदापरः॥(शब्दार्थपरीक्षा–८७७.१–२)

 

[iii] यदि नोपाधयः केचिद्विद्यन्ते पारमार्थिकाः।

दण्डी शुक्लश्चलत्यस्ति गौरिहेत्यादि धीध्वनी॥

स्यातां किं विषयावेतौ नानिमित्तौ च तौ मतौ ।

सर्वस्मिन्नविभागेन तयोर्वृत्तेरसंभवात्॥(शब्दार्थपरीक्षा–८६६,८६७)

 

प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेत्।

येनागोःप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः॥(काव्यालङ्कारसूत्र–भामह ६.१९)

 

[iv] भिन्नसामान्यवचना विशेषवचनाश्च ये। सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता॥

संसृष्टैकत्वनानात्वविकल्परहितात्मनाम्।अवस्तुत्वादपोहानां नैव भेदोऽपि विद्यते॥(श्लोकवार्तिकम्)


Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale)-58

Simple Sanskrit - Sat, 10/08/2016 - 17:57
चन्द्रिका-५८नरपोचितवेशभूषणैर्मांजननीं मे भगिनीं च सज्जितास्त्वम् ।कुरु देवि रथं ससारथिं चसृज याच्ञां शृणु चन्द्रिकेत्यवोचत्   ॥ २१६ ॥
सुकरः खलु पुत्रि ते नियोगःकृतमित्येव मयात्र विद्धि भक्ते ।इति यावदुवाच देवता स्त्रीसकलं सृष्टमभूत् हि तावदेव ॥ २१७ ॥ - - - -  
http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

ಪೇಜಾವರ ಪರ್ಯಾಯ -ರಾಜಾಂಗಣದಲ್ಲಿ ವಿಶೇಷ ಸಾಹಿತ್ಯ ಉಪನ್ಯಾಸಗಳು -4- 10- 2016 to 9-10-2016

Sanskrit Net Loka - Tue, 10/04/2016 - 12:24
ಉಡುಪಿ ರಾಜಾಂಗಣದಲ್ಲಿ ನವರಾತ್ರಿ ಸಾಹಿತ್ಯ ಉಪನ್ಯಾಸಗಳು4- 10-2016   5pm-ಉದ್ಘಾಟನೆ - ಶ್ರೀ ರುದ್ರಪ್ಪ ಲಮಾಣಿ, ಧಾರ್ಮಿಕ ದತ್ತಿ ಸಚಿವರು , ಕರ್ನಾಟಕ ಸರಕಾರಡಾ/ ಸಿದ್ದಲಿಂಗಯ್ಯ - ಮಾತನಾಡುವ ದೇವರುಡಾ / ತಾಳ್ತಜೆ ವಸಂತ ಕುಮಾರ್ - ನಮ್ಮ ಪರಿಸರ5-10-20165pmಶ್ರೀ ದೊಡ್ದ ರಂಗೇ ಗೌಡ - ಜಾನಪದ ಸಾಹಿತ್ಯಶ್ರೀಮತಿ ಸಂಧ್ಯಾ ಪೈ- ಸರಳ ಸಾಹಿತ್ಯ , ಕತೆಗಳ ಮೂಲಕ6 -10-2016 5pmಶ್ರೀ ನಾ ಡಿ ಸೋಜ - ಸಾಹಿತ್ಯ ಮತ್ತು ಸಮನ್ವಯ7-10-2016- 5pm ಬಿ.ಆರ್. ಲಕ್ಷ್ಮಣ ರಾವ್- ಕವಿತೆಶ್ರೀ ವಿಶ್ವೇಶ್ವರ ಭಟ್ - ಪತ್ರಿಕೋದ್ಯಮ ಮತ್ತು ಸಮಾಜ8- 10-2016 -5pmಶ್ರೀ ಕೆ. ಎಸ್. ನಿಸಾರ್ ಅಹಮದ್- ಕವಿತಾ ವಾಚನಡಾ / ಸಿ. ಎನ್. ರಾಮಚಂದ್ರನ್ - ಸ್ತೋತ್ರ ಸಾಹಿತ್ಯ9- 10-2016 -5pmಹಾಸ್ಯ ಸಾಹಿತ್ಯ - ಎಚ್. ಡುಂಡಿರಾಜ್ ,ವೈ. ವಿ. ಗುಂಡೂ ರಾವ್ , ಗಂಗಾವತಿ ಪ್ರಾಣೇಶ್ , ಎಮ್. ಎಸ್. ನರಸಿಂಹಮೂರ್ತಿNavaratri Special Lectures at Rajangana Udupi - from october  4th to 9th 2016
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale)-57

Simple Sanskrit - Sat, 10/01/2016 - 15:24
चन्द्रिका-५७
शृणुत क्षितिपालयं व्रजामिप्रसभं कामदुघां समर्च्य देवीम् ।समयः प्रतिपाल्यतां भवद्भिःइति सा प्रार्थयतागतान् विनम्रा ॥ २१३ ॥
प्रमदाऽतुलभक्तिभावपूर्णामुनिदत्तं प्रबलं जजाप मन्त्रम् ।स्वतनुं प्रणिधाय नैजकक्षेरहसि स्वस्थमनाः निमील्य नेत्रे ॥ २१४ ॥
सपदि स्मिततोयसिक्तवक्त्राविबुधस्त्री शुभमूर्तिराविरासीत् ।तनये वद किं मयाद्य कार्यंअनुकम्पा त्वयि मे सदेत्यवादीत् ॥ २१५ ॥
- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

ಬನ್ನಂಜೆ ಗೋವಿಂದಾಚಾರ್ಯ { Audio } - ವೈದಿಕ ಛಂದಸ್ಸು - VEDIC PROSODY by Bannanje Govindacharya

Sanskrit Net Loka - Sun, 09/25/2016 - 23:13
bannanjevedicchandas - Clyp - pls clik here to listen




Bannanje Govindacharya's talk on VEDIC PROSODY at Udupi on 25-9-2016 . Function organised by Old Students Association , S. M. S P Sanskrit College , Udupi
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A fairy tale)-56

Simple Sanskrit - Sat, 09/24/2016 - 15:57
चन्द्रिका-५६
स्मितमुखी दृढनिश्चयचोदितासपदि तां स्फुरदुज्ज्वलपादुकाम् ।
अधिरुरोह सलीलमलज्जितानृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥ x x x
अथ राजभटाः प्रफुल्लवक्त्रा:विनयोपेतगिरा समाह्वयन्स्तां । शृणु देवि पुरेशपुत्रपत्नी भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥
परिधानमनाविलं वसानादृढमच्छिद्रमितो नृपालयं त्वम् ।व्रज शीघ्रमुदेति भाग्यसूर्यःनृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog : Chandrika ( A Fairy tale)-55

Simple Sanskrit - Sat, 09/17/2016 - 16:05
चन्द्रिका-५५
तदनु चन्द्रिकया स्वमनोरथःस्खलितवाचि गदितः कलां प्रति ।यदि यते परिधातुमुपानहं सफलता खलु सिद्ध्यति भाति मे ॥ २०७ ॥
अयि कथं कृपणा मणिपादुकांसमधिरोढुमिमां त्वमिच्छसि ।प्रथितसत्कुलजोचितभाजनंभजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥
इति वचो भणितं कलया यदानृपभटैः प्रसभं समुदीरितं ।भवति नात्र मनागपि भिन्नताभृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Pages

Subscribe to Sanskrit Central aggregator - Sanskrit Blogs