विष्णोःशतनामस्तोत्रम्
नारद उवाच
ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम् ।
जनार्दनं हरि कृष्णं श्रीवक्षं गरुडध्वजम् ॥१॥
वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥२॥
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ।
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥३॥
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥४॥
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरम् ॥५॥
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥६॥
दामोदरं दमोपेतं केशवं केशिसूदनम् ।
वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ॥७॥
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥८॥
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥९॥
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥१०॥
ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिनं योगरूपिणम् ॥११॥
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥१२॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत्प्रातरुत्थाय स भवेद्वैष्णवो नरः ॥१३॥
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।
चान्द्रायणसहस्राणि कन्यादानशतानि च ॥१४॥
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ।
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥१५॥
॥ इति श्रीविष्णुपुराणे विष्णुशतनामस्तोत्रं सम्पूर्णम् ॥
इन्द्रकृत रामस्तोत्रम्
इन्द्र उवाच
भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् ।
भवानीहृदां भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥१॥
सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् ।
परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥२॥
प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् ।
तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥३॥
सदा भोगभाजां सुदूरे विभान्तं सदा योगभाजामदूरे विभान्तम् ।
चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपद्ये ॥४॥
महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः ।
त्वदानन्दलीलाकथापूर्णकर्णाः सदानन्दरूपा भवन्तीह लोके ॥५॥
अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्त्रिलोकाधिपत्याभिमानो विनष्टः ॥६॥
स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥७॥
सुराधीशनीलाभ्रनीलाङ्गकान्तिं विराधादिरक्षोवधाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥८॥
लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमङ्के समाधाय सीताम् ।
स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥९॥
॥ इति श्रीमद्-अध्यात्मरामायणे युद्धकाण्डे त्रयोदशसर्गे इन्द्रकृत श्रीरामस्तोत्रं सम्पूर्णम् ॥
चण्डीकवचम्
ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः
चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम्
दिग्बन्धदेवतास्तत्वम् श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥१॥
ब्रह्मोवाच
अति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥२॥
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥४॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥५॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतोरणे ।
विषमे दुर्गे चैव भयार्ताः शरणं गताः ॥६॥
न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥७॥
यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ।
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥८॥
ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ।
माहेश्वरी वृषारुढा कौमारी शिखिवाहना ॥९॥
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ।
नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥१०॥
दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥११॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥१२॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥१३॥
महाबले महोत्साहे महाभयविनाशिनी ।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥१४॥
प्राच्यां रक्षतु मामैन्द्री आग्नेयामग्निदेवता ।
दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥ ५॥
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।
उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥१६॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥१७॥
जया मे अग्रतस्थातु विजया स्थातुपृष्ठतः ।
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥१८॥
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥१९॥
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ।
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥२०॥
कपोलौकालिका रक्षेत्कर्णमूले तुशाङ्करी ।
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥२१॥
अधरे चामृतकला जिह्वायां च सरस्वती ।
दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥२२॥
घण्टिकां चित्रघण्टा च महामाया च तालुके ।
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ॥२३॥
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ।
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥२४॥
खड्गधारिण्युभौ स्कन्धौ बाहू मे वज्रधारिणी ।
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीस्तथा ॥२५॥
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ।
स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥२६॥
हृदये ललितादेवी उदरे शूलधारिणी ।
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥२७॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
भूतनाथा च मेढ्रं मे ऊरू महिषवाहिनी ॥२८॥
जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी ।
गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥२९॥
पादाङ्गुलीः श्रीर्मे रक्षेत्पादाधस्तलवासिनी ।
नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ॥३०॥
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ।
रक्तमज्जावमांसान्यस्थिमेदांसी पार्वती ॥ ३१॥
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ।
पद्मावती पद्मकोशे कफे चुडामणिस्तथा ॥३२॥
ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु ।
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥३३॥
अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि ।
प्राणापानौ तथा व्यानं समानोदानमेव च ॥३४॥
यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ।
गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥३५॥
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ।
मार्गं क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥३६॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥३७॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥३८॥
तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः ।
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥३९॥
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः सङ्ग्रामेष्व पराजितः ॥४०॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥४१॥
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
दैवी कला भवेत्तस्य त्रैलोकेष्व पराजितः ॥४२॥
जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः ।
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥४३॥
स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥४४॥
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ।
सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥४५॥
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥४६॥
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥४७॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥४८॥
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥४९॥
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रकी ।
देहान्ते परमंस्थानं यत्सुरैरपि दुर्लभम् ॥५०॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥५१॥
॥ इति श्री वराहपुराणे हरिहरब्रह्मविरचितं देवीकवचं सम्पूर्णम् ॥
ऋणमोचकमङ्गलस्तोत्रम् <?xml:namespace prefix = o ns = "urn:schemas-microsoft-com:office:office" />
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायःसर्वकर्मविरोधकः ॥१॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजःकुजो भौमो भूतिदो भूमिनन्दनः ॥२॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
वृष्टेःकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥३॥
एतानि कुजनामानि नित्यं यःश्रद्धया पठेत् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥४॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥५॥
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदानृभिः ।
न तेषां भौमजा पीड़ा स्वल्पाऽपि भवति क्वचित ॥६॥
अङ्गारक महाभाग भगवन्भक्तवत्सल ।
त्वां नमामि ममाशेषम्ऱृणमाशु विनाशय ॥७॥
ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥८॥
अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः ।
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥९॥
विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥१०॥
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।
ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः ॥११॥
एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् ।
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२॥
॥ इति श्री ऋणमोचकमङ्गलस्तोत्रम् ॥
आञ्जनेयस्तोत्रम् <?xml:namespace prefix = o ns = "urn:schemas-microsoft-com:office:office" />
ध्यानम्
उद्यदादित्यसंङ्काशं उदार भुज विक्रमम् ।
कन्दर्पकोटि लावण्यं सर्वविद्या विशारदम् ॥
श्रीराम हृदयानन्दं भक्तकल्प महीरुहम् ।
अभयं वरदं दोर्भ्यांकलये मारुतात्मजम् ॥
अञ्जनानन्दनं वीरं जानकीं शोकनाशनम् ।
कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥
आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् ।
पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥
उल्लंघ्यसिन्धोः सलिलं सलीलंयस्शोकवह्निं जनकात्मजाय ।
आदाय तेनैवददाहलंकां नमामि तं प्रान्जलिराञ्जनेयं ॥
अतुलित बलधामं स्वर्ण शैलाभदेहम्
दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।
सकल गुणनिधानं वानराणांधीशम्
रघुपति प्रिय भक्तं वात जातं नमामि ॥
गोश्पदीकृत वारशींशकीकृत राक्षसाम् ।
रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥
यत्र-यत्र रघुनाथ कीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् ।
भाश्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥
अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् ।
तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥
मनोजवं मारुततुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥
आञ्जनेय गायत्रि
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
आञ्जनेय त्रिकाल वंदनम्
प्रातः स्मरामि हनुमन्नन्तवीर्यं
श्रीरामचन्द्र चरणाम्बुजचंचरीकम् ।
लंकापुरीदहन नन्दितदेववृन्दं
सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥
माध्यम् नमामि वृजिनार्णव तारणैका
धारंशरण्य मुदितानुपम प्रभावम् ।
सीताधि सिंधु परिशोषण कर्म दक्षं
वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥
सायं भजामि शरणोपस्मृताखिलार्ति
पुञ्जप्रणाशन विधौ प्रथित प्रतापम् ।
अक्षांतकं सकल राक्षस वंशधूमकेतुं
प्रमोदित विदेह सुतं दयालुम् ॥
॥ इति श्री आञ्जनेयस्तोत्रम् ॥