Learn Sanskrit

Subscribe to Learn Sanskrit feed Learn Sanskrit
Learn Sanskrit while blogging
Updated: 53 min 41 sec ago

संकुलितम् (Confused)

Wed, 02/27/2013 - 22:33

मया रामः श्यामेण सह संकुलितः। Ram was confused for Shyam by me.
अपि इदं वाक्यं confused इति अर्थे केनापि अन्येन शब्देन सह साधुतरं कथयितुं शक्यते।

२०१३-०२-२७ बुधवासरः (2013-02-27 Wednesday)


Categories: Learning Sanskrit

भारतस्य विजयः (India’s Victory)

Wed, 02/27/2013 - 11:42

भारतेन ओस्ट्रेलियादेशं प्रथम-फालक-चषक-स्पर्धायां पराजितम्। इदं कृत्वा भारतदलेन स्वकार्यं पूर्णतया कृतम्। आगामिस्पर्धासु ते विश्रामं करिष्यन्ति।

२०१३-०२-२६ मङ्गलवासरः (2013-02-26 Tuesday)


Categories: Learning Sanskrit

अरुणम् आस्तरणम् (Red carpet)

Tue, 02/26/2013 - 11:31

ह्यः वयं डोलबी इति रङ्गभूमिम् अगच्छाम। तत्र ओस्कर इति पुरस्कारस्य वितरणकार्यक्रमः आसीत्। वयं दूरात् अरुणम् आस्तरणं दृष्ट्वा प्रत्यागच्छाम। गृहं प्रत्यागम्य दूरदर्शने वितरणसमारोहं दृष्टम्।

२०१३-०२-२५ सोमवासरः (2013-02-25 Monday)


Categories: Learning Sanskrit

अभ्यागता (Uninvited Guest)

Sun, 02/24/2013 - 23:44

एकयोः पति-पत्न्योः मध्ये विवादः अभवत् यस्मात् पत्नी क्रुद्धा अभवत्। सा तां मातरं दूरभाषेण पत्युः अप्रियव्यवाहारस्य चर्चाम् अकरोत्। अन्ते पत्नी अकथयत् यं पाठं सः न विस्मरेत् तं पाठं शिक्षयितुम् इच्छामि तस्मात् इदानीमेव तव गृहे अगच्छामि इति। माता अकथयत् हे केन्ये त्वं सम्यक् न वदति। तव पत्युः कर्म खलु दण्डनीयम् अस्ति यस्मै तेन उचितयातनां भोक्तव्यम्। त्वं तत्रैव तिष्ठ अहम् तव गृहे आगच्छामि।

२०१३-०२-२४ रविवासरः (2013-02-24 Sunday)


Categories: Learning Sanskrit

चतस्रः होराः नष्टाः (Four Hours Destroyed)

Sun, 02/24/2013 - 11:46

अद्य त्रीन् आपणान् अगच्छाव। सार्ध-एव्कवादने निरगच्छाव प्रायः षट्वादने प्रत्यागच्छव। न जाने कस्मात् एताः होराः गताः।

२०१३-०२-२३ शनिवासरः (2013-02-23 Saturday)


Categories: Learning Sanskrit

प्रशिक्षण-अनुज्ञापत्रम् (Learner’s Permit)

Sat, 02/23/2013 - 11:28

अद्य अहं केलिफोर्नियाराज्यस्य चालक-प्रशिक्षण-अनुज्ञापत्रं अप्राप्नवम्। तस्मात् मया लेखिता परीक्षा दत्ता तस्याम् उत्तीर्णः अभवम् दृष्टि-परीक्षायाम् अपि उत्तीर्णः अभवम् तत् परं पत्रम् अप्राप्नवम्।

२०१३-०२-२२ शुक्रवासरः (2013-02-22 Friday)


Categories: Learning Sanskrit

शृङ्खलिताः विस्फोटाः (Serial Blasts)

Fri, 02/22/2013 - 11:43

हैदराबदनगरे शृङ्खलितैः विस्फोटैः अनेके जनाः व्यापदिताः। एभ्यः विस्फोटेभ्यः कस्य लाभः भविष्यति।

२०१३-०२-२१ गुरुवासरः (2013-02-21 Thursday)


Categories: Learning Sanskrit

अभ्यागतः (Having Come or visiting or a guest or having arrived)

Thu, 02/21/2013 - 11:37

अभ्यागतः रामः त्रिदिवसाय अत्र स्थास्यति। अभ्यागतेभ्यः जलपानम् आनय। तत्र अभ्यागतः मया ज्ञातं अत्र न आगन्तव्यम् इति।

२०१३-०२-२० बुधवासरः (2013-02-20 Wednesday)


Categories: Learning Sanskrit

केशकर्तनम् (Hair-cut)

Wed, 02/20/2013 - 12:12

अद्य अहं केशकर्तनम् अकारयत्। कर्तनस्थानं स्वच्छम् असीत्। नापितः कुलीनः आसीत्। मया यथा कथितं तथैव सः कर्तनम् अकरोत्। सः मया सह ओस्ट्रेलियादेशस्य चर्चाम् अकरोत् भारतस्य चर्चाम् अकरोत् अन्ते तस्य पिता मां उर्दू इति शब्दस्य अर्थं किम् अस्ति इति अकथयत्। सः अकथयत् उर्दू इति भटाः mercenaries ये जनां व्यापादयन्ति तेषां वस्तूनि गृह्णन्ति सबलेन मतपरिवर्तनं कारयन्ति इति। सः नापितः अरमेनिया इति देशात् अत्र आगच्छत्। सः तस्य पित्रा सह केशकर्तनालयं चालयति। तौ कुलिनौ नापितौ स्तः। अत्र tip इति प्रथा अस्ति। प्रथमवारे मया स्वेच्छया tip इति दत्तम्।

२०१३-०२-१९ मङ्गलवासरः (2013-02-19 Tuesday)


Categories: Learning Sanskrit

ज्वरितः (With fever)

Tue, 02/19/2013 - 12:00

अद्य अहं ज्वरितः अस्मि। अद्य अत्र राष्ट्रपतिनां दिवसाय अवकाशः अस्ति किन्तु अहं गृहे एव बन्दी अस्मि। दिवाकरः प्रसन्नः अस्ति तापमानम् अनुकूलम् अस्ति पवनः अपि न वाति किन्तु गृहे एव बन्दी अस्मि। किं कर्तव्यम्।

२०१३-०२-१८ सोमवासरः (2013-02-18 Monday)


Categories: Learning Sanskrit

श्रीमार्कण्डेयवर्यस्य व्याख्यनम् (Justice Markandeya Katju's Lecture (Essay))

Sun, 02/17/2013 - 23:54

कृपया पठतु। इदं व्याख्यानं ज्ञानवर्धनं रोचकम् अपि अस्ति।

Sanskrit As A Language Of Science
Full text of the speech delivered by Justice Markandey Katju, Judge, Supreme Court of India  on 13.10.2009 in the Indian Institute of Science, Bangalore.

http://www.outlookindia.com/article.aspx?262393

अस्मिन् वक्तव्ये श्रीमार्कण्डेयवर्यः कथयति -
I would like to illustrate the revolutionary significance of the decimal system. As we all know, ancient Rome was a great civilization, the civilization of Caesar and Augustus, but if one would have asked an ancient Roman to write the number one million he would have almost gone crazy because to write one million he would have to write the letter M which stands for millennium (or one thousand) one thousand times. In the Roman numerals there is no single number greater than M, which stands for one thousand. To write 2000 we have to write MM, to write 3000 we have to write MMM, and to write one million one has to write M one thousand times.

यदि कोऽपि one million इति लेखितुम् इच्छति तर्हि कथं प्रयुतम् इति न लिखेत् कथं सहस्रवारं M इति लिखेत् इति न जानामि। प्रश्नः नास्ति कथं लिख्यते किन्तु यथा लिख्यते तथा संकलनम् कर्तुं शक्यते अथवा न। M सहस्त्रवारं लिखित्वा यदि तस्य अङ्कस्य केन अपि अन्येन अङ्केन सह संकलाय कापि अनुक्रमः अस्ति यस्मात् संकलनं कर्तुं शक्यते इति प्रश्नः अस्ति। दशमलवपद्धति-लेखनेन संकलनाय प्रचुराः अनुक्रमाः उपयोक्तुं शक्यन्ते। तत् तु दशमलव-पद्धत्याः revolutionary significance इति अस्ति।

If someone wants to write a million why cannot one just write a million, why does one have to write M a thousand times. Being able to write 1,000,000 instead of a thousand “M”s is really not the main point of the decimal system. The fact that having written numbers in decimal system, algorithms for adding, subtracting, multiplying, and dividing can be easily developed and this is the beauty of the decimal system. Ease in writing is not science, but writing in a way which enables the application of algorithms is science.

२०१३-०२-१७ रविवासरः (2013-02-17 Sunday)


Categories: Learning Sanskrit

संवाहिका (Convener)

Sun, 02/17/2013 - 06:31

अस्याः संगोष्ठ्याः संवाहिका सीतामहाभागा अस्ति। अस्य उपवेशनस्य संवाहकः रामवर्यः अस्ति। श्रीशंकराचार्य-संस्कृत-विश्वविद्यालये अयोज्यमानायाः शांकरवेदान्तविषयिण्याः संगोष्ठ्याः संवाहिका आचार्या चन्द्रिका अस्ति इति आकाशवाणी।

२०१३-०२-१६ शनिवासरः (2013-02-16 Saturday)


Categories: Learning Sanskrit

पदोन्नतिः भविष्यति (Will get promoted)

Sat, 02/16/2013 - 12:11

कनिष्कसिंहः नाम राहुलवर्यस्य सहकर्मी उदग्रयानकाण्डे संलिप्तः अस्ति इति जनाः वदन्ति। चिन्तां मा करोतु। कनिष्कवर्यस्य अस्य घोषणायाः परं पदोन्नतिः भविष्यति। यदि कोऽपि सत्यवादी अस्ति नदूषितः अस्ति तदा सः राहुलवर्याय कथम् उपयोगी भविष्यति। यदि उत्कोची अस्ति भ्रष्टः अस्ति मिथ्यावादी अस्ति तदैव सः उपयोगी भविष्यति। इयं घोषणा कनिष्कवर्याय उत्तमप्रमाणपत्रम् अस्ति अनेन प्रमाणपत्रेण सः उन्नतिं गमिष्यति। सल्मानखुर्शिदवर्यस्य उदाहरणं सर्वे जानन्ति एव। सः विकलाङ्गजनानां धनं खादित्वा उन्नतिम् अगच्छत्। अचिरे कनिष्कवर्यः मन्त्रिपदम् अवाप्स्यति।

२०१३-०२-१५ शुक्रवासरः (2013-02-15 Friday)


Categories: Learning Sanskrit

पर्यटनम् (Jaunt)

Fri, 02/15/2013 - 03:00

समाचारः अस्ति उदग्रयानकाण्डस्य अन्वेक्षणाय CBI इति संस्थायाः एकं दलं इटलीदेशं गमिष्यति। दलं तत्र पर्यटनं कृत्वा प्रत्यागमिष्यति विवरणपत्रे लेखिष्यति किमपि प्रमाणं नास्ति। सर्वे जानन्ति उत्कोचधनं कुत्र गच्छति। ये न्यायाय उत्तरदायकाः सन्ति ते एव उत्कोचं गृहणन्ति। कथं न्यायः भवेत्।

२०१३-०२-१४ गुरुवासरः (2013-02-14 Thursday)


Categories: Learning Sanskrit

चिकित्साव्यवस्था (Health Care)

Thu, 02/14/2013 - 06:52

साम्प्रतस्य प्रशासनस्य आउटलुक इति प्रचारपत्रिका भारतस्य चिकित्साव्यवस्थायां वर्णनं करोति। कृपया पठतु
http://www.outlookindia.com/article.aspx?283836। भारतप्रशासनं शैक्षणिक-चिकित्सा-व्यवस्ताभ्यां न्यसरत्। इमे द्वे व्यवस्थे एव प्रशासनेन योजितव्ये किन्तु प्रशासनं द्वाभ्यां विहाय अन्यं कार्यम् एव करोति।

२०१३-०२-१३ बुधवासरः (2013-02-13 Wednesday)


Categories: Learning Sanskrit

विदूषकः (Jokers)

Wed, 02/13/2013 - 11:24

कः कथयति मन्त्रिणः कार्यं न कुर्वन्ति। ते अस्माकं मनोरञ्जनार्थं अनेकानि कार्याणि कुर्वन्ति। ह्यः इटलीदेशे एकस्य उदग्रयानस्य अध्यक्षः निग्रहितः। आरोपः अस्ति तेन उदग्रयानानां विक्रयार्थम् उत्कोचः दत्तः। अस्य प्रकरणस्य विवरणं सर्वेषां समाचारपत्रेषु सन्ति तथापि सुरक्षामन्त्री कथयति अस्माभिः अन्वेक्षणं कृतं किन्तु किम् अपि अनुचितं नासीत्। सः मन्त्रिपदे आरूढः अस्ति किन्तु खलु सः अस्ति एकः विदूषकः।

http://indiatoday.intoday.in/video/chopper-scam-finmeccanica-ex-iaf-chief-sp-tyagi/1/250006.html

२०१३-०२-१२ मङ्गलवासरः (2013-02-12 Tuesday)


Categories: Learning Sanskrit

अनुग्रहराशिः (Compensation)

Mon, 02/11/2013 - 21:11

प्रयागस्थानके ये जनाः कालग्रस्ताः, तेषां परिवारेभ्यः प्रशासनं पञ्चलक्षरुप्यकाणि अनुग्रहराशिं दास्यति। नेतारः अनुशोचितवन्तः किन्तु अहं मन्ये यदि ते सम्यग् अनुशोचितवन्तः तर्हि तैः पदत्यागः करणीयः।

२०१३-०२-११ सोमवासरः (2013-02-11 Monday)


Categories: Learning Sanskrit

प्रयागस्थानके दुर्घटना (Accident at Prayag station)

Mon, 02/11/2013 - 10:35

प्रायगस्थानके सम्मर्दने भीषणायां दुर्घटनायां प्रायः अष्टात्रिंशत् जनाः दिवं गताः। ते कुम्भमेलकाय प्रयागम् आगच्छन्। तीर्थयात्रिणी दिवं गतानि इति श्रुत्वा अहं दुखितः अस्मि।

२०१३-०२-१० रविवासरः (2013-02-10 Sunday)


Categories: Learning Sanskrit

देवता (Godhead or Idol)

Sat, 02/09/2013 - 23:02

देवता इति स्त्रीलिङ्गी शब्दः अस्ति। हिन्दीभाषायां देवता इति पुल्लिङ्गी शब्दः अस्ति तस्य अर्थः अपि भिन्नः अस्ति।
हे पण्डिताः कृपया देवता इति शब्दस्य पूर्वप्रयोगाः ददतु।

२०१३-०२-०९ शनिवासरः (2013-02-09 Saturday)


Categories: Learning Sanskrit

शीतलहरः आगच्छति (Cold wave comes)

Sat, 02/09/2013 - 12:17

अत्र शीतकालः अस्ति किन्तु तापमानं केन्बरानगरे यथा ग्रीष्मकाले अस्ति तस्मात् आसीत्। किन्तु अद्य प्रभृति शीतलहरः आगच्छति तस्मात् शीतकालः अस्ति इति अनुभविष्यामः। शीतलहरः प्रायः सप्ताहपर्यन्तं भविष्यति।

२०१३-०२-०८ शुक्रवासरः (2013-02-08 Friday)


Categories: Learning Sanskrit

Pages