BY 'LITERATURE' HERE IS MEANT THE ENTIRE GAMUT OF WRITINGS IN SANSKRIT RIGHT FROM THE VEDAS, UPANISHADS, GITA, THE GREAT EPICS OF RAMAYANA AND MAHABHARATA, TREATISES ON ASTROLOGY AND AYURVEDA, WORKS OF CLASSICAL POETS LIKE KALIDASA, BHASA, BHAVABHUTI, BHARAVI, HARSHA ET AL, THE COMPLETE WORKS OF SANKARA, STOTRA LITERATURE IN SANSKRIT ETC.
Updated: 54 min 29 sec ago
Sun, 05/12/2013 - 15:30
ब्रह्माकृतसरस्वतीस्तोत्रम्ऊँ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः।गायत्री छन्दः।श्रीसरस्वती देवता।धर्मार्थकाममोक्षार्थे जपे विनियोगः
आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या।सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना॥१॥
श्वेतपद्मासना देवी श्वेतगन्धानुलेपना।अर्चिता मुनिभिः सर्वैः ऋषिभिः स्तूयते सदा।एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥२॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥३॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥४॥
ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्याङ्घ्रिपद्मे।पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसंपादयित्रि प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे॥५॥
ऐं ऐं ऐं इन्ष्टमन्त्रे कमलभवमुखाम्भोजभूतिस्वरूपे रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे।न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञाततत्त्वे विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥६॥
ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्तां।विद्यां वेदान्तवेद्यां परिणतपठिते मोक्षदे मुक्तिमार्गे मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥७॥
धीर्धीर्धीर्धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे।पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे मातर्मात्रार्धतत्त्वे मतिमतिमतिदे माधवप्रीतिमोदे॥८॥
ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये।मोहे मुग्धप्रभावे कुरु मम कुमतिध्वान्तविध्वंसमीड्ये गीर्गीर्वाग्भारती त्वं कविवररसनासिद्धिदे सिद्धसाध्ये ॥९॥
स्तौमि त्वां त्वां च वन्दे मम खलु रसनां मा कदाचित्त्यजेथा मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम्।मा मे दुःखं कदाचित् क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं शास्त्री वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि॥१०॥
इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मुष्टकण्ठः।स स्यादिष्टार्थलाभैः सुतमिव सततं पाति तं सा च देवी सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति॥११॥
निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात्।दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो वाग्देव्याः संप्रसादात् त्रिजगति विजयी जायते सत्सभासु॥१२॥
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः।सारस्वतो जनः पाठात् सकृदिष्टार्थलाभवान् ॥१३॥
पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया ।अविच्छिन्नः पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥१४॥
सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः।वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥१५॥
ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम्।प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते ॥१६॥
© P R Ramamurthy.
Sun, 05/12/2013 - 15:15
सरस्वतीस्तोत्रम्-५ ( श्रीहरिहरशर्मा विरचितम्)गुरुवन्दना-अज्ञानाब्धिनिमग्नभौतिकतनूनुत्तार्य चिन्नौकयाशिष्यांल्लोकहितङ्करान् कुशलिनः कुर्यात् कटाक्षेण यः।सत्यं ब्रह्म निदानगीर्भिरनिशं मिथ्या जगच्च ब्रुव-ञ्छङ्कापङ्किलमानसाब्जसदने हंसो गुरुः सीदतु॥श्री सद्गुरुचरणारविन्दाभ्यां नमः
अथ सरस्वतीस्तोत्रम् (कुसुममञ्जरीवृत्तम्)
छ्त्रचामरविराजिते निजयशःप्रकाशितदिशान्तरे गात्रकान्तिपरिधूतशम्बररिपुप्रिये विधिमनः प्रिये।अर्धचन्द्रफणिभूषणाङ्कितसुवर्णरत्नमकुटोज्ज्वले ध्वंसयाऽघमव मां सरस्वति सुवाक्प्रबोधमपि मे दिश ॥१॥
नीरदाभचिकुरान्तरालधृतदीर्घकुङ्कुमसुलेखने स्वर्णवर्णनिजफालदेशलसदुद्यदर्कतिलकाञ्चिते।भक्तमानससमीपकर्षणचणं तवाऽम्ब करुणेक्षणं पातयाऽऽशु मयि सेवके नतजनार्तिभञ्जनि परात्परे ॥२॥
शुक्ररश्मिगणदर्पहारिरुचिनासिकाभरणभासुरे दर्पणायितकपोलबिम्बितसुशोभिकर्णमणिकुण्डले।पुष्पवन्तरुचितप्तहेमकृतगण्डभूषणविराजिते ब्राह्मि माङ्गलिकसूत्रधारिणि नतेष्टमङ्गलवरप्रदे ॥३॥
चूतपत्ररसने सुभाषिणि सुपक्वबिम्बरुचिराधरे दन्तकान्तिमृदुमन्दहासजित कुन्दशारदविधुप्रभे।वेदशास्त्रसकलाक्षरालयचतुर्मुखप्रियकुटुम्बिनि त्वत्कृपा यदि न चेदिदं जगदशेषमेव जडतां व्रजेत् ॥४॥
पुस्तकामृतघटाक्षमालिकाश्चिन्मयीमपि सुमुद्रिकां कङ्कणाङ्गुलिसुभूषणाञ्चितकरारविन्दनिकरै धृते।ब्रह्मसूत्रधरि वागधीश्वरि महेशसोदरि विदां वरे सत्वरं प्रणमदन्धमूकगणदृष्टिभाषणविधायिके ॥५॥
रुक्मरत्नकलहंसचिह्नितदुकूलचेलमृदुकञ्चुके
कुञ्जरेन्द्रकलशस्तने सुतनु निर्जरीगणपरीवृते ।गन्धपङ्कमृगनाभिकुङ्कुमसुलेपनोल्लसितमानसे शान्तिरस्त्वनपगामिनि मनाश्चिन्तनात्तसुखफलोदयम्॥६॥
रत्नहेमसुमालिकाङ्गदसुभूषितांसगळशोभने तप्तकाञ्चनसुशोभिरत्नमणिमेखलावृतकटीतटे।किङ्किणीक्वणननूपुराभरणराजमानचरणाम्बुजे हृत् त्वदीय पुरुषार्थदायकपदब्जयुग्मनिलयं सदा॥७॥
॥शुभम्॥ © P R Ramamurthy.
Sun, 05/12/2013 - 13:55
श्रीसरस्वतीस्तोत्रम् -३
रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम्।मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम्॥१॥
शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम्।बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम्॥२॥
कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम्।प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम्॥३॥
भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम्।विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम्॥४॥
मतिहीनजनाश्रयपादमिदं सकलागमभाषितभिन्नपदम्।परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम्॥५॥
परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम्।सुरयोषितसेवितपादतलं तव नौमि सरस्वति पादयुगम्॥६॥
सुरमौलिमणिद्युतिशुभ्रकरं विषयादिमहाभयवर्णहरम्।निजकान्तिविलोपितचन्द्रशिवं तव नौमि सरस्वति पादयुगम्॥७॥
गुणनैककुलं स्थितिभीतपदं गुणगौरवगर्वितसत्यपदम्।कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगम्॥८॥© P R Ramamurthy.
Sun, 05/12/2013 - 13:45
श्रीसरस्वतीस्तोत्रम् -२श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता।श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना॥१॥
श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचर्चिता।श्वेतवीणाधरा शुभ्रा श्वेतालङ्कारभूषिता ॥२॥
वन्दिता सिद्धगन्धर्वैरर्चिता सुरदानवैः।पूजिता मुनिभिस्सर्वैः ऋषिभिः स्तूयते सदा॥३॥
स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम्।ये स्मरन्ति त्रिसन्ध्यायां सर्वां विद्यां लभन्ति ते ॥४॥
© P R Ramamurthy.
Sun, 05/12/2013 - 13:41
श्रीसरस्वतीरहस्यस्तोत्रम्
नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम्।उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै॥१॥
या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी।नामरूपात्मना व्यक्ता सा मां पातु सरस्वती॥२॥
या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते।अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती॥३॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते।अनादिनिधनानन्ता सा मां पातु सरस्वती॥४॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरीप्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती॥५॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति।रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती॥६॥
या प्रत्यग्दृष्टिभिर्जीवैर्व्यजमानानुभूयतेव्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती॥७॥
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता।निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती॥८॥
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम्।सर्वकामदुघा धेनुः सा मां पातु सरस्वती॥९॥
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना।योगी याति परं स्थानं सा मां पातु सरस्वती॥१०॥
नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः।ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती॥११॥
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम।मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥१२॥
नमस्ते शारदे देवि काश्मीरपुरवासिनि।त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥१३॥
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी।मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा॥१४॥
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषितामहासरस्वती देवी जिह्वाग्रे सन्निवेश्यताम्॥१५॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥१६॥
नमामि यामिनीनाथलेखालंकृतकुन्तलां।भवानीं भवसन्तापनिर्वापणसुधानदीम्॥१७॥
यः कवित्वं निरातन्कं भुक्तिमुक्ती च वाञ्छति।सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम्॥१८॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीं।भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥१९॥
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा।गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः॥अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः॥२०॥ © P R Ramamurthy.
Sun, 05/05/2013 - 05:38
रामस्तवराजःअस्य श्री रामचन्द्रस्तवराजमन्त्रस्य सनत्कुमार ऋषिःश्री रामो देवताअनुष्टुप् छन्दः सीता बीजंहनुमान् शक्तिःश्रीरामप्रीत्यर्थे जपेविनियोगः
सूत उवाच-
सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतंधर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥१॥
भगवन् योगिनां श्रेष्ठ! सर्वशास्त्रविशारद!किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनंश्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ॥२॥
व्यास उवाच-
धर्मराज! महाभाग! शृणु वक्ष्यामि तत्त्वतः ॥३॥यत् परं यद्गुणातीतं यत् ज्योतिरमलं शिवम्।तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥४॥
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्।ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥५॥
श्रीराम रामेति जना ये जपन्ति च सर्वदा।तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥६॥
स्तवराजं पुरा प्रोक्तं नारदेन च धीमतातत् सर्वं संप्रवक्ष्यामि हरिध्यानपुरःसरम् ॥७॥
तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनं।दरिद्र्यदुःखदहनं सर्वसंपत्करं शिवम् ॥८॥
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम्।नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥९॥
अयोध्या नगरे रम्ये रत्नमण्डपमध्यगे।स्मरेत् कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥१०॥
तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितं।स्मरेन्मध्ये दाशरथिं सहस्रादित्य तेजसम् ॥११॥
पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम्।कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥१२॥
भानुकोटिप्रतीकाशकिरीटेन विराजितम्।रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम्॥१३॥
रत्नकङ्कणमञ्जीरकटिसूत्रैरलंकृतम्।श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥१४॥
दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम्।राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥१५॥
तुलसीकुन्दमन्दारपुष्पमालैरलंकृतम्।कर्पूरागरुकस्तूरी दिव्यगन्धानुलेपनम् ॥१६॥
योगशास्त्रेष्वभिरतं योगेशं योगदायकम्।सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥१७॥
विद्याधरसुराधीश सिद्धगन्धर्व किन्नरैः।योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम्॥१८॥
विश्वामित्रवसिष्ठादि मुनिभिः परिसेवितम्।सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥१९॥
रामं रघुवरं वीरं धनुर्वेदविशारदम्।मङ्गलायतनं देवं रामं राजीवलोचनम्॥२०॥
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम्।कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम्॥२१॥
एवं सञ्चिन्तयन् विष्णुं यज्ज्योतिरमलं विभुम्।प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥२२॥
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम्।कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम्॥२३॥
यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम्।यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥२४॥
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतु।श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि॥२५॥
कविं पुराणं पुरुषं पुरस्तात् सनातनं योगिनमीशितारम्।अणोरणीयांसमनन्तवीर्यं’ प्राणेश्वरं राममसौ ददर्श ॥२६॥
नारायणं जगन्नाथमभिरामं जगत्पतिं।कविं पुराणं वागीशं रामं दशरथात्मजम्॥२७॥
राजराजं रघुवरं कौसल्यानन्दवर्धनं ।भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम्॥२८॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुं।सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥२९॥
आदित्यं रविमीशानं घॄणीं सूर्यमनामयंआनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥३०॥
जामदग्न्यं तपोमूर्तिं रामं परशुधारिणंवाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम्॥३१॥
श्रीशार्ङ्गधारिणं रामं चिन्मयानन्दविग्रहं।हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥३२॥
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतं।मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥३३॥
वासुदेवं जगद्योनिमनादिनिधनं हरिं।गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥३४॥
गोगोपालपरीवारं गोपकन्यासमावृतं।विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम्॥३५॥
गोगोपिकासमाकीर्णं वेणुवादनतत्परं।कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥३६॥
मन्मथं मथुरानाथं माधवं मकरध्वजं।श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥३७॥
भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणं।सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥३८॥
श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसं।चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम्॥३९॥
आदित्यमण्डलगतं निश्चितार्थस्वरूपिणंभक्तिप्रियं भक्तनेत्रं भक्तानामीप्सितप्रदम्॥४०॥
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियं।सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥४१॥
विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतं।यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥४२॥
सत्यसन्धं जितक्रोधं शरणागतवत्सलं।सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥४३॥
दशग्रीवहरं रौद्रं केशवं केशिमर्दनंवालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम्॥४४॥
नरवानरदेवैश्च सेवितं हनुमत्प्रियं।शुद्धं सूक्ष्मं परं शान्तं तारकब्रह्मरूपिणम्॥४५॥
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनं।सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥।४६॥
निरामयं निराभासं निरवद्यं निरञ्जनं।नित्यानन्दं निराकारमद्वैतं तमसः परम्॥४७॥
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकं।मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्॥४८॥
सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितं।नमामि पुण्डरीकाक्षममेयं गुरुतत्परं ॥४९॥
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः।नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥५०॥
नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने।मायामयनिरासाय प्रपन्नजनसेविने ॥५१॥
वन्दामहे महीशानचण्डकोदण्डखण्डनं।जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥५२॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते कामाय प्रमदामनोहरगुणग्रामाय रामात्मने।योगारूढमुनीन्द्रमानससरोहंसाय संसारवि-ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥५३॥
भवोद्भवं वेदविदांवरिष्ठमादित्यचन्द्रानलसुप्रभावं।सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात्॥५४॥
निरञ्जनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपञ्चं।नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥५५॥
भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपं।भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥५६॥
सर्वाधिपत्यं समराङ्गधीरं नित्यं चिदानन्दमयस्वरूपंसत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥५७॥
कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षं।कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥५८॥
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुं।महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥५९॥
वेदान्तवेद्यं कविमीशितारमनादिमध्यान्तमचिन्त्यमाद्यं।अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥६०॥
अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनन्तमाद्यं ।अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥६१॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसापूरितविश्वमेकं।राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥६२॥
लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दं।अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥६३॥
योगीन्द्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवं ।नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥६४॥
विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथं।अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि॥६५॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामं ।समस्तसाक्षिं तमसःपरस्तान्नारायणं विष्णुमहं भजामि॥६६॥
मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुं।परात्परं यत्परमं पवित्रं नमामि रामं महतोमहान्तम्॥६७॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥६८॥
तापसा ऋषयस्सिद्धाः साध्याश्च मरुतस्तथा।विप्रा देवास्तथा यज्ञाः पुराणा धर्मसंहिताः ॥६९॥
वर्णाश्रमास्तथा धर्मं वर्णधर्मास्तथैव च ।यक्षराक्षसगन्धर्वा दिक्पाला दिग्गजादयः॥७०॥
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव।वसवोष्टा त्रयः काला रुद्रा एकादश स्मृताः ॥७१॥
तारका दशदिक्चैव त्वमेव रघुनन्दन।सप्तद्वीपास्समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥७२॥
स्थावरा जंगमाश्चैव त्वमेव रघुनायक।देवतिर्यङ्मनुष्याणां दानवानां तथैव च ॥७३॥
माता पिता तथा भ्राता त्वमेव रघुवल्लभ।सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥७४॥
त्वमक्षरं परं ज्योतिः त्वमेव पुरुषोत्तम।त्वमेव तारकं ब्रह्म त्वत्तोन्यन्नैव किञ्चन ॥७५॥
शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनं।राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥७६॥
व्यास उवाच-ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवं।तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥७७॥
नारद उवाच -
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे।त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥७८॥
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तमअद्य मे सफलं जन्म जीवितं सफलं च मे ॥७९॥
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः।अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् ॥८०॥
अद्य मे सफ्लं सर्वं त्वन्नामस्मरणं तथा।त्वत्पादांभोरुहद्वन्द्वसद्भक्तिं देहि राघव! ततः परमसंप्रीतः स रामः प्राह नारदं ॥८१॥
मुनिवर्य महाभाग मुने त्विष्टं ददामि ते।यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति ॥८२॥
नारद उवाच –
वरं न याचे रघुनाथ युष्मद्पदाब्जभक्तिः सततं ममास्तु।इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे ॥८३॥
इत्येवमीडितो रामो प्रादात्तस्मै वरान्तरंवीरो रामो महातेजाः सच्चिदानन्दविग्रहः॥८४॥
अद्वैतममलं ज्ञानं स्वनामस्मरणं तथाअन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥८५॥
इति श्री रघुनाथस्य स्तवराजमनुत्तमं।सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम्॥८६॥
कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमं।गुह्याद्गुह्यतमं दिव्यं तव स्नेहात् प्रकीर्तितं ॥८७॥
यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥८८॥
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा।गोवधाद्युपपापानि अनृतात्संभवानि च ॥८९॥
सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः।मानसं वाचिकं पापं कर्मणा समुपार्जितं॥९०॥
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवं।इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥९१॥
रामः सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते।तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥९२॥
श्रीरामचन्द्र रघुपुंगव राजवर्य राजेन्द्र राम रघुनायक राघवेश ।राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्य भवतः शरणं गतोऽस्मि ॥९३॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपेमध्ये पुष्पकमासने मणिमये वीरासने संस्थितम्।अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥९४॥
रामं रत्नकुण्डलकिरीटयुतं केयूरहारान्वितंसीतालंकृतवामभागममलं सिंहासनस्थं विभुम्।सुग्रीवादि हरीश्वरैः सुरगणैः संसेव्यमानं सदाविश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥९५॥
सकलगुणनिधानं योगिभिः स्तूयमानं भुजविजितसमानं राक्षसेन्द्रादिमानं।अहितनृपभयानं सीतया शोभमानंस्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥९६॥ रघुवर तव मूर्तिर्मामके मानसाब्जे नरकगतिहरं ते नामधेयं मुखे मे।अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जेभवजलनिधिमग्नं रक्ष मामार्तबन्धो ॥९७॥
रामरत्नमहं वन्दे चित्रकूटपतिं हरिंकौसल्याभक्तिसंभूतं जानकी कण्ठभूषणम्॥९८॥
इति सनत्कुमारसंहितायां नारदोक्तं श्रीरामचन्द्रस्तवराजस्तोत्रं संपूर्णम्
© P R Ramamurthy.
Sun, 05/05/2013 - 05:01
श्रीकृष्णस्तोत्रम्वन्दे नवघनश्यामं पीतकौशेयवाससं।सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं।राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥
राधानुगं राधिकेशं राधानुकृतमानसं।राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं।राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥
ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्।तं ध्यायेत् सन्ततं शुद्धं भगवन्तं सनातनम् ॥५॥
सेवने सततं सन्तो ब्रह्मेशशेषसंज्ञकाः।सेवन्ते निर्गुणब्रह्म भगवन्तं सनातनं॥६॥
निर्लिप्तं च निरीहं च परमानन्दमीश्वरं।नित्यं सत्यं च परमं भगवन्तं सनातनं॥७॥
यं सृष्टेरादिभूतं च सर्वबीजं परात्परं।योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं॥८॥
बीजं नानावताराणां सर्वकारणकारणं।वेदाऽवेद्यं वेदबीजं वेदकारणकारणम् ॥९॥
© P R Ramamurthy.
Sun, 05/05/2013 - 04:26
गोपालस्तोत्रम्
श्री नारदः-नवीननीरदश्यामं नीलेन्दीवरलोचनं।वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥१॥
स्फुरद्बर्हदलोद्बद्धनीलकुञ्चितमूर्धजं।कदंबकुसुमोद्बद्धवनमाला विभूषितम्॥२॥
गण्डमण्डलसंसर्गि चलत्काञ्चनकुण्डलं।स्थूलमुक्ताफलोदार हारद्योतितवक्षसम् ॥३॥
हेमांगदतुलाकोटि किरीटोज्ज्वलविग्रहं।मन्दमारुतसंक्षोभ वल्गितांबरसञ्चयम् ॥४॥
रुचिरोष्ठपुटन्यस्त वंशीमधुरनिःस्वनैः।लसत् गोपालिका चेतो मोहयन्तं मुहुर्मुहुः॥५॥
वल्लवीवदनाम्भोज मधुपानमधुव्रतं।क्षोभयन्तं मनस्तासां सस्मेरापांगवीक्षणैः॥६॥
यौवनोद्भिन्नदेहाभिः संसिक्ताभिः परस्परं।विचित्रांबरभूषाभिर्गोपनारीभिरावृतम् ॥७॥
प्रभिन्नाञ्जनकालिन्दी जलकेली कलोत्सुकं।योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम्॥८॥
कालिन्दीजलसंसर्ग शीतलानिल सेविते।कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥९॥
रत्नभूधरसंलग्न रत्नासनपरिग्रहम्।कल्पपादपमध्यस्थ हेममण्डपिकागतम् ॥१०॥
वसन्तकुसुमामोद सुरभीकृतदिङ्मुखे।गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥११॥
सव्यहस्ततलन्यस्त गिरिवर्यातपत्रकं।खण्डिताखण्डलोन्मुक्त मुक्तासारघनाघनम्॥१२॥
वेणुवाद्यमनोल्लासकृत हुंकातनिःस्वनैःसवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥१३॥
कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः।दण्डपाशोद्यतकरैर्गोपालैरुपशोभितम् ॥१४॥
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदान्तपारगैः।प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम्॥१५॥
य एनं चिन्तयन् देवं भक्त्या संस्तौति मानवः।त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम्॥१६॥
राजवल्लभतामेति भवेत् सर्वजनप्रियः।अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥१७॥
© P R Ramamurthy.
Sun, 05/05/2013 - 04:12
वसुदेवकृतश्रीकृष्णस्तोत्रम्
त्वामतीन्द्रियमव्यक्तमक्षरं निर्गुणं विभुंध्यानासाध्यञ्च सर्वेषां परमात्मानमीश्वरम्॥१॥
स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परं।निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥२॥
स्थूलात् स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनं।स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम्॥३॥
शरीरवन्तं सगुणमशरीरं गुणोत्करं।प्रकृतिं प्रकृतीशञ्च प्राकृतं प्रकृतेः परम् ॥४॥
सर्वेशं सर्वरूपञ्च सर्वान्तकरमव्ययंसर्वाधारं निराधारं निर्व्यूहं स्तौमि तं विभुम् ॥५॥
अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती।यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः॥६॥
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमस्तथागणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥७॥
ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः।स्वप्ने तेषामदृश्यश्च त्वमेकं किं स्तुवन्ति ते॥८॥
श्रुतयः स्तवनेऽशक्ताः किं स्तुवन्ति विपश्चितः।विहायेमं शरीरञ्च बालो भवितुमर्हसि ॥९॥
वसुदेवकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः।भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे ॥१०॥
विशिष्टपुत्रं लभते हरिदासं गुणान्वितं।संकटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥११॥© P R Ramamurthy.
Sat, 05/04/2013 - 08:35
श्रीरामकृष्णसुप्रभातम्-२
धर्मस्य हानिमभितः परिदृश्य शीघ्रं कामारपुष्कर इति प्रथिते समृद्धे।ग्रामे सुविप्रसदने ह्यभिजात देव श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥१॥
बाल्ये समाध्यनुभवः सितपक्षिपङ्क्तिं सन्दृश्य मेघपटले समवापि येन।ईशैक्यवेदनसुखं शिवरात्रिकाले श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥२॥
नानाविधानयि सनातनधर्ममार्गान् क्रैस्तादिचित्रनियमान् परदेशधर्मान् ।आस्थाय चैक्यमनयोरनुभूतवांस्त्वं श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥३॥
हे कालिकापदसरोरुहकृष्णभृङ्ग मातुः समस्तजगतामपि सारदायाः।ऐक्यं ह्यदर्शि तरसा परमं त्वयैव श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥४॥
राखालतारकहरींश्च नरेन्द्रनाथं अन्यान् विशुद्धमनसः शशिभूषणादीन्।सर्वज्ञ आत्मवयुनं त्वमिहानुशास्सि श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥५॥
नित्यं समाधिजसुखं निजबोधरूपं आस्वादयन् तव पदे शरणागतांश्च।आनन्दयन् प्रशमयन्नुपतिष्ठसे त्वं श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥६॥
स्वीकृत्य पापमखिलं शरणागतैर्यद् आजीवनं बहुकृतं दयया स्वदेहे।तज्जातखेदनिवहं सहसे स्म नाथ श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥७॥
प्रातः प्रणामकरणं तव पादपद्मे संसारदुःखहरणं सुलभं करोति।मत्वेति भक्तिभरिताः प्रतिपालयन्ति श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥८॥
गातुं स्तुतीस्तव जना अमृतायमानाः सम्प्राप्य दर्शनमिदं तव पादयोश्च।धन्या नरेश भवितुं मिलिताः समीपं श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥९॥
सन्दाय दर्शनसुखं शरणागतेभ्यो मोहान्धकारमखिलं त्वमपाकुरुष्व।ज्ञानार्क भक्तिजलधे सकलार्तिहन्तः श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥१०॥
अहैतुकीति करुणा किल ते स्वभावो दुष्टाः कठोरहृदया अपि ते भजन्ते।त्वामेव सर्वजगतां जननि प्रपात्रि श्रीसारदेश्वरि रमे तव सुप्रभातम् ॥११॥
सुप्तांस्तु भारतजनान् स्ववचः प्रहारै- रुद्बोधयन् विवशयन् निजधर्ममार्गे।प्रोत्साहयन् परमतां प्रकटीकरोषि वीरेशदत्तमहिमन् तव सुप्रभातम् ॥१२॥
प्रातरुत्थाय यो देवं रामकृष्णं स्मरन् स्मरन्।स्तोत्रमेतत्पठेद्भक्त्या सोऽमृतत्वाय कल्पते ॥१३॥
© P R Ramamurthy.
Sat, 05/04/2013 - 08:29
श्रीरामकृष्णसुप्रभातम् -१
श्रीराजमान मुखनिर्गतदिव्यभानो घोराज्ञतान्धतमसोत्करचण्डभानोस्वाराज्यसौख्यद निजाङ्घ्रिजुषामजस्रं श्री रामकृष्ण भगवन् तव सुप्रभातम्॥१॥
संसारतापविवशाखिलमानवानां कंसारिनामजपभेषजरत्नदायिन्।हिंसां मनोवचनकायगतां विधुन्वन् श्री रामकृष्ण भगवन् तव सुप्रभातम्॥२॥
कालीनेषेवणपरायण नैकशोक पालीवशावशजनावनबद्धबुद्धेनालीकनेत्र करुणामृतपूरितात्मन् श्री रामकृष्ण भगवन् तव सुप्रभातम्॥३॥
नानाजनाभिनुतवैभव लोकमातृ- ध्यानाभिलीननिजमानसपुण्यमूर्ते।मानातिरिक्तमहिमान्वितमान्यकीर्ते श्री रामकृष्ण भगवन् तव सुप्रभातम्॥४॥
वेदान्ततत्त्वकथनैर्भवशोकभाजां
स्वेदापनोदननिदान विरक्तयोगिन्।मोदावहोक्तिमकरन्दरसप्रदायिन् श्री रामकृष्ण भगवन् तव सुप्रभातम्॥५॥
अक्षामकान्तिपरिवेषपरीतमूर्ते शिक्षाविचक्षण विशिष्टगुणाम्बुराशे।वीक्षाविशोषितभवार्णव भव्यराशे श्री रामकृष्ण भगवन् तव सुप्रभातम्॥६॥
विश्वासभक्तियुतसंसृतितापभाजां आश्वासदायक दयामृतवारिराशे। विश्वाभिनन्द्यगुण विश्रुतदिव्यनामन् श्री रामकृष्ण भगवन् तव सुप्रभातम्॥७॥
वीताशसर्वविषयेषु सदा नितान्त- पूतान्तरंग जनजाड्यविनाशकारिन्। स्फीतात्मबोध विविधागमतत्त्ववेदिन् श्री रामकृष्ण भगवन् तव सुप्रभातम्॥८॥
दिव्यप्रभावलयितानन पादभाजां भव्यप्रदानपर मुक्तिपथप्रदायिन्।स्तव्य प्रकृष्टमहिमान्वितदिव्यमूर्ते श्री रामकृष्ण भगवन् तव सुप्रभातम्॥९॥
अत्यन्तनिर्मलमनस्क समस्तलोकैः स्तुत्यस्वभाव भवशोकविनाशहेतो प्रत्यग्रभव्यपथदर्शक भक्तियोगिन् श्री रामकृष्ण भगवन् तव सुप्रभातम्॥१०॥
सन्तानितात्मसुख भारतमातृदिव्य- सन्तानसत्तम सनातनधर्मचारिन्।सन्तापनाशन सदा शरणागतानां श्री रामकृष्ण भगवन् तव सुप्रभातम्॥११॥
वैराग्यशान्तिमणिमन्दिरदिव्यदीप्ति- पूराभिदीप्तमुख सत्त्वगुणैकसिन्धो।सारामलाशय सदाशयगीतकीर्ते श्री रामकृष्ण भगवन् तव सुप्रभातम्॥१२॥
यः प्रातरेतदतिपावनसुप्रभातं श्रीरामकृष्णशुभनामनि सुप्रणीतम्।भक्त्या पठेत्स तु भवार्णवपारमेत्य मुक्त्यास्पदं मुररिपोः पदमाशु यायात् ॥१३॥ © P R Ramamurthy.
Thu, 05/02/2013 - 13:27
सर्पबाधानिवृत्तिकरश्लोकाः
अनन्तो वासुकिः शेषः पद्मनाभश्च कम्बलः।धृतराष्ट्रः शंखपालः तक्षकः कालियस्तथा ॥१॥
एतानि नव नामानि नागानां च महात्मनां।सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः ॥२॥
नर्मदायै नमः प्रातः नर्मदायै नमो निशि।नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥३॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्।दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥४॥यो जरत्कारुणा जातो जरत्कारौ महायशाः।आस्तिकः सर्पसत्रे वः पन्नगान् योऽभ्यरक्षत॥५॥तं स्मरन्तं महाभागाः न मां हिंसितुमर्हथ ॥६॥ सर्पापसर्प भद्रं ते दूरं गच्छ महायशाःजनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मरन्॥७॥
© P R Ramamurthy.
Thu, 05/02/2013 - 13:12
श्रीभारतसावित्रीस्तोत्रम्मातापितृसहस्राणि पुत्रदारशतानि च।संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥१॥
हर्षस्थानसहस्राणि भयस्थानशतानि च।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥२॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चित् शृणोति मेधर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥३॥
न जातु कामान्न भयान्न लोभात्धर्मं त्यजेत् जीवितस्यापि हेतोः ।नित्यो धर्मः सुखदुःखे त्वनित्येजीवो नित्यो हेतुरस्य त्वनित्यः ॥४॥
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत्स भारतफलं प्राप्य परं ब्रह्माधिगच्छति॥५॥© P R Ramamurthy.
Wed, 05/01/2013 - 20:15
श्री गणपतिवेदपादस्तवः
श्रीकण्ठतनय श्रीश श्रीकर श्रीजलार्चित
श्री विनायक सर्वेश श्रियं वासय मे कुले ॥१॥
गजानन गणाधीश द्विजराजविभूषित।भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥२॥
गणाधीशाय नमते ऋणाटविकुठारिणे।घृणापालितलोकाय वनानां पतये नमः॥३॥
धीप्रदाय नमस्तुभ्यं ईप्सितार्थप्रदायिने।दीप्तभूषणभूषाय दिशां च पतये नमः ॥४॥
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे।पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥५॥
तटित्कोटिप्रतीकाश तनवे विश्वसाक्षिणे।तपःस्वाध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥६॥
एकाक्षरस्वरूपाय एकदन्ताय वेधसे।नैकरूपाय महते मुष्णतां पतये नमः ॥७॥
नगजावरपुत्राय खगराजार्चिताय च।सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे॥८॥
महापातकसंघातैः महाऋणभयात्सदा।त्वदीयकृपया देव सर्वानव यजामहे ॥९॥
नवरत्नमयीं मालां नवाक्षरसमन्वितांभक्त्या पठन्ति ये नित्यं तेषां तुष्येत्गणाधिपः॥१०॥ © P R Ramamurthy.
Sun, 04/21/2013 - 19:10
श्री देशिकेन्द्र तरङ्गिणी II (श्लोकाः ५१-१०8) (शृंगगिरि गुरुपरंपरा स्तोत्रम्)(By M J Narasimha Murthy, M.A., B.L.) तस्य श्रीकरपद्मजातपरमं श्रीज्ञानगिर्याख्यया ख्यातं निर्मल निर्विकल्पपरमज्ञानप्रभाभास्वरम्।अन्तेवासि सुकल्पवृक्षसदृशं मोक्षप्रदं देहिनां वन्दे पूज्यतमाभिपूज्यचरणं तेजोमयानन्ददम्॥५१॥
श्रीमत्सिंहगिरीश्वरोऽतिबहुलान् पाषण्डवादप्रियान् कान्तारस्थसरीसृपादिसदृशान् बौद्धान् सृगालात्मकान्। दृष्ट्या स्वप्रतिभाप्रसारणपुषा संस्तंभयन् स्वं मतम् गंभीरं परिसञ्चरन् गुरुवरश्चक्रे विनिष्कण्टकम् ॥५२॥
वन्दे श्रीगुरुमीशतीर्थमखिलैर्लोकैस्सदावन्दितं मायावादमशेषवादजयिनं स्पष्टं विवृण्वन्निजम्।श्रीमद्देशिकवागधीशमनघं व्याख्यानपीठाधिपं शृंगक्ष्माभृति वर्तमानममलं तेजोमयानन्ददम्॥५३॥
पञ्चास्य प्रतिरूपरूपमहितस्तंभं विभिन्दन् पुरा दैत्येशस्य हि तामसात्मकमतेः नारायणद्वेषिणः।क्षिप्रध्वंसनतुष्ट बालसुमतिप्रह्लादसन्तोषितः तं वन्दे गुरुराजरूपविभवं सद्यो नृसिंहाभिधम् ॥५४॥
विद्याशंकरतीर्थपादगुरुराट् तेजोमयानन्द भो योगारूढ समाधिनित्यनिरतोर्वीगर्भवासप्रिय।नित्यं वाञ्छति लंबिकाख्यवरयोगारूढतां ते मनः त्वां वन्दे दृढभक्तिभावसुलभं सर्वज्ञमूर्तिं सदा ॥५५॥
पायान्मां वरकृष्णतीर्थयतिराट् श्रीभारतीपूर्वक मद्बुद्धिं त्वदधीनमेव कुरु पापारण्यदवानलमच्चित्ते निवसन्मुदास्मितकरं ज्ञानाङ्कुरं वर्धय श्रृंगेरीस्थितशारदार्चनतपोयोगाप्तविद्यान्वित ॥५६॥
विद्यारण्ययतीश ते सुतपसा तुष्टा हि लोकेश्वरी दारिद्र्यादतिखिन्नमानसमहो कल्याणवृष्ट्या शिवा।दत्त्वा मोदमकारयद् हृतमना धर्मस्य सञ्जीवनम् त्वां वन्दे परमादरात् गुरुवरं पापौघदावानलम् ॥५७॥
तं वन्दे निगमान्तभाष्यसुखनिं राज्यप्रतिष्ठापकम् श्रीविद्यानगरीं समस्तवसुधाभूषां हि यो निर्ममे।तस्य श्रीयुतमाश्रयं हरिहरं भूपं व्यधाद्यः प्रभुः सौख्यं यत्र च रामराज्य इव संलेभे महीमण्डलम् ॥५८॥
अन्वर्थाभिधमात्मतत्त्वमखिलं यद्ग्रन्थजाले स्फुटं आनन्दाब्धितरङ्गताडितपदो ह्याचार्यचूडामणिः।अद्वैताख्यमहानिधिं विपुलभूलोके स्थिरं व्यातनोत् शेषेणापि यदीयसद्गुणकथा शक्यापि नो भाषितुम् ॥५९॥
विद्यारण्यकटाक्षवीक्षणमहाज्योत्स्नाचकोरात्मकः व्याख्यापीठमलंचकार मुदया श्रीचन्द्रचूडाभिधः ।वैखर्यां वरभारतीति गदितः तेजोमयानन्ददः शृंगक्ष्माभृतिवर्तमानममलं तं मन्महे संततम् ॥६०॥
वन्दे श्रीनरसिंहपूर्ववरभारत्याख्यमस्मद्गुरुम् श्रीलक्ष्मीनरसिंहमूर्तिविमलांभोजांघ्रियुग्मं सदा।भक्त्या भावयितुं कृतादरमतिं संसारतापत्रयी सद्यश्छेदिकृपाकटाक्षलहरी क्षेत्रं समाधिस्थितम् ॥६१॥
श्रीमद्देशिकवर्यशंकर तवाङ्घ्र्यब्जे मदीये मृदौ हृत्पद्मे करुणालवात् सुविशदं नित्यं मुदा भासयन्।त्वद्भक्तिस्तुतिसत्कथामृतझरी निर्मज्जनेन स्वयं सिद्धिं देहि विधेहि जन्म सफलं विद्यां प्रदाय प्रभो॥६२॥
मायानिर्मितमेव दृश्यमखिलं माया च सा कल्पिता देवो विष्णुरनन्तसौख्यविमलो मूर्तिंस्तया प्राप्नुते।इत्थं श्रीपुरुषोत्तमोऽपि जगतः स्थित्यादिभिः क्रीडती- त्येवं श्रीपुरुषोत्तमो ज्ञपयति श्रीभारती संज्ञितः॥६३॥
तस्य श्रीकरसंभवः रिपुहरः श्रीचन्द्रमौलीश्वरः निर्दिष्टो वरभारतीत्यनुपमो ज्ञानप्रदो देहिनाम्।शृंगेरीपुरनाथपूज्यमहिमा ह्यद्वैतरक्षामणिः मच्चित्ते निवसन् प्रचोदयतु मां सांख्ये स्वयं दुर्गमे ॥६४॥
मृग्येशानपुराधिनाथमनिशं तेजोमयानन्ददम् ब्राह्मीरत्नगणेशशंभुमनघं कोटीरपूजारतम्।अष्टांगाञ्चित सर्वयोगपदवी निष्ठात्मकं सन्ततम् छात्राणां हृदयेशयं बहुविधं पापं दहन्तं भजे ॥६५॥
षट्कर्मात्मक धर्मविस्तृतिपरं ह्यद्वैतचिन्तामणिं व्याख्या सिंहसुपीठभूषणगुरुं देदीप्यमानं मुदा। तुङ्गातीरविहारिणं निरुपमं प्रज्ञानतत्त्वाऽभिधं भक्त्याऽहं सततं प्रणौमि परमं तेजोमयानन्ददम् ॥६६॥
अद्वैताख्यमहाब्धिपूर्णशशिनं स्वानन्दमूर्तिं गुरुं स्वात्माराममनन्तलोकमहितं कोदण्डवीतं परं।तत्त्वं व्यङ्क्तुमना यथा रघुवरो लोकोपकारं व्यधात् तद्वत् योगिवरं श्रितार्तिहरणं श्रीरामचन्द्रं भजे ॥६७॥
पञ्चास्यः परमेश्वरः पशुपतिः दुःखात्पशून् मोचय- त्येवं घोरभवाटवी मृगपतिः पञ्चाननं सञ्चरन्।स्वप्ने व्यक्ततयाऽपि हस्तिनमलं पञ्चत्वमापादय- त्येवं श्रीनरसिंहभारतिगुरोः कृत्यं विचित्रं सदा ॥६८॥
नमत्सर्वगीर्वाणकोटीरकोटि- प्रभापुंजनीराजिताङ्घ्रिं परं तम् ।अनादिस्थ षट्दर्शनस्थापनार्यं नृसिंहाख्य तद्भारतीमूर्तिमीडे ॥६९॥
नृसिंहभारतीगुरुं सुवेदधाम संततम्।समाधियोगिदेशिकं मुदा नमस्करोम्यहम् ॥७०॥
शिवपुत्रं गजवक्त्रमिन्द्रनुतं मूलाख्यचक्रस्थितं सर्वत्रापि परंस्थितिप्रकटनं विघ्नस्वरूपं तथा।सद्विद्यात्मकमादिदेशिकवरं तेजोमयानन्ददं यो हेरंबमदर्शयत् गुरुवरः स्तम्भान्तरे तं भजे ॥७१॥
नृसिंहाख्य योगीन्द्र सच्चित्तमोदात्मको भारतीवाच्यसुज्ञानसिन्धोजयश्रीलसत्सिंहपीठाधिरूढ नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥७२॥
वन्दे श्रीमुक्तिकन्यापरिणयगृहिणं योगिवन्द्यं प्रशान्तं शृंगेरीपीठवासं ह्यभिनवनरसिंहाभिधानं यतीशम्।योगीन्द्रं भक्तिभाजां परमकरुणया सर्वदा द्योतमानं श्रीविद्यामन्त्ररूपं परमगुरुवरं सच्चिदानन्दधामम्॥७३॥
श्रीमदादिगुरुभारती नमो सच्चिदात्मकसुखस्वरूपिणे।योगिवर्य विनतांघ्रये नमो ध्यानगम्य नरसिंहमूर्तये॥७४॥
ततो मठाधीशपदे नृसिंहो ह्यभूत्सबालोऽपि पुरात्तपुण्यैः। संप्राप्य सन्यासमहोदिनान्ते सर्वोऽहमस्मीति समन्वभूत्स्वम्॥७५॥
श्रीसच्चिदानन्दशिवाभिनव्यः प्रसन्नगम्भीरमुखारविन्दः।ज्ञानाभिलाषी सकलान्प्रबन्धान् समग्रहीदेकपदे सलीलम् ॥७६॥
प्रेम्णानुगृह्णन्स समस्तलोकं अज्ञानबन्धं त्वरितं ददाह।तत्त्वोपदेशैरपि कर्मबोधैः नमस्करोम्यद्य तमाशुभक्त्या ॥७७॥
सदाशिवब्रह्मणिसक्तबुद्धिं मुदा सदा रामकथानिमग्नं।बुद्धिस्थवेदागमशास्त्रसंघं नमामि वाचस्पतिवन्द्यमूर्तिम् ॥७८॥
कलादिमध्यान्तसुदूरदूरं छात्रार्थमार्द्रार्द्रमतिं नृदेहम्।लोकोपकर्तारममन्दमोदं वन्दामहे देशिकराजराजम् ॥७९॥
श्रीशारदाचन्द्रधरौ नमन्तीं भक्त्यध्वगः राजकिरीटजुष्टाम्।वेदान्तसंवेद्यपरार्थरूपं श्रीशङ्करस्याद्भुतमूर्तिमीडे ॥८०॥
श्रीमद्भक्तिसुधातरङ्गिणी महादेवस्य तोषावहं तद्वद्भातिपुमर्थनिर्णयमिति ग्रन्थस्तदीयः परः।तत्तत्तीर्थनिषेवणादि समये बुद्ध्या प्रपञ्चीकृतं एवं ग्रन्थविभूषणं कृतगुरुं स्तोष्यामि भक्त्या सदा ॥८१॥
वेदान्तादिसुशास्त्रसारविमलप्रद्योतनाहस्करं श्रीविद्यादिगभीरवार्धिमथनं नाडीपरीक्षाचणम्।सन्नैयायिकवाक्पतिं सदमलायुर्वेदधन्वन्तरिं पाषण्डादिविनाशकं हृदि भजे मत्तेभपञ्चाननम्॥८२॥
नित्यानित्यविवेकतत्त्वनिलयः शान्तात्मनामग्रणीः आत्मारामदुरन्ततापशमनः विद्यौघकल्पद्रुमः।पारंपर्यसमागताखिलमहाविद्यातपोभासुरः अन्वर्थाभिधचन्द्रशेखरगुरुः मां पातु नित्यं मुदा ॥८३॥
शान्तं सज्जनसेवितं मुनिवरं सौभाग्यसंपत्करं नित्यं निर्मलवाक्सुधारसयुतं भक्तानुकंपापरम्।ध्यानावस्थितचेतसं निरुपमं ध्यानास्पदं देहिनां वन्दे सुन्दरमन्दहासवदनं संसारबन्धच्छिदम् ॥८४॥
वेदे शास्त्रचये पुराणनिवहे तर्के च वाचस्पतिः माधुर्यप्लुतभाषणे सुकवितासंपादने भार्गवः।वैराग्ये वरभीष्मतुल्यविभवः श्रीकृष्णभक्त्यांशुकः श्री शम्भ्वादिपरंपरागतगुरुः श्रीचन्द्रचूडाभिधः ॥८५॥
पारिव्रज्यविधेयधर्मपरमः तेजोमयानन्ददः अद्वैताभिधमाधुरीभटलसत्पीयूषदाता गुरुः।विद्यारूपकलानिधानमहितः देहीति भाभाति मे सत्यज्ञानसुखस्वरूपविमलः देदीप्यतां मानसे ॥८६॥
स्वामिन् भो तवसद्गुणान् प्रवदितुं शेषोप्यशक्तोऽभव- न्नित्यानन्दनिजस्वरूपविभवं व्यक्तुं कथं शक्नुयाम्।वेदान्ते सदनन्तचिन्मयघनं ब्रह्मेति यद्वर्ण्यते तद्दिव्यं निखिलस्वरूपममलं ध्यायामि युष्मत्पदम् ॥८७॥
विद्यातीर्थजगद्गुरो तवमुखाम्भोजोपमा भूतले नास्तीति प्रकटीकृतं शशभृता नित्यं शशाङ्कच्छलम्।पङ्कोद्भूतकुशेशयं कथमहो तद्वत्प्रभां विन्दति शृङ्गक्ष्माभृतिवर्तमान नमसां तन्वे तति प्राश्रितः ॥८८॥
वेदाभ्यासरतानशेषविबुधान्प्रोत्साहयन्सर्वदा वेदान्तादि समस्तशास्त्रनिपुणः शिष्यौघकल्पद्रुमः।श्रीविद्यामुखमन्त्रराजपदवीसाम्राज्यदीक्षागुरुः व्याख्यापीठविभूषणं विजयते श्री देशिकेन्द्रो मम ॥८९॥
शिष्याणां हृदयेस्थितं बहुविधं पापौघगाढंतमो विध्वस्ताद्भुतवाग्विलासरुचिभिर्देदीप्यमानस्सदा।मेदिन्यां कृपया चरन्बुधजनैराराधितः श्रीगुरुः नित्यानन्दविशुद्धकान्तिविसरैः जेगीयते भूतले ॥९०॥
विद्यातीर्थसुदेशिकेन्द्र न हि मे गीर्वाणवाण्यां मना- गस्ति ज्ञानलवोपि वाचमिति मे श्रुत्वा कृपापूरितः।ब्राह्मी त्वां समनुग्रहिष्यति न ते खेदोऽस्त्विति प्रोच्य मे हृत्पद्मं विकसीकृतं गुरुवरं भूयो नमस्कुर्महे ॥९१॥
इत्थं भासुरदेशिकेन्द्रनिवहं व्यष्टिं समष्टिं सदा प्राप्तं मानसपुण्डरीकनिलये सन्धार्यमाणं मुदा।भक्तौघैः भवबन्धनाशनकृते निध्यातमत्यादरा- दानन्दामृतबाष्पराजितपदांभोजं भजेऽहं सदा ॥९२॥
ऊर्ध्वं चाचमनीयकं सुविमलं चेलालवङ्गादिभिः युक्तैः गाङ्गजलैः प्रदातुमयि भोः त्वत्संमतिं प्रार्थये।नानास्वादुफलादिपूरितमिदं पर्कं गृहाण प्रभो स्वात्माराम समस्तलोकविनुतानन्दाभिधापांनिधे ॥९३॥
शीर्षाग्रेविलसत्सहस्रदलयुक्तांभोजसंयोजित- श्रीमत्कुण्डलिनीविनिर्गतपरानन्दात्मना वारिण।स्नानं कल्पयतां मया विरचितं सन्तुष्टये मौनिराट् वासोरत्नविभूषणानि दयया गृह्णन् विजेजीयताम् ॥९४॥
आयुष्यं वरयज्ञसूत्रममलं दण्डं तथा वैणवं व्योमाख्यं सुकमण्डलुं त्वयि महन्प्रत्यर्पितं स्वीकुरु।सौगन्धं मलयोद्भवं सुरुचिरं गन्धं तथाप्यक्षतान् स्वीकृत्याशु मयार्पितं तव विभो मां पाहि नित्यं मुदा॥९५॥
स्वीकृत्याशु ममेप्सितं वितनुया सच्चित्सुखांभोनिधे दीपं मे हृदयांबुजाग्रविलसन्नीवारशूकोपमंसूक्ष्मं तत्प्रमदाय ते प्रभवतात्प्रीताणुतेजोमयं नित्यानन्दसुधारसं विमलनैवेद्यं च गृह्णीष्व भो॥९६॥
त्रैगुण्यात्मकमच्छसत्त्वविशदं लौहित्यरागाश्रयं ताम्बूलाभिधकृष्णमोहसहितं ताम्बूलपूगादिकम्।सान्निध्ये तव चार्पयामि परया प्रीत्या प्रसन्नो भव श्रीमन्मस्करिवर्य पाहि सततं तेजोमयानन्द हे ॥१७॥
आत्मज्योतिरशेषसन्तमसहं नीराजनं मौनिराट् स्वाद्वैतानुभवार्थमेवगुरवे प्रेम्णा प्रदास्यामि ते ।श्रीमन्मन्त्रसुमाञ्जलिं तव पदाम्भोजे निधाय प्रभो साष्टाङ्गं हि नमस्करोमि परया भक्त्या प्रमोदं वहन् ॥९८॥
तेजोरूप मयासमर्पित महानीराजनं गृह्यतां पूर्वे जन्मनि तन्मयाऽकृतमहो देहो मयाप्तः स्वयम्।त्वत्पूजाप्रणिपातकारणवशादन्त्याममेयं तनुः तस्मादेव पुनःप्रपूजनमये गृह्णन्भयात्त्राहि माम् ॥९९॥
भुवनविमलरूपं नादबिन्दुस्वरूपं विपुलविभवयुक्तं श्रीकलामूर्तिराजम्।सविनयगुरुभक्त्या धार्यमाणं सुतत्त्व- प्रकटनमहितं तत्पादुकाराजयुग्मम्॥१००॥
सदमलमतिविप्रायार्थितश्शेषशैले गुरुपतिरयमेकश्लोकरूपं प्रसादम्।तमस इह समूलं नाशकं भानुमन्तं व्यरचयदमलं तत्पादुकायुग्ममीडे ॥१०१॥
मृतशिशुमनुगृह्णन् क्षेत्रके मूकमंबा- भुवनसुविदितेऽङ्के स्थाप्य दत्त्वा तथासून्।परमसुखकरं श्री ब्रह्मविद्यां प्रदाय प्रकटितमहिमश्रीपादुकायुग्ममीडे ॥१०२॥
देवदानवदुर्दर्शं भक्तमानवमोक्षदम्। नतोऽस्मि सन्ततं प्रेम्णा पादुकायुग्ममुत्तमम्॥१०३॥
एकदाऽनेकदेशेषु प्रत्यक्षीकृतदेशिका।नृसिंहपादशोभाढ्या मूर्ध्नि तिष्ठतुपादुका ॥१०४॥
रामेश्वराद्धनुष्कोटिं नयन् शिष्यमिमं यदा।गुरुदर्शनलाभश्च दत्तो येन तदस्तु मे ॥१०५॥
पावनं पापदूरं च परमार्थप्रचोदकम्।जन्ममृत्युविहन्तृ श्रीपादुकायुग्ममाश्रये ॥१०६॥
शेषेणापि सुदुस्साध्यं पादुका गुणवर्णनम्।साष्टाङ्गप्रणिपातेन ध्यायामि महिमास्पदम् ॥१०७॥
ब्रह्मात्मगुरुसम्बन्धी पापतूलदवानलः।गुरुवंशस्तवो नित्यं भक्त्या गेयः परार्थदः ॥१०८॥
अष्टोत्तरशतं श्रेष्ठो पद्यात्मक सुमाञ्जलिः।देशिकेन्द्रपदाम्भोजपूजार्थं प्रतिगृह्यताम् ॥१०९॥
दुष्करो हि हरेणापि गुरुवंशस्य संस्तवः।अनन्तविस्तृतो यस्मात्तस्मान्मौनमवाप्तवान् ॥११०॥
अद्वैतगुरुवृक्षो हि नैकशाखा समन्वितः।तासु शृंगाद्रि शाखां वै स्मरामि मतिशुद्धये ॥१११॥
अनन्तकोटिगुर्वाख्य फलवान्गुरुकल्पकः।तेष्वेकं प्राप्नुवानस्य संसारक्षुद्विनश्यति ॥११२॥
गुरुवरकरुणार्कस्त्वन्तरेवोदिताभः निरुपमपरितोषान्मन्मनस्तोतुकामम्। विकसितमदधाद्यन्मय्यहो शक्तिलेशं कलयतुहृदयोत्था भृङ्गझङ्कारमाला ॥११३॥
स्वामिन्विभो तवगुणान्वदितुं न शक्तः शेषोऽपि सर्वमहिमाश्रयविग्रहस्त्वम्।जानामि किं गुरुमशेषविभूतिपात्रं दासस्य दास इति मां कृपया गृहाण ॥११४॥
हरितस् गोत्रसञ्जातः गौरीगर्भसमुद्भवः जयरामसुतश्श्रीमान् नृसिंहनामधारकः।देशिकेन्द्रस्तवं प्रेम्णा कुरुतेऽत्र विशेषतः गृह्णन्तु हंसवत्सर्वे द्विजाः क्षीरतरंगिणीम् ॥
---- शुभं भूयात् ---
© P R Ramamurthy.
Sat, 04/20/2013 - 15:57
जगद्गुरुश्रीरामकृष्णस्तोत्रम्
लोकनाथश्चिदाकारो राजमानः स्वधामनिमायाशक्तिं समाश्रित्य योऽवतीर्णो महीतलेनमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥१॥
सद्ब्राह्मणकुलेजातो दिव्यदेहं समाश्रितः बाल्ये यो दिव्यभावेन वयस्यैः सह मोदयन्।विरक्तो यौवने तीव्रं मायापाश-विवर्जितः नित्यमुक्त-स्वभावोऽपि लोकानुग्रहकामतः॥२॥
लोकानामेव शिक्षार्थं तपस्तप्त्वा सुदुस्तरं निद्राशनं परित्यज्य वर्षाणां द्व्यधिकान् दश।स्वस्वरूपं समाधाय सच्चिदानन्दविग्रहं दयामूर्तिः सदानन्दो जिज्ञासूनुपदिष्टवान्॥तेषामज्ञाननाशाय लाभाय च परात्मनः। नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥३॥
सत्यबोधतया साङ्गान् सर्वधर्मान् समाचरन्।धर्ममात्रन्तु सत्यं वै येन सम्यक् सुनिश्चितम् ।नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥४॥
यो भक्तान् भक्तिमार्गे तु निनाय लोकनायकः आकृष्य मानसं तेषां भक्तिसिञ्चितया गिरा।दर्शयित्वा महाभावं परमानन्ददायकं नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥५॥
ज्ञानिनो ज्ञानमार्गे च येन सम्यक् प्रवर्तिताः नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥६॥
यैर्मतैर्धार्मिका यस्मिन् धर्ममार्गे व्यवस्थिताः तेषां तन्मतमादृत्य भक्तिस्तत्र दृढीकृता ।प्रोत्साहिता यथान्यायं येन तत्साधनेष्वपि नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥७॥
पूजिता येन वै शश्वत् सर्वेऽपि सांप्रदायिकाःसम्प्रदायविहीनो यः संप्रदायं न निन्दति।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥८॥
शश्वल्लीलाविलासेन येन सर्वमिदं ततम्।लीलारूपं सदानन्दं रामकृष्णं नमाम्यहम् ॥९॥
सर्वधर्मप्रणेतारं धर्मग्लानिविनाशकं।साधुमित्रं शिवं शान्तं रामकृष्णं नमाम्यहम् ॥१०॥
अज्ञानतिमिरे यस्तु ज्ञानालोकप्रदीपकः।विमलानन्ददानाय प्रादुरासीन्महीतले ।नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥११॥
संसारार्णवघोरे यः कर्णधारस्वरूपकःनमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥१२॥
त्वं हि विष्णुर्विरिंचिस्त्वं त्वं च देवो महेश्वरः।त्वं चैव शक्तिरूपोऽसि निर्गुणस्त्वं सनातनः॥त्वां स्तोतुं कोऽत्र शक्तः स्याद् भावातीतमनामयम्।भगवन् सर्वभूतात्मन् रामकृष्ण नमोऽस्तु ते ॥१३॥
सर्वाय सर्वपाराय सर्वभावस्वरूपिणे।सर्वभावविहीनाय रामकृष्णाय ते नमः ॥१४॥
महामायास्वरूपाय महामोहविनाशिने।मायातीताय शान्ताय रामकृष्णाय ते नमः॥१५॥
निरञ्जनं नित्यमनन्तरूपं भक्तानुकम्पाद्धृतविग्रहं वैईशावतारं परमेशमीड्यं तं रामकृष्णं शिरसा नमामः ॥१६॥
© P R Ramamurthy.
Sat, 04/20/2013 - 15:25
श्रीरामकृष्णस्तवराजःओङ्कारवेद्यः पुरुषः पुराणो बुद्धेश्च साक्षी निखिलस्य जन्तोः।यो वेत्ति सर्वं न च यस्य वेत्ता परात्मरूपो भुवि रामकृष्णः ॥१॥
न वेदगम्यो न च योगगम्यो ध्यानैर्न जापैर्न तपोभिरुग्रैः।ज्ञेयः कदापीह ततोऽवतीर्णो दयानिधे त्वं भुवि रामकृष्णः ॥२॥
मोक्षस्वरूपं तव धाम नित्यं यदा तदाप्नोति विशुद्धचित्तः।तदोपदेष्टाखिलतत्त्ववेत्ता
त्वं विश्वधाता भुवि रामकृष्णः ॥३॥
भक्तेश्च शुद्धज्ञानस्य मार्गौ प्रदर्शितौ द्वौ भवमुक्तिहेतू।तयोर्गतानां ध्रुवनायकोऽसि त्वं मोक्षसेतुर्भुवि रामकृष्णः ॥४॥
गतिस्त्वमेका जगतां जडानां पुरा विसृष्टेश्चिदखण्डरूपः।तद्वल्लये स्यादधुनासि तद्वत् त्वमादिदेवो भुवि रामकृष्णः ॥५॥
वर्णाश्रमाचारविहीनशान्ताः संन्यासिनो ज्ञानविधूतचित्ताः।ध्यायन्ति यं नित्यमभेददृष्ट्या स एव हि त्वं भुवि रामकृष्णः ॥६॥
तेजोमयं दर्शयसि स्वरूपं कोशान्तरस्थं परमार्थतत्त्वम्।संस्पर्शमात्रेण नृणां समाधिं विधाय सद्यो भुवि रामकृष्णः॥७॥
रागादिशून्यं तव सौम्यमूर्तिं दृष्ट्वा पुनश्चात्र न जन्मभाजः।स्थाने यदादाय विशुद्धसत्त्वं इहावतीर्णो भुवि रामकृष्णः॥८॥
महाविचित्रं महदादिकार्यं लब्ध्वाप्यधिष्ठानमनाद्यनन्तम्।करोति नित्या प्रकृतिस्तवाद्या तद्ब्रह्म सच्चिद् भुवि रामकृष्णः॥९॥
कृशानुवत्तापविदग्धचित्ताः संसारिणः शान्तिनिकेतनं त्वां।सम्प्राप्य शान्ता हि भवन्ति तेषां त्वं शन्तिदाता भुवि रामकृष्णः॥१०॥
षडङ्गयोगो न यतः सुसाध्यो ज्ञानाधिकारी सुलभो न यस्मात्।गरीयसी भक्तिरतः कलौ स्यात् तज्ज्ञापकस्त्वं भुवि रामकृष्णः॥११॥
नाकादिलोकं सुखदं च दिव्यं सुरम्यमैश्वर्यमहं न याचे ।हृदासने त्वं कृपया सदा वै वसेति याचे भुवि रामकृष्णः॥१२॥
यं ब्रह्मविष्णू गिरिशश्च देवा ध्यायन्ति गायन्ति नमन्ति नित्यम्।तैः प्रार्थितस्तस्य परावतारो द्विबाहुधारी भुवि रामकृष्णः॥१३॥
वन्दे जगद्बीजमखण्डमेकं वन्दे सुरैः सेवितपादपीठम्।वन्दे भवेशं भवरोगवैद्यं तमेव वन्दे भुवि रामकृष्णम्॥१४॥
रामकृष्णं चिदानन्दं यः स्तौति भक्तिमान् सदातस्य चित्तं भवेच्छुद्धं तत्त्वज्ञानं स्वयं ततः ॥१५॥© P R Ramamurthy.
Sat, 04/20/2013 - 15:05
श्रीरामकृष्णस्तोत्रम्-२
ऊँ ह्रीं ऋतं त्वमचलो गुणजिद् गुणेड्यो नक्तन्दिवं सकरुणं तव पादपद्मम्।मोहङ्कषं बहुकृतं न भजे यतोऽहं तस्मात्त्वमेव शरणं मम दीनबन्धो॥१॥
भक्तिर्भगश्च भजनं भवभेदकारि गच्छन्त्यलं सुविपुलं गमनाय तत्त्वम्।वक्त्रोद्धृतं तु हृदि मे न च भाति किञ्चित् तस्मात्त्वमेव शरणं मम दीनबन्धो॥२॥
तेजस्तरन्ति तरसा त्वयि तृप्ततृष्णा रागे कृते ऋतपथे त्वयि रामकृष्णे।मर्त्यामृतं तव पदं मरणोर्मिनाशं तस्मात्त्वमेव शरणं मम दीनबन्धो॥३॥
कृत्यं करोति कलुषं कुहकान्तकारि ष्णान्तं शिवं सुविमलं तव नाम नाथ।यस्मादहं त्वशरणो जगदेकगम्य तस्मात्त्वमेव शरणं मम दीनबन्धो॥४॥
© P R Ramamurthy.
Sat, 04/20/2013 - 14:58
श्रीरामकृष्णस्तोत्रम्-१
श्रीरामकृष्णप्रणामःस्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे।अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥ श्रीसारदादेवीप्रणामःयथाग्नेर्दाहिकाशक्ती रामकृष्णे स्थिता हि या।सर्वविद्यास्वरूपां तां सारदां प्रणमाम्यहम् ॥
आचण्डालाऽप्रतिहतरयो यस्य प्रेमप्रवाहः लोकातीतोऽप्यहह न जहौ लोककल्याणमार्गम्।त्रैलोक्येऽप्यप्रतिममहिमा जानकीप्राणबन्धो भक्त्या ज्ञानं वृतवरवपुः सीतया यो हि रामः ॥१॥
स्तब्धीकृत्य प्रलयकलितं वाहवोत्थं महान्तं हित्वा रात्रिं प्रकृतिसहजामन्धतामिस्रमिश्राम्।गीतं शान्तं मधुरमपि यः सिंहनादं जगर्ज
सोऽयं जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥२॥
नरदेव जय जय नरदेव
शक्तिसमुद्रसमुत्थतरङ्गं दर्शितप्रेमविजृंभितरङ्गम्।संशयराक्षसनाशमहास्त्रं यामि गुरुं शरणं भववैद्यम्॥३॥
अद्वयतत्त्वसमाहितचित्तं प्रोज्ज्वलभक्तिपटावृतवृत्तम्।कर्मकलेवरमद्भुतचेष्टं यामि गुरुं शरणं भववैद्यम्॥४॥ नरदेव जय जय नरदेव© P R Ramamurthy.
Sat, 04/20/2013 - 14:52
श्रीरामकृष्णाष्टकम्विश्वस्य धाता पुरुषस्त्वमाद्यो- ऽव्यक्तेन रूपेण ततं त्वयेदम्।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥१॥
त्वं पासि विश्वं सृजसि त्वमेव
त्वमादिदेवो विनिहंसि सर्वम्।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥२॥
मायां समाश्रित्य करोषि लीलां भक्तान् समुद्धर्तुमनन्तमूर्तिः।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥३॥
विधृत्य रूपं नरवत्त्वया वै विज्ञापितो धर्म इहातिगुह्यः।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥४॥
तपोऽथ ते त्यागमदृष्टपूर्वम् दृष्ट्वा नमस्यन्ति कथं न विज्ञाः।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥५॥
श्रुत्वात्र ते नाम भवन्ति भक्ता दृष्ट्वा वयं त्वां न तु भक्तियुक्ताः ।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥६॥
सत्यं विभुं शान्तमनादिरूपं प्रसादये त्वामजमन्तशून्यम्।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥७॥
जानामि तत्त्वं न हि देशिकेन्द्रं किं ते स्वरूपं किमु भावजातम्।हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥८॥
© P R Ramamurthy.
Pages