Learn Sanskrit

Subscribe to Learn Sanskrit feed Learn Sanskrit
Learn Sanskrit while blogging
Updated: 3 days 4 hours ago

√ग्रहँ उपादाने (To accept)

Sun, 05/17/2015 - 16:27

स्मर्तव्यं √ग्रहँ धातोः लृट्लकारे ईकारः भवति यथा ग्रहीष्यति (ग्रहोऽलिटि दीर्घः ७-२-३७)। सामान्यतया पठिष्यति गमिष्यति वदिष्यति इति रूपेषु इकारः अस्ति। √ग्रहँ क्रयादिगणीयः उभयपदी धातुः अस्ति।
सः भारं ग्रहीष्यति। त्वं भारं ग्रहीष्यसे। सा विद्यां ग्रहीष्यति। ते भोजनं ग्रहीष्यन्ति।

२०१५-०५-१७ रविवासरः (2015-05-17 Sunday)


Categories: Learning Sanskrit

पारयति – लट्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्। (to fill, fill up, complete)

Sun, 05/17/2015 - 04:00

पारयति – लट्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।
पॄ पूरणे [१५३९] चुरादिगणीयः, उभयपदी सेट्
पॄ णिच् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
पॄ इ (लशक्वतद्धिते (१.३.८), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
पार् इ (अचो ञ्णिति (७.२.११५), उरण् रपरः (१.१.५१))
पारि (सनाद्यन्ता धातवः (३.१.३२))
पारि लँट् (वर्तमाने लट् (३.२.१२३))
पारि ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
पारि तिप् (तिप्तस्झि॰ (३.४.७८))
पारि ति (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
पारि शप् ति (कर्तरि शप् (३.१.६८))
पारि अ ति (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
पारे अ ति (सार्वधातुकार्द्धधातुकयोः (७.३.८४))
पारयति (एचोऽयवायावः (६.१.७८))


Categories: Learning Sanskrit

परिणतिः (Completion)

Fri, 05/15/2015 - 04:52

परिणतिः इति शब्दस्य नैके अर्थाः सन्ति अत्र end, conclusion, close, termination इति अर्थे प्रयोजयामि।
अद्य तस्य अनुष्ठानस्य परिणतिः अस्ति। लोकसभायाः सत्रं अद्य परिणतिम् गतम्। तस्याः विश्वविद्यालयस्य पठनं अस्मिन् वर्षे परिणतिं गमिष्यति।

२०१५-०५-१५ शुक्रवासरः (2015-05-15 Friday)


Categories: Learning Sanskrit

मानवः अस्ति अथवा (Man or?)

Thu, 05/14/2015 - 03:39

हिन्दीभाषायां एकं वचः अस्ति – आदमी है या पजामा – इति। तस्य आङ्ग्लभाषान्तरमं मम मित्रं समीरवर्यः अकरोत् – Are you a man or a CV? ह्यः मम भार्या अकथयत् अहं मम कक्षायां छात्रान् कथयामि – Are you a man or a pen? – इति। मह्यं तस्याः भाषान्तरं रोचते। अस्य वचसः किमपि संस्कृतभाषान्तरं सूचयतु।

२०१५-०५-१४ गुरुवासरः (2015-05-14 Thursday)


Categories: Learning Sanskrit

मम अनुमानम् (My Guess)

Wed, 05/13/2015 - 16:32

ओसामाबिनलादेनः पाकिस्ताने तस्य देशस्य प्रशासनस्य अनुमतिम् प्राप्य तत्र आसीत् इति मम अनुमानम् आसीत्। पठतु http://www.nytimes.com/2015/05/12/magazine/the-detail-in-seymour-hershs-bin-laden-story-that-rings-true.html?_r=0

२०१५-०५-१३ बुधवासरः (2015-05-13 Wednesday)


Categories: Learning Sanskrit

पोलियोनिवारकः रसः (Polio Immunisation)

Tue, 05/12/2015 - 16:22

अद्य दूरदर्शने ते अदर्शयन् पाकिस्तानदेशे पोलियोनिवारकस्य रसस्य प्रवर्तनं कीदृशं कठिनम् अस्ति। तत्र जनेषु नैके भ्रान्तविचाराः सन्ति। ते पोलियोनिवारकः रसः हानिकरः अस्ति इति मन्यन्ते।

२०१५-०५-१२ मङ्गलवासरः (2015-05-12 Tuesday)


Categories: Learning Sanskrit

अनुबन्धाः (Links)

Mon, 05/11/2015 - 15:55

कृपया संस्कृतभाषासम्बन्धिनः अनुबन्धान् पश्यतु – http://sanskritteacher.blogspot.com.au/p/useful-links.html

२०१५-०५-११ सोमवासरः (2015-05-11 Monday)


Categories: Learning Sanskrit

अनुशीलनम् (Practice)

Sun, 05/10/2015 - 14:19

अद्य द्विसप्ताहपरं श्रीमतीसौम्यामहाभागा व्योमपाठशालायां तिङन्तप्रक्रियायाः वर्गे अध्यापनार्थम् आगच्छत्। सा दिवादिगणस्य तुदादिगणस्य प्रक्रियायाः अनुशीलनम् अकारयत्।

२०१५-०५-१० रविवासरः (2015-05-10 Sunday)


Categories: Learning Sanskrit

राजीववर्यः (Shri Rajiv)

Sat, 05/09/2015 - 12:49

अद्य अहं मम विद्यालये एव पठितम् एकं सज्जनम् अमिलम्। सः राजीवसेठीवर्यः कर्णावतीनगरे निवसति। सः १९६९तमे वर्षे विद्यालयम् अपारयत्। अहं तं विद्यालयं १९६८तमे वर्षे षष्ठ्यां कक्षायाम् अगच्छम् १९७४तमे वर्षे अपारयं च।

२०१५-०५-०९ शनिवासरः (2015-05-09 Saturday)


Categories: Learning Sanskrit

उररीकृ (to accept, to extend)

Sat, 05/09/2015 - 03:20

स्वीकाररूपार्थे ऊर्यादिषु पठ्यते । …। विस्तारेऽप्ययं क्वचित् पठ्यते इति अव्ययकोशः । ऊरी-उररी शब्दावङ्गीकरणे विस्तारे च इति काशिकावृत्तिः (ऊर्यादिच्विडाचश्च १।४।६१)।

“मौद्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे बन्धनस्थाः” (मालविकाग्निमित्रे पञ्चमे अङ्के)
Maudgalya! Release all prisoners including Yajnasena’s brother-in-law. उररीकृत्य – “Having accepted” i.e., “including” इति कालेमहाभागः (पृ. ३५३)

“आजानुबाहुं उररीकृतसप्ततन्तुं मातङ्गशैलसदनं वरदं प्रपद्ये” (श्रीमदप्पय्यदीक्षितविरचितवरदराजस्तवे ३) अथवा
आजानुबाहुं स्वीकृतयज्ञं हस्तिगिरिनिवासं वरदराजं प्रपद्ये इति।

२०१५-०५-०८ शुक्रवासरः (2015-05-08 Friday)


Categories: Learning Sanskrit

स्मृतिमहाभागा प्रतिवदति (Smriti Irani Replies)

Fri, 05/08/2015 - 10:57

स्मृतिमहाभागा राहुलवर्यस्य आक्षेपान् खण्डनम् करोति। कृपया पश्यतुhttp://zeenews.india.com/news/videos/top-stories/amethi-food-park-row-smriti-irani-questions-congress-track-record_1591649.html

२०१५-०५-०८ शुक्रवासरः (2015-05-08 Friday)


Categories: Learning Sanskrit

रानी (Queen)

Thu, 05/07/2015 - 09:31

मङ्गलवासरे रात्रौ आवां क्वीन इति चलचित्रम् अपश्याव। अर्धम् अपि चलचित्रं दृष्ट्वा तत् अवरुद्धम्। मन्ये तत् चलचित्रं राष्ट्रपतिना पारितोषिकेन सम्मानितम्| कथम् इदम् अहं न अवबोधामि। चलचित्रस्य पटकथा अविश्वसनीया अस्ति। नयिकायाः चरित्रं विदेशं गत्वा पूर्णरूपेण परिवर्तति। साक्षात् जीवने ईदृशं न भवति। अदर्शनीयं क्वीन इति चलचित्रम्।

२०१५-०५-०७ गुरुवासरः (2015-05-07 Thursday)


Categories: Learning Sanskrit

राहुलवर्यः अवकाशे कुत्र अगच्छत् (Where did Rahul go on his vacation)?

Thu, 05/07/2015 - 06:44

राहुलवर्यः तस्य रहस्यावकाशे कुत्र अगच्छदिति कोऽपि न जानाति । यत्रापि सः अगच्छत् तत्प्रदेशे विधिवशात् सः ज्ञानोदयं प्राप्तवान् नेहरूवर्यस्य समाजवादेन सह प्रत्यागतवानिति कोऽपि संदेहः नास्ति। पुनरागमनान्तरं सः मोदीशासनं धनस्वामिनः शासनमित्युक्त्वा अतीव कटुशब्देन खण्डितवान् च । इतः पूर्वं तस्य पितृव्या इन्दिरावर्या तस्याः आर्थिकोदारीकरणकार्यक्रमेण (economic liberalization programme) शास्त्रोक्तरीत्या मन्त्रोपचारेण सह नेहरूसमाजवादस्य अन्तिमसंस्कारः स्वयं १९८२ वर्षे कृतवती इति सुविदितमेव । तर्हि कुतः राहुलवर्यस्य अयं समाजवादप्रत्ययः? अहं न जानामि, स एव न जानाति। किं बहुना विधाता अपि न जानाति।

पश्यतु – http://indianexpress.com/article/opinion/columns/fifth-column-future-planning/


Categories: Learning Sanskrit

प्राञ्जलता (Straightness)

Wed, 05/06/2015 - 09:33

सः राजमार्गस्य प्राञ्जलतां दृष्ट्वा विस्मयी अभवत्|

२०१५-०५-०६ बुधवासरः (2015-05-06 Wednesday)


Categories: Learning Sanskrit

प्रकारः (sort, kind, nature, class, species, way, mode, manner)

Tue, 05/05/2015 - 07:12

प्रकारः इति अत्यन्तः उपयोगी शब्दः अस्ति|
केषां प्रकाराणं फलानि सन्ति| द्व्योः प्रकारयोः जनाः स्तः| दशसु प्रकारेषु यानेषु एकस्य यानस्य चनयं कुरु| फलस्य एकः प्रकारः एव अस्ति|
प्रकारः – पुँल्लिङ्गः प्रथमाविभक्तिः एकवचनम्।
प्र डुकृञ्
प्र कृ (हलन्त्यम् (१.३.३), आदिर्ञिटुडवः (१.३.५), तस्य लोपः (१.३.९))
प्र कृ घञ् (अकर्तरि च कारके संज्ञायाम् (३.३.१९))
प्र कृ अ (हलन्त्यम् (१.३.३), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
प्र कार् अ (अचो ञ्णिति (७.२.११५), उरण् रपरः (१.१.५१))
प्रकार सुँ (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
प्रकार स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
प्रकारर् (ससजुषो रुः (८.२.६६))
प्रकारः (खरवसानयोर्विसर्जनीयः (८.३.१५))

२०१५-०५-०५ मङ्गलवासरः (2015-05-05 Tuesday)


Categories: Learning Sanskrit

गवेषयति (Finds)

Mon, 05/04/2015 - 16:37

सः पुस्तकं गवेषयति|
गवेषयति – लट्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।
√गवेष मार्गणे [१८९३] चुरादिगणीयः उभयपदी सेट्
गवेष णिच् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
गवेष इ (लशक्वतद्धिते (१.३.८), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
गवेष् इ (अतो लोपः (६.४.४८))
गवेषि (सनाद्यन्ता धातवः (३.१.३२))
गवेषि लँट् (वर्तमाने लट् (३.२.१२३))
गवेषि ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
गवेषि तिप् (तिप्तस्झि॰ (३.४.७८))
गवेषि ति (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
गवेषि शप् ति (कर्तरि शप् (३.१.६८))
गवेषि अ ति (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
गवेषे अ ति (सार्वधातुकार्द्धधातुकयोः (७.३.८४))
गवेषयति (एचोऽयवायावः (६.१.७८))

२०१५-०५-०४ सोमवासरः (2015-05-04 Monday)


Categories: Learning Sanskrit

अन्तर्दधाति (Disappears)

Sun, 05/03/2015 - 07:46

सः कुत्र अन्तर्दधाति इति अहं न जानामि|
√धा धातुः लट्लकारे –
दधाति धत्तः दधति
दधासि धत्थः धत्थ
दधामि दध्वः दध्मः
धत्तः धत्थः धत्थ इति पदेषु दधस्तथोश्च (८.२.३८, लघु० ६२६) इति सूत्रेण आदिदकारः धकारः भवति|

२०१५-०४-०३ रविवासरः (2015-04-03 Sunday)


Categories: Learning Sanskrit

रवि [पु॰] The Sun

Sat, 05/02/2015 - 12:49
एक॰ द्वि॰ बहु॰ प्रथमा रविः
रवि सुँ (स्वौजस्॰ (४.१.२))
रवि स् (उपदेशे॰ (१.३.२), तस्य लोपः (१.३.९))
रविर् (ससजुषो रुः (८.२.६६))
रविः (खरवसानयोर्विसर्जनीयः (८.३.१५)) रवी
रवि औ (स्वौजस्॰ (४.१.२))
रवी (प्रथमयोः पूवसवर्णः (६.१.१०२)) रवयः
रवि जस् (स्वौजस्॰ (४.१.२))
रवि अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
रवे अस् (जसि च (७.३.१०९))
रवय् अस् (एचोऽयवायावः (६.१.७८))
रवयर् (ससजुषो रुः (८.२.६६))
रवयः (खरवसानयोर्विसर्जनीयः (८.३.१५)) द्वितीया रविम्
रवि अम् (स्वौजस्॰ (४.१.२))
रविम् (अमि पूर्वः (६.१.१०७)) रवी
रवि औट् (स्वौजस्॰ (४.१.२))
रवि औ (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
रवी (प्रथमयोः पूवसवर्णः (६.१.१०२)) रवीन्
रवि शस् (स्वौजस्॰ (४.१.२))
रवि अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
रवी अस् (प्रथमयोः पूवसवर्णः (६.१.१०२))
रवीन् (तस्माच्छसो नः पुंसि (६.१.१०३)) तृतीया रविणा
रवि टा (स्वौजस्॰ (४.१.२))
रवि ना (प्रथमयोः पूवसवर्णः (६.१.१०२))
रविणा (प्रथमयोः पूवसवर्णः (६.१.१०२)) रविभ्याम्
रवि भ्याम् (स्वौजस्॰ (४.१.२))
रविभ्याम् रविभिः
रवि भिस् (स्वौजस्॰ (४.१.२))
रविभिर् (ससजुषो रुः (८.२.६६))
रविभिः (खरवसानयोर्विसर्जनीयः (८.३.१५)) चतुर्थी रवये
रवि ङे (स्वौजस्॰ (४.१.२))
रवि ए (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
रवे ए (घेर्ङिति (७.३.१११))
रवये (एचोऽयवायावः (६.१.७८)) रविभ्याम्
रवि भ्याम् (स्वौजस्॰ (४.१.२))
रविभ्याम् रविभ्यः
रवि भ्यस् (स्वौजस्॰ (४.१.२))
रविभ्यर् (ससजुषो रुः (८.२.६६))
रविभ्य: (खरवसानयोर्विसर्जनीयः (८.३.१५)) पञ्चमी रवेः
रवि ङसिँ (स्वौजस्॰ (४.१.२))
रवि अस् (उपदेशे॰ (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
रवे अस् (घेर्ङिति (७.३.१११))
रवेस् (ङसिङसोश्च (६.१.११०))
रवेर् (ससजुषो रुः (८.२.६६))
रवेः (खरवसानयोर्विसर्जनीयः (८.३.१५)) रविभ्याम्
रवि भ्याम् (स्वौजस्॰ (४.१.२))
रविभ्याम् रविभ्यः
रवि भ्यस् (स्वौजस्॰ (४.१.२))
रविभ्यर् (ससजुषो रुः (८.२.६६))
रविभ्य: (खरवसानयोर्विसर्जनीयः (८.३.१५)) षष्ठी रवेः
रवि ङस् (स्वौजस्॰ (४.१.२))
रवि अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
रवे अस् (घेर्ङिति (७.३.१११))
रवेस् (ङसिङसोश्च (६.१.११०))
रवेर् (ससजुषो रुः (८.२.६६))
रवेः (खरवसानयोर्विसर्जनीयः (८.३.१५)) रव्योः
रवि ओस् (स्वौजस्॰ (४.१.२))
रव्योस् (इको यणचि (६.१.७७))
रव्योर् (ससजुषो रुः (८.२.६६))
रव्योः (खरवसानयोर्विसर्जनीयः (८.३.१५)) रवीणाम्
रवि आम् (स्वौजस्॰ (४.१.२))
रवि नुट् आम् (ह्रस्वनद्यापो नुट् (७.१.५४))
रवि न् आम् (उपदेशे॰ (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
रवी न् आम् (नामि (६.४.३))
रवीणाम् (अट्कुप्वाङ्नुमव्यवायेऽपि (८.४.२)) सप्तमी रवौ
रवि ङि (स्वौजस्॰ (४.१.२))
रव औ (अच्च घेः (७.३.११९))
रवौ (वृद्धिरेचि (६.१.८८)) रव्योः
रवि ओस् (स्वौजस्॰ (४.१.२))
रव्योस् (इको यणचि (६.१.७७))
रव्योर् (ससजुषो रुः (८.२.६६))
रव्योः (खरवसानयोर्विसर्जनीयः (८.३.१५)) रविषु
रवि सु (स्वौजस्॰ (४.१.२))
रविषु (आदेशप्रत्यययोः (८.३.५७)) सम्बोधनम् हे रवे
रवि सुँ (स्वौजस्॰ (४.१.२))
रवि स् (उपदेशे॰ (१.३.२), तस्य लोपः (१.३.९))
रवे स् (ह्रस्वस्य गुणः (७.३.१०८))
रवे (एङ्ह्रस्वात् सम्बुद्धेः (६.१.६९)) हे रवी
रवि औ (स्वौजस्॰ (४.१.२))
रवि औ (स्वौजस्॰ (४.१.२))
रवी (प्रथमयोः पूवसवर्णः (६.१.१०२)) हे रवयः
रवि जस् (स्वौजस्॰ (४.१.२))
रवि अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
रवे अस् (जसि च (७.३.१०९))
रवय् अस् (एचोऽयवायावः (६.१.७८))
रवयर् (ससजुषो रुः (८.२.६६))
रवयः (खरवसानयोर्विसर्जनीयः (८.३.१५))
Categories: Learning Sanskrit

अदिधेट् – लङ्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।

Fri, 05/01/2015 - 12:20

अदिधेट् – लङ्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।
धिषँ शब्दे [११०२] जुहोत्यादिगणीयः परस्मैपदी सेट्
धिष् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
धिष् लँङ् (अनद्यतने लङ् (३.२.१११))
धिष् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
धिष् तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
धिष् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
धिष् धिष् ति (कर्तरि शप् (३.१.६८), जुहोत्यादिभ्यः श्लुः (२.४.७५), श्लौ (६.१.१०))
धि धिष् ति (पूर्वोऽभ्यासः (६.१.४), हलादिः शेषः (७.४.६०))
दिधिष् ति (अभ्यासे चर्च (८.४.५४))
अट् दिधिष् ति (लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१))
अ दिधिष् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अदिधेष् ति (पुगन्तलघूपधस्य च (७.३.८६))
अदिधेष् त् (इतश्च (३.४.१००))
अदिधेष् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
अदिधेड् (झलां जशोऽन्ते (८.२.३९))
अदिधेट् (वाऽवसाने (८.४.५६))


Categories: Learning Sanskrit

नदी (स्त्री॰) River

Sun, 04/19/2015 - 16:24
नदी [स्त्री॰] River एक॰ द्वि॰ बहु॰ प्रथमा नदी
नदी सुँ (स्वौजस्॰ (४.१.२))
नदी स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
नदी (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८)) नद्यौ
नदी औ (स्वौजस्॰ (४.१.२))
नदी औ (दीर्घाज्जसि च (६.१.१०५))
नद्यौ (इको यणचि (६.१.७७)) नद्यः

नदी जस् (स्वौजस्॰ (४.१.२))
नदी अस् (चुटू (१.३.७), तस्य लोपः (१.३.९))
नदी अस् (दीर्घाज्जसि च (६.१.१०५))
नद्यस् (इको यणचि (६.१.७७))
नद्यस् (ससजुषो रुः (८.२.६६))
नद्यः (खरवसानयोर्विसर्जनीयः (८.३.१५)) द्वितीया नदी अम् (स्वौजस्॰ (४.१.२))
नदीम् (अमि पूर्वः (६.१.१०७)) नद्यौ
नदी औट् (स्वौजस्॰ (४.१.२))
नदी औ (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), दीर्घाज्जसि च (६.१.१०५))
नद्यौ (इको यणचि (६.१.७७)) नदीः

नदी शस् (स्वौजस्॰ (४.१.२))
नदी अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
नदीस् (प्रथमयोः पूवसवर्णः (६.१.१०२))
नदीर् (ससजुषो रुः (८.२.६६))
नदीः (खरवसानयोर्विसर्जनीयः (८.३.१५)) तृतीया नद्या
नदी टा (स्वौजस्॰ (४.१.२))
नदी आ (चुटू (१.३.७), तस्य लोपः (१.३.९))
नद्या (इको यणचि (६.१.७७)) नदीभ्याम्
नदीभ्याम् (स्वौजस्॰ (४.१.२)) नदीभिः
नदी भिस् (स्वौजस्॰ (४.१.२))
नदीभिर् (ससजुषो रुः (८.२.६६))
नदीभिः (खरवसानयोर्विसर्जनीयः (८.३.१५)) चतुर्थी नद्यै
नदी ङे (स्वौजस्॰ (४.१.२))
नदी ए (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
नदी आट् ए (आण्नद्याः (७.३.११२))
नदी आ ए (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
नदी ऐ (आटश्च (६.१.९०))
नद्यै (इको यणचि (६.१.७७)) नदीभ्याम्
नदीभ्याम् (स्वौजस्॰ (४.१.२)) नदीभ्यः

नदी भ्यस् (स्वौजस्॰ (४.१.२))
नदीभ्यर् (ससजुषो रुः (८.२.६६))
नदीभ्यः (खरवसानयोर्विसर्जनीयः (८.३.१५)) पञ्चमी नद्याः
नदी ङसिँ (स्वौजस्॰ (४.१.२))
नदी अस् (उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
नदी आट् अस् (आण्नद्याः (७.३.११२))
नदी आ अस् (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
नदी आस् (आटश्च (६.१.९०))
नद्यास् (इको यणचि (६.१.७७))
नद्यार् (ससजुषो रुः (८.२.६६))
नद्याः (खरवसानयोर्विसर्जनीयः (८.३.१५)) नदीभ्याम्

नदीन् भ्याम् (स्वौजस्॰ (४.१.२))
नदीभ्याम् (नलोपः प्रातिपदिकान्तस्य (८.२.७)) नदीभ्यः
नदीन भ्यस् (स्वौजस्॰ (४.१.२))
नदीभ्यर् (ससजुषो रुः (८.२.६६))
नदीभ्यः (खरवसानयोर्विसर्जनीयः (८.३.१५)) षष्ठी नद्याः
नदीन् ङस् (स्वौजस्॰ (४.१.२))
नदीन् अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
नदी आट् अस् (आण्नद्याः (७.३.११२))
नदी आ अस् (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
नदी आस् (आटश्च (६.१.९०))
नद्यास् (इको यणचि (६.१.७७))
नद्यार् (ससजुषो रुः (८.२.६६))
नद्याः (खरवसानयोर्विसर्जनीयः (८.३.१५)) नद्योः
नदी ओस् (स्वौजस्॰ (४.१.२))
नद्योस् (इको यणचि (६.१.७७))
नद्योर् (ससजुषो रुः (८.२.६६))
नद्योः (खरवसानयोर्विसर्जनीयः (८.३.१५)) नदीनाम्
नदी आम् (स्वौजस्॰ (४.१.२))
नदी नुट् आम् (ह्रस्वनद्यापो नुट् (७.१.५४))
नदीनाम् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)) सप्तमी नद्याम्
नदी ङि (स्वौजस्॰ (४.१.२))
नदी आम् (ङेराम्नद्याम्नीभ्यः (७.३.११६))
नदी आट् आम् (आण्नद्याः (७.३.११२))
नदी आम् (आटश्च (६.१.९०))
नद्याम् (इको यणचि (६.१.७७)) नद्योः
नदी ओस् (स्वौजस्॰ (४.१.२))
नद्योस् (इको यणचि (६.१.७७))
नद्योर् (ससजुषो रुः (८.२.६६))
नद्योः (खरवसानयोर्विसर्जनीयः (८.३.१५)) नदीषु
नदी सु (स्वौजस्॰ (४.१.२))
नदीषु (आदेशप्रत्यययोः (८.३.५७)) सम्बोधनम् हे नदि
नदी सुँ (स्वौजस्॰ (४.१.२), सम्बोधने च (२.४.४७))
नदी स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
नदि स् (अम्बार्थनद्योर्ह्रस्वः (७.३.१०७))
नदि (एङ्ह्रस्वात् सम्बुद्धेः (६.१.६९)) हे नद्यौ
नदी औ (स्वौजस्॰ (४.१.२))
नद्यौ (इको यणचि (६.१.७७)) हे नद्यः
नदी जस् (स्वौजस्॰ (४.१.२))
नदी अस् (चुटू (१.३.७), तस्य लोपः (१.३.९))
नद्यः (इको यणचि (६.१.७७))

\n


Categories: Learning Sanskrit

Pages