ब्राह्मण उवाच

Subscribe to ब्राह्मण उवाच feed
mukeshhttp://www.blogger.com/profile/12661296516294127548noreply@blogger.comBlogger113125
Updated: 36 min 52 sec ago

कूष्माण्डेति चतुर्थकम्

Fri, 10/19/2012 - 09:10

 कूष्माण्डेति चतुर्थकम् 
सुरासम्पूर्णकलशंरुधिप्लूतमेवच।
दधानाहस्तपदमाभयांकूष्माण्डाशुभदास्तुमे॥
ध्यान
वन्दे वांछित कामर्थेचन्द्रार्घकृतशेखराम्।
सिंहरूढाअष्टभुजा कुष्माण्डायशस्वनीम्॥
भास्वर भानु निभांअनाहत स्थितांचतुर्थ दुर्गा त्रिनेत्राम्।
कमण्डलु चाप बाण पदमसुधाकलशचक्र गदा जपवटीधराम्॥
पटाम्बरपरिधानांकमनीयाकृदुहगस्यानानालंकारभूषिताम्।
मंजीर हार केयूर किंकिणरत्‍‌नकुण्डलमण्डिताम्।
प्रफुल्ल वदनांनारू चिकुकांकांत कपोलांतुंग कूचाम्।
कोलांगीस्मेरमुखींक्षीणकटिनिम्ननाभिनितम्बनीम्॥
स्तोत्र 
दुर्गतिनाशिनी त्वंहिदारिद्रादिविनाशिनीम्।
जयंदाधनदांकूष्माण्डेप्रणमाम्यहम्॥
जगन्माता जगतकत्रीजगदाधाररूपणीम्।
चराचरेश्वरीकूष्माण्डेप्रणमाम्यहम्॥
त्रैलोक्यसुंदरीत्वंहिदु:ख शोक निवारिणाम्।
परमानंदमयीकूष्माण्डेप्रणमाम्यहम्॥
कवच
हसरै मे शिर:पातुकूष्माण्डेभवनाशिनीम्।
हसलकरींनेत्रथ,हसरौश्चललाटकम्॥
कौमारी पातुसर्वगात्रेवाराहीउत्तरेतथा।
पूर्वे पातुवैष्णवी इन्द्राणी दक्षिणेमम।
दिग्दिधसर्वत्रैवकूंबीजंसर्वदावतु॥
Categories: Stotra - Pooja

तृतीयं चन्द्रघण्टा

Thu, 10/18/2012 - 07:44
तृतीयं चन्द्रघण्टा

पिण्ड जप्रवरारूढ़ा चण्ड कोपास्त्र कैर्युता। 
प्रसादं तनुते मह्रयं चन्द्र घण्टेति विश्रुता॥  
ध्यान
वन्दे वांछित लाभायचन्द्रार्घकृतशेखराम्।
सिंहारूढादशभुजांचन्द्रघण्टायशस्वनीम्॥
कंचनाभांमणिपुर स्थितांतृतीय दुर्गा त्रिनेत्राम्।
खंड्गगदात्रिशूल चापहरंपदमकमण्डलु मालावराभीतकराम्।
पटाम्बरपरिधांनामृदुहास्यांनानालंकारभूषिताम्।
मंजीर, हार, केयूर किंकिणिरत्‍‌नकुण्डलमण्डिताम्॥
प्रफुल्ल वंदना बिबाधाराकातंकपोलांतुंग कुचाम्।
कमनीयांलावण्यांक्षीणकंटिनितम्बनीम्॥
 स्तोत्र
आपदुद्वारिणी स्वंहिआघाशक्ति: शुभा पराम्।
मणिमादिसिदिधदात्रीचन्द्रघण्टेप्रणभाम्यहम्॥
चन्द्रमुखीइष्टदात्री इष्ट मंत्र स्वरूपणीम्।
धनदात्रीआनंददात्रीचन्द्रघण्टेप्रणमाम्यहम्॥
नानारूपधारिणीइच्छामयीऐश्वर्यदायनीम्।
सौभाग्यारोग्यदायनीचन्द्रघण्टेप्रणमाम्यहम्॥
कवच
रहस्यं श्रुणुवक्ष्यामिशैवेशीकमलानने।
श्री चन्द्रघण्टास्यकवचंसर्वसिद्धि दायकम्॥
बिना न्यासंबिना विनियोगंबिना शापोद्धारबिना होमं।
स्नानंशौचादिकंनास्तिश्रद्धामात्रेणसिद्धिदम्॥
कुशिष्यामकुटिलायवंचकायनिन्दाकायच।
न दातव्यंन दातव्यंपदातव्यंकदाचितम्॥
Categories: Stotra - Pooja

द्वितीयं ब्रह्मचारिणी

Wed, 10/17/2012 - 10:15
              द्वितीयं ब्रह्मचारिणीदधानापरपद्माभ्यामक्षमालाककमण्डलम्।देवी प्रसीदतुमयिब्रह्मचारिणयनुत्तमा॥                       ध्यानवन्दे वांछित लाभायचन्द्रार्घकृतशेखराम्।जपमालाकमण्डलुधरांब्रह्मचारिणी शुभाम्।गौरवर्णास्वाधिष्ठानस्थितांद्वितीय दुर्गा त्रिनेत्राम्।धवल परिधानांब्रह्मरूपांपुष्पालंकारभूषिताम्।पदमवंदनांपल्लवाधरांकातंकपोलांपीन पयोधराम्।कमनीयांलावण्यांस्मेरमुखींनिम्न नाभिंनितम्बनीम्।।                      स्तोत्रतपश्चारिणीत्वंहितापत्रयनिवारणीम्।ब्रह्मरूपधराब्रह्मचारिणींप्रणमाम्यहम्।।नवचग्रभेदनी त्वंहिनवऐश्वर्यप्रदायनीम्।धनदासुखदा ब्रह्मचारिणी प्रणमाम्यहम्॥शंकरप्रियात्वंहिभुक्ति-मुक्ति दायिनीशांतिदामानदाब्रह्मचारिणी प्रणमाम्यहम्।                        कवच त्रिपुरा मेहदयेपातुललाटेपातुशंकरभामिनीअर्पणासदापातुनेत्रोअधरोचकपोलो॥पंचदशीकण्ठेपातुमध्यदेशेपातुमाहेश्वरीषोडशीसदापातुनाभोगृहोचपादयो।अंग प्रत्यंग सतत पातुब्रह्मचारिणी॥
Categories: Stotra - Pooja

प्रथमं शैलपुत्री

Tue, 10/16/2012 - 08:51
                  
                    प्रथमंशैलपुत्री                     अथ ध्यानम्
वन्दे वांछितलाभायाचन्द्रार्घकृतशेखराम्।
वृषारूढांशूलधरांशैलपुत्रीयशस्विनीम्।
पूणेन्दुनिभां गौरी मूलाधार स्थितांप्रथम दुर्गात्रिनेत्रा।
पटाम्बरपरिधानांरत्नकिरीठांनानालंकारभूषिता।
प्रफुल्ल वंदना पल्लवाधंराकातंकपोलांतुगकुचाम्।
कमनीयांलावण्यांस्मेरमुखीक्षीणमध्यांनितम्बनीम्।
                     इदं  स्तोत्र
प्रथम दुर्गा त्वंहिभवसागर तारणीम्।
धन ऐश्वर्य दायनींशैलपुत्रीप्रणमाम्हम्।
चराचरेश्वरीत्वंहिमहामोह विनाशिन।
भुक्ति मुक्तिदायनी शैलपुत्रीप्रणमाम्यहम्।
                     कवच
ॐ कार मेशिर:पातुमूलाधार निवासिनी
हींकारपातुललाटेबीजरूपामहेश्वरी।
श्रींकारपातुवदनेलज्जारूपामहेश्वरी।
हुंकार पातुहृदयेतारिणी शक्ति स्वघृत।
फट्कार:पातुसर्वागेसर्व सिद्धि फलप्रदा।

।इति प्रथमदिवसे नवदुर्गापूजन्तर्गत माता शैलपुत्री ध्यानं, स्तोत्रं, कवचं संपूर्णम्।

Categories: Stotra - Pooja

श्रीगणेशावतारस्तोत्रं

Thu, 10/11/2012 - 12:14
                           श्रीगणेशावतारस्तोत्रं
          ऋषि आङ्गिरस उवाच ।
अनन्ता अवताराश्च गणेशस्य महात्मनः ।
न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥१॥
संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् ।
अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥२॥
वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः ।
मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥३॥
एकदन्तावतारो वै देहिनां ब्रह्मधारकः ।
मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥४॥
महोदर इति ख्यातो ङ्य़ानब्रह्मप्रकाशकः ।
मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥५॥
गजाननः स विङ्य़ेयः सांख्येभ्यः सिद्धिदायकः ।
लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥६॥
लम्बोदरावतारो वै क्रोधसुरनिबर्हणः ।
आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥७॥
विकटो नाम विख्यातः कामासुरप्रदाहकः ।
मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥८॥
विघ्नराजावतारश्च शेषवाहन उच्यते ।
ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥९॥
धूम्रवर्णावतारश्चाभिमानासुरनाशकः ।
आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥१०॥
एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः ।
एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥११॥
स्वानन्दवासकारी स गणेशानः प्रकथ्यते ।
स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥१२॥
तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः ।
स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥१३॥
माया तत्र स्वयं लीना भविष्यति सुपुत्रक ।
संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥१४॥
अयोगे गणराजस्य भजने नैव सिद्ध्यति ।
मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥१५॥
योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः ।
तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥१६॥
नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते ।
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥१७॥
योगस्य योगता दृष्टा सर्वब्रह्म सुपुत्रक ।
न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥१८॥
एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् ।
भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥१९॥
पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् ।
धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥२०॥
धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् ।
भक्तिदृढकरं चैव भविष्यति न संशयः ॥२१॥
॥ इति श्रीमुद्गलपुराणान्तर्गतं श्रीगणेशावतारस्तोत्रं संपूर्णम् ॥

Categories: Stotra - Pooja

विष्णुकृत गणेशस्तोत्रम्

Fri, 09/28/2012 - 07:59
                विष्णुकृत गणेशस्तोत्रम्
                    नारायण उवाच
अथ विष्णु: सभामध्ये सम्पूज्य तं गणेश्वरम्।
तृष्टाव परया भक्त्या सर्वविघन्विनाशकम्॥
                श्रीविष्णुरुवाच
ईशत्वां स्तोतुमिच्छामि ब्रह्मज्योति:सनातनम्। निरूपितुमशक्तोऽहमनुरूपमनीहकम्॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम्॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम्।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम्॥
संसारार्णवपारे च मायापोते सुदुर्लभे।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम्॥
वरं वरेण्यं वरदं वरदानामपीश्वरम्।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम्॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम्।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम्॥
बीजं संसारवृक्षाणामङ्कुरं च तदाश्रयम्।
स्त्रीपुन्नपुंसकानां च रूपमेतदतीन्द्रियम्॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम्।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया॥
स्व्यं प्रकृतिरूपं च प्राकृतं प्रकृते: परम्।
त्वां स्तोतुमक्षमोऽनन्त: सहस्त्रवदनेन च॥
न क्षम: पञ्चवक्त्रश्च न क्षमश्चतुरानन:।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ॥
न शक्ताश्च चतुर्वेदा: के वा ते वेदवादिन:॥
इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि।
सुरेशश्च सुरै: साद्र्ध विरराम रमापति:॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च य: पठेत्।
सायंप्रातश्च मध्याह्ने भक्तियुक्त : समाहित:॥
तद्विघन्निघन् कुरुते विघन्ेश: सततं मुने।
वर्धते सर्वकल्याणं कल्याणजनक: सदा॥
यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम्।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशय:॥
तेन दृष्टं च दु:स्वपन् सुस्वपन्मुपजायते।
कदापि न भवेत्तस्य ग्रहपीडा च दारुणा॥
भवेद् विनाश: शत्रूणां बन्धूनां च विवर्धनम्।
शश्वद्विघन्विनाशश्च शश्वत् सम्पद्विवर्धनम्॥
स्थिरा भवेद् गृहे लक्ष्मी: पुत्रपौत्रविवर्धिनी।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत्॥
फलं चापि च तीर्थानां यज्ञानां यद्भवेद् ध्रुवम्। महतां सर्वदानानां श्रीगणेशप्रसादत:॥
Categories: Stotra - Pooja

संसारमोहन गणेशकवचम्

Fri, 09/28/2012 - 07:57
           
   संसारमोहन गणेशकवचम्
                 विष्णुरुवाच
संसारमोहनस्यास्य कवचस्य प्रजापति:।
ऋषिश्छन्दश्च बृहती देवो लम्बोदर: स्वयम्॥
धर्मार्थकाममोक्षेषु विनियोग: प्रकीर्तित:।
सर्वेषां कवचानां च सारभूतमिदं मुने॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातुमस्तकम्।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदावतु॥
ॐ ह्रीं क्लीं श्रीं गमिति च संततं पातु लोचनम्।
तालुकं पातु विध्नेशःसंततं धरणीतले॥
ॐ ह्रीं श्रीं क्लीमिति च संततं पातु नासिकाम्।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम॥
दन्तानि तालुकां जिह्वां पातु मे षोडशाक्षर:॥
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदावतु।
ॐ क्लीं ह्रीं विघन्नाशाय स्वाहा कर्ण सदावतु॥
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदावतु।
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदावतु॥
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्ष:स्थलं च गम्।
करौ पादौ सदा पातु सर्वाङ्गं विघन्निघन्कृत्॥
प्राच्यां लम्बोदर: पातु आगन्य्यां विघन्नायक:।
दक्षिणे पातु विध्नेशो नैर्ऋत्यां तु गजानन:॥
पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मज:।
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च॥
ऐशान्यामेकदन्तश्च हेरम्ब: पातु चो‌र्ध्वत:।
अधो गणाधिप: पातु सर्वपूज्यश्च सर्वत:॥
स्वप्ने जागरणे चैव पातु मां योगिनां गुरु:॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्।
संसारमोहनं नाम कवचं परमाद्भुतम्॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले।
वृन्दावने विनीताय मह्यं दिनकरात्मज:॥
मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि।
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम्॥
गुरुमभ्य‌र्च्य विधिवत् कवचं धारयेत्तु य:।
कण्ठे वा दक्षिणेबाहौ सोऽपि विष्णुर्नसंशय:॥
अश्वमेधसहस्त्राणि वाजपेयशतानि च।
ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम्॥
इदं कवचमज्ञात्वा यो भजेच्छंकरात्मजम्।
शतलक्षप्रजप्तोऽपि न मन्त्र: सिद्धिदायक:॥




Categories: Stotra - Pooja

गणेशस्तवन

Fri, 09/28/2012 - 07:49
गणेशस्तवन
चतु:षष्टिकोटयाख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम्।
कठाभीष्टविद्यार्पकं दन्तयुग्मं
कविं बुद्धिनाथं कवीनां नमामि॥
स्वनाथं प्रधानं महाविघन्नाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम्।
प्रभुं दक्षिणास्यस्य विद्याप्रदं त्वां
कविं बुद्धिनाथं कवीनां नमामि॥
विभो व्यासशिष्यादिविद्याविशिष्ट
प्रियानेकविद्याप्रदातारमाद्यम्।
महाशाक्तदीक्षागुरुं श्रेष्ठदं त्वां
कविं बुद्धिनाथं कवीनां नमामि॥
विधात्रे त्रयीमुख्यवेदांश्च योगं
महाविष्णवे चागमाञ्शंकराय।
दिशन्तं च सूर्याय विद्यारहस्यं
कविं बुद्धिनाथं कवीनां नमामि॥
महाबुद्धिपुत्राय चैकं पुराणं
दिशन्तं गजास्यस्य माहात्म्ययुक्तम्।
निजज्ञानशक्त्या समेतं पुराणं
कविं बुद्धिनाथं कवीनां नमामि॥
त्रयीशीर्षसारं रुचानेकमारं
रमाबुद्धिदारं परं ब्रह्मपारम्।
सुरस्तोमकायं गणौघाधिनाथं
कविं बुद्धिनाथं कवीनां नमामि॥
चिदानन्दरूपं मुनिध्येयरूपं
गुणातीतमीशं सुरेशं गणेशम्।
धरानन्दलोकादिवासप्रियं त्वां
कविं बुद्धिनाथं कवीनां नमामि॥
अनेकप्रतारं सुरक्ताब्जहारं
परं निर्गुणं विश्वसद्ब्रह्मरूपम्।
महावाक्यसंदोहतात्पर्यमूर्ति
कविं बुद्धिनाथं कवीनां नमामि॥
इदं ये तु कव्यष्टकं भक्तियुक्तास्त्रिसंध्यं
पठन्ते गजास्यं स्मरन्त:।
कवित्वं सुवाक्यार्थमत्यद्भुतं ते लभन्ते प्रसादाद् गणेशस्य मुक्तिम्॥
Categories: Stotra - Pooja

मयूरेशस्तोत्रम्

Fri, 09/28/2012 - 07:47
                       मयूरेशस्तोत्रम्
               ब्रह्मोवाच
पुराणपुरुषं देवं नानाक्रीडाकरं मुदा।
मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम्॥
परात्परं चिदानन्दं निर्विकारं हृदि स्थितम्।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम्॥
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया।
सर्वविघन्हरं देवं मयूरेशं नमाम्यहम्॥
नानादैत्यनिहन्तारं नानारूपाणि विभ्रतम्।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्॥
इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम्।
सदसद्वयक्तमव्यक्तं मयूरेशं नमाम्यहम्॥
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्।
सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्॥
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम्।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्॥
मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम्।
समाष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्॥
सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्॥
अनेककोटिब्रह्माण्डनायकं जगदीश्वरम्।
अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम्॥
            मयूरेश उवाच
इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम्।
सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम्॥
कारागृहगतानां च मोचनं दिनसप्तकात्। आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम्॥
Categories: Stotra - Pooja

देवकृत गणेश स्तोत्रम्

Fri, 09/28/2012 - 07:45
          देवकृत गणेश स्तोत्रम्     
              देवा ऊचु:गजाननाय पूर्णाय सांख्यरूपमयाय ते। विदेहेन च सर्वत्र संस्थिताय नमो नम:॥अमेयाय च हेरम्ब परशुधारकाय ते। मूषकवाहनायैव विश्वेशाय नमो नम:॥अनन्तविभवायैव परेषां पररूपिणे। शिवपुत्राय देवाय गुहाग्रजाय ते नम:॥पार्वतीनन्दनायैव देवानां पालकाय ते। सर्वेषां पूज्यदेहाय गणेशाय नमो नम:॥स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत। विष्ण्वादीनां विशेषेण कुलदेवाय ते म:॥योगाकाराय सर्वेषां योगशान्तिप्रदाय च। ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते॥सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने। मायिने मायिकेभ्यश्च मोहदाय नमोनम:॥लम्बोदराय वै तुभ्यं सर्वोदरगताय च। अमायिने च मायाया आधाराय नमो नम:॥गज: सर्वस्य बीजं यत्तेन चिह्नेन विघन्प। योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते॥तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन। वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपा:॥शुक्रादयश्च शेषाद्या: स्तोतुं शक्ता भवन्ति न। तथापि संस्तुतोऽसि त्वं स्फूत्र्या त्वद्दर्शनात्मना॥    
Categories: Stotra - Pooja

विष्णोःशतनामस्तोत्रम् Vishnu shatnaam stotram

Thu, 09/13/2012 - 21:03

विष्णोःशतनामस्तोत्रम्

नारद उवाच

ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम् ।

जनार्दनं हरि कृष्णं श्रीवक्षं गरुडध्वजम् ॥१॥

वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।

अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥२॥

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ।

गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥३॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् ।

चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥४॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।

त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरम् ॥५॥

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् ।

श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥६॥

दामोदरं दमोपेतं केशवं केशिसूदनम् ।

वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ॥७॥

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।

सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥८॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।

मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥९॥

ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम् ।

सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥१०॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् ।

योगीशं योगनिष्णातं योगिनं योगरूपिणम् ॥११॥

ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् ।

इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥१२॥

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।

यः पठेत्प्रातरुत्थाय स भवेद्वैष्णवो नरः ॥१३॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।

चान्द्रायणसहस्राणि कन्यादानशतानि च ॥१४॥

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ।

अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥१५॥

॥ इति श्रीविष्णुपुराणे विष्णुशतनामस्तोत्रं सम्पूर्णम् ॥

Categories: Stotra - Pooja

श्रीबिल्वाष्टकम्

Wed, 09/12/2012 - 21:07
श्रीबिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥१॥

त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥२॥

अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥३॥

शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥४॥

दन्तिकोटि सहस्राणि वाजपेय शतानि च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥५॥

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥६॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥७॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥८॥

बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥
॥ इति महादेवप्रिय श्रीबिल्वाष्टकम् ॥
Categories: Stotra - Pooja

श्रीकपालीश्वराष्टकम् shree kapaalishwarashtakam

Wed, 09/12/2012 - 21:07
श्रीकपालीश्वराष्टकम्

ध्यानम्
कल्पकाम्बाकपालीशौ भक्तरक्षणतत्परौ ।
तयोः अनुग्रहो यत्र वर्तते तत्र मङ्गलम् ॥

स्तोत्रम्
कपालिनामधेयकं कलापिपुर्यधीश्वरं
कलाधरार्धशेखरं करीन्द्रचर्मभूषितम् ।
कृपारसार्द्रलोचनं कुलाचलप्रपूजितं
कुबेरमित्रमूर्जितं गणेशपूजितं भजे ॥१॥
भजे भुजङ्गभूषणं भवाब्धिभीतिभञ्जनं
भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् ।
रवीन्दुवह्निलोचनं रमाधवार्चितं वरं
ह्युमाधवं सुमाधवीसुभूषिअतं महागुरुम् ॥२॥
गुरुं गिरीन्द्रधन्विनं गुहप्रियं गुहाशयं
गिरिप्रियं नगप्रियासमन्वितं वरप्रदम् ।
सुरप्रियं रविप्रभं सुरेन्द्रपूजितं प्रभुं
नरेन्द्रपीठदायकं नमाम्यहं महेश्वरम् ॥३॥
महेश्वरं सुरेश्वरं धनेश्वरप्रियेश्वर।म्
वनेश्वरं विशुद्धचित्त वासिनं परात्परम् ।
प्रमत्तवेषधारिणं प्रकृष्टचित्स्वरूपिणं
विरुद्धकर्मकारिणं सुशिक्षकं स्मराम्यहम् ॥४॥
स्मराम्यहं स्मरान्तकं मुरारिसेविताङ्घ्रिकं
परारिनाशनक्षमं पुरारि रूपिणं शुभम् ।
स्पुअरत्सहस्रभानुतुल्य तेजसं महौजसं
सुचण्डिकेश पूजितं मृडं समाश्रये सदा ॥५॥
सदा प्रहृष्टरूपिणं सतां प्रहर्षवर्षिणं
भिदा विनाशकारण प्रमाणगोचरं परम् ।
मुदा प्रवृत्तनर्तनं जगत्पवित्रकीर्तनं
निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥६॥
अहंममादि दूषणं महेन्द्ररत्नभूषणं
महावृषेन्द्रवाहनं ह्यहीन्द्रभूषणान्वितम् ।
वृषाकपिस्वरूपिणं मृषापदार्थधारिणं
मृकण्डुसूनुसंस्तुतं ह्यभीतिदं नमामि तम् ॥७॥
नमामि तं महामतिं नतेष्टदानचक्षणं
नतार्तिभञ्जनोद्यतं नगेन्द्रवासिनं विभुम् ।
अगेन्द्रजा समन्वितं मृगेन्द्र विक्रमान्वितं
खगेन्द्रवाहनप्रियं सुखस्वरूपमव्ययम् ॥८॥
सुकल्पकाम्बिकापतिप्रियंत्विदं मनोहरं
सुगूडकाञ्चिरामकृष्ण योगिशिष्य संस्तुतम् ।
महाप्रदोष पुण्यकाल कीर्तनात्शुभप्रदं
भजामहे सदामुदा कपालि मङ्गळाष्टकम् ॥९॥
कपालि तुष्टिदायकं महापदि प्रपालकं
त्वभीष्टसिद्धिदायकं विशिष्टमङ्गलाष्टकम् ।
पठेत्सुभक्तितः कपालि सन्निधौ क्रमात्
अवाप्य सर्वमायुरादि मोदते सुमङ्गलम् ॥१०॥

॥ इति श्रीकपालीश्वराष्टकं सम्पूर्णम् ॥




Categories: Stotra - Pooja

हनुमन्नमस्कारम् Hanumannamaskaaram

Wed, 09/12/2012 - 21:07
हनुमन्नमस्कारम्


गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥१॥

अञ्जनानन्दनंवीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥२॥

महाव्याकरणाम्भोधिमन्थमानसमन्दरम् ।
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ॥३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥४॥

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥५॥

आञ्जनेयमतिपाटलाननं
काञ्जनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमृलवासिनं
भावयामि पवमाननन्दनम् ॥६॥

यत्र-यत्र रघुनाथकीर्तनं
तत्र-तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोचनं
मारुतिर्नमत राक्षसान्तकम् ॥७॥


॥ इति हनुमन्नमस्कारम् ॥
Categories: Stotra - Pooja

इन्द्रकृत रामस्तोत्रम् Indrakrit ShreeRam stotram

Tue, 09/11/2012 - 18:46

इन्द्रकृत रामस्तोत्रम्

इन्द्र उवाच

भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् ।

भवानीहृदां भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥१॥

सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् ।

परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥२॥

प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् ।

तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥३॥

सदा भोगभाजां सुदूरे विभान्तं सदा योगभाजामदूरे विभान्तम् ।

चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपद्ये ॥४॥

महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः ।

त्वदानन्दलीलाकथापूर्णकर्णाः सदानन्दरूपा भवन्तीह लोके ॥५॥

अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः ।

इदानीं भवत्पादपद्मप्रसादात्त्रिलोकाधिपत्याभिमानो विनष्टः ॥६॥

स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् ।

शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥७॥

सुराधीशनीलाभ्रनीलाङ्गकान्तिं विराधादिरक्षोवधाल्लोकशान्तिम् ।

किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥८॥

लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमङ्के समाधाय सीताम् ।

स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥९॥

॥ इति श्रीमद्-अध्यात्मरामायणे युद्धकाण्डे त्रयोदशसर्गे इन्द्रकृत श्रीरामस्तोत्रं सम्पूर्णम् ॥

Categories: Stotra - Pooja

चण्डीकवचम् Chandi kavacham

Tue, 09/11/2012 - 18:31


चण्डीकवचम्





ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः



चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम्



दिग्बन्धदेवतास्तत्वम् श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।



ॐ नमश्चण्डिकायै ।



मार्कण्डेय उवाच



ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।



यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥१॥



ब्रह्मोवाच



अति गुह्यतमं विप्र सर्वभूतोपकारकम् ।



देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥२॥



प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।



तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥



पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।



सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥४॥



नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।



उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥५॥



अग्निना दह्यमानस्तु शत्रुमध्ये गतोरणे ।



विषमे दुर्गे चैव भयार्ताः शरणं गताः ॥६॥



न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।



नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥७॥



यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ।



प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥८॥



ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ।



माहेश्वरी वृषारुढा कौमारी शिखिवाहना ॥९॥



ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ।



नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥१०॥



दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।



शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥११॥



खेटकं तोमरं चैव परशुं पाशमेव च ।



कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥१२॥



दैत्यानां देहनाशाय भक्तानामभयाय च ।



धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥१३॥



महाबले महोत्साहे महाभयविनाशिनी ।



त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥१४॥



प्राच्यां रक्षतु मामैन्द्री आग्नेयामग्निदेवता ।



दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥ ५॥



प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।



उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥१६॥



ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।



एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥१७॥



जया मे अग्रतस्थातु विजया स्थातुपृष्ठतः ।



अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥१८॥



शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।



मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥१९॥



त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ।



शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥२०॥



कपोलौकालिका रक्षेत्कर्णमूले तुशाङ्करी ।



नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥२१॥



अधरे चामृतकला जिह्वायां च सरस्वती ।



दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥२२॥



घण्टिकां चित्रघण्टा च महामाया च तालुके ।



कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ॥२३॥



ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ।



नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥२४॥



खड्गधारिण्युभौ स्कन्धौ बाहू मे वज्रधारिणी ।



हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीस्तथा ॥२५॥



नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ।



स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥२६॥



हृदये ललितादेवी उदरे शूलधारिणी ।



नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥२७॥



कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।



भूतनाथा च मेढ्रं मे ऊरू महिषवाहिनी ॥२८॥



जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी ।



गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥२९॥



पादाङ्गुलीः श्रीर्मे रक्षेत्पादाधस्तलवासिनी ।



नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ॥३०॥



रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ।



रक्तमज्जावमांसान्यस्थिमेदांसी पार्वती ॥ ३१॥



अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ।



पद्मावती पद्मकोशे कफे चुडामणिस्तथा ॥३२॥



ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु ।



शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥३३॥



अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि ।



प्राणापानौ तथा व्यानं समानोदानमेव च ॥३४॥



यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ।



गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥३५॥



पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ।



मार्गं क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥३६॥



रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।



तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥३७॥



पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।



कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥३८॥



तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः ।



यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥३९॥



परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।



निर्भयो जायते मर्त्यः सङ्ग्रामेष्व पराजितः ॥४०॥



त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।



इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥४१॥



यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।



दैवी कला भवेत्तस्य त्रैलोकेष्व पराजितः ॥४२॥



जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः ।



नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥४३॥



स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।



अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥४४॥



भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ।



सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥४५॥



अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।



ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥४६॥



ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।



नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥४७॥



मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।



यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥४८॥



जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।



यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥४९॥



तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रकी ।



देहान्ते परमंस्थानं यत्सुरैरपि दुर्लभम् ॥५०॥



प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥५१॥



॥ इति श्री वराहपुराणे हरिहरब्रह्मविरचितं देवीकवचं सम्पूर्णम् ॥





Categories: Stotra - Pooja

हनुमत्कृत सीतारामस्तोत्रम् Hanumatkrit Sitaram stotram

Wed, 09/05/2012 - 20:56
हनुमत्कृत सीतारामस्तोत्रम्


अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।
राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥१॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥२॥
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥३॥
कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥४॥
चन्द्रकान्ताननांभोजं चन्द्रबिंबोपमाननाम् ।
मत्तमातङ्गगमनम् मत्तहंसवधूगताम् ॥५॥
चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥६॥
शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥७॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥८॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥९॥
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥१०॥
एवं श्रीराचन्द्रस्य जानक्याश्च विशेषतः ।
कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥११॥
॥इति हनुमत्कृतसीतारामस्तोत्रं संपूर्णम्॥

Categories: Stotra - Pooja

श्रीऋणमोचकमङ्गलस्तोत्रम्

Mon, 09/03/2012 - 16:39

ऋणमोचकमङ्गलस्तोत्रम् <?xml:namespace prefix = o ns = "urn:schemas-microsoft-com:office:office" />




मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।


स्थिरासनो महाकायःसर्वकर्मविरोधकः ॥१॥


लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।


धरात्मजःकुजो भौमो भूतिदो भूमिनन्दनः ॥२॥


अङ्गारको यमश्चैव सर्वरोगापहारकः ।


वृष्टेःकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥३॥


एतानि कुजनामानि नित्यं यःश्रद्धया पठेत् ।


ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥४॥


धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।


कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥५॥


स्तोत्रमङ्गारकस्यैतत्पठनीयं सदानृभिः ।


न तेषां भौमजा पीड़ा स्वल्पाऽपि भवति क्वचित ॥६॥


अङ्गारक महाभाग भगवन्भक्तवत्सल ।


त्वां नमामि ममाशेषम्ऱृणमाशु विनाशय ॥७॥


ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः ।


भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥८॥


अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः ।


तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥९॥


विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा ।


तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥१०॥


पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।


ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः ॥११॥


एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।


महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२॥


॥ इति श्री ऋणमोचकमङ्गलस्तोत्रम् ॥




Categories: Stotra - Pooja

आञ्जनेयस्तोत्रम् Aanjaneya stotram

Mon, 09/03/2012 - 16:35

आञ्जनेयस्तोत्रम् <?xml:namespace prefix = o ns = "urn:schemas-microsoft-com:office:office" />



ध्यानम्


उद्यदादित्यसंङ्काशं उदार भुज विक्रमम् ।


कन्दर्पकोटि लावण्यं सर्वविद्या विशारदम् ॥


श्रीराम हृदयानन्दं भक्तकल्प महीरुहम् ।


अभयं वरदं दोर्भ्यांकलये मारुतात्मजम् ॥


अञ्जनानन्दनं वीरं जानकीं शोकनाशनम् ।


कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥



आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् ।


पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥



उल्लंघ्यसिन्धोः सलिलं सलीलंयस्शोकवह्निं जनकात्मजाय ।


आदाय तेनैवददाहलंकां नमामि तं प्रान्जलिराञ्जनेयं ॥



अतुलित बलधामं स्वर्ण शैलाभदेहम्


दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।


सकल गुणनिधानं वानराणांधीशम्


रघुपति प्रिय भक्तं वात जातं नमामि ॥



गोश्पदीकृत वारशींशकीकृत राक्षसाम् ।


रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥



यत्र-यत्र रघुनाथ कीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् ।


भाश्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥



अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् ।


तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥



मनोजवं मारुततुल्य वेगं


जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।


वातात्मजं वानरयूथमुख्यं


श्रीरामदूतं शरणं प्रपद्ये ॥



आञ्जनेय गायत्रि



ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।


तन्नो हनुमत् प्रचोदयात् ॥



आञ्जनेय त्रिकाल वंदनम्



प्रातः स्मरामि हनुमन्नन्तवीर्यं


श्रीरामचन्द्र चरणाम्बुजचंचरीकम् ।


लंकापुरीदहन नन्दितदेववृन्दं


सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥



माध्यम् नमामि वृजिनार्णव तारणैका


धारंशरण्य मुदितानुपम प्रभावम् ।


सीताधि सिंधु परिशोषण कर्म दक्षं


वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥




सायं भजामि शरणोपस्मृताखिलार्ति


पुञ्जप्रणाशन विधौ प्रथित प्रतापम् ।


अक्षांतकं सकल राक्षस वंशधूमकेतुं


प्रमोदित विदेह सुतं दयालुम् ॥



॥ इति श्री आञ्जनेयस्तोत्रम् ॥






Categories: Stotra - Pooja

हरिस्तोत्रम् Hari strotram

Sat, 08/25/2012 - 16:56
हरिस्तोत्रम्

जगज्जालपालं चलत्कण्ठमालं
शरच्चन्द्रभालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं
सुपद्मासहायं भजेऽहं भजेऽहम् ॥१॥
सदाम्भोधिवासं गलत्पुष्पहासं
जगत्सन्निवासं शतादित्यभासम् ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं
हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥२॥
रमाकण्ठहारं श्रुतिव्रातसारं
जलान्तर्विहारं धराभारहारम् ।
चिदानन्दरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजेऽहं भजेऽहम् ॥३॥
जराजन्महीनं परानन्दपीनं
समाधानलीनं सदैवानवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं
त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥४॥
कृताम्नायगानं खगाधीशयानं
विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकूलं जगद्वृक्षमूलं
निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥५॥
समस्तामरेशं द्विरेफाभकेशं
जगद्बिम्बलेशं हृदाकाशदेशम् ।
सदा दिव्यदेहं विमुक्ताखिलेहं
सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥६॥
सुरालिबलिष्ठं त्रिलोकीवरिष्ठं
गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं
महाम्भोधितीरं भजेऽहं भजेऽहम् ॥७॥
रमावामभागं तलानग्रनागं
कृताधीनयागं गतारागरागम् ।
मुनीन्द्रैः सुगीतं सुरैः सम्परीतं
गुणौधैरतीतं भजेऽहं भजेऽहम् ॥८॥
इदं यस्तु नित्यं समाधाय चित्तं
पठेदष्टकं कण्ठहारं मुरारेः ।
स विष्णोर्विशोकं ध्रुवं याति लोकं
जराजन्मशोकं पुनर्विन्दते नो ॥९॥
॥इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिस्तोत्रं संपूर्णम् ॥

Categories: Stotra - Pooja

Pages