Simple Sanskrit

Subscribe to Simple Sanskrit feed
G S S Murthy's blog in SanskritG S S Murthyhttp://www.blogger.com/profile/08672073311356820777noreply@blogger.comBlogger148125
Updated: 47 min 7 sec ago

Sanskrit blog: An ode to Google

Sat, 05/18/2013 - 11:32


गूगलगीता“कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।किं मूल्यं च भवेन्मित्र” “गूगलं शरणं व्रज” ॥ १ ॥ “अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।कुत्रास्ति वैद्यो मे ब्रूहि” “गूगलं शरणं व्रज” ॥ २॥“भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।किं मूल्यं च कियद्दूरं” “गूगलं शरणं व्रज” ॥ ३ ॥“चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।तत्र दर्शनवेला का” “गूगलं शरणं व्रज” ॥ ४ ॥“कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।वर्त्मना केन गच्छानि” “गूगलं शरणं व्रज” ॥ ५ ॥  “विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।     तत्र पश्याम किं मित्र” “गूगलं शरणं व्रज” ॥ ६ ॥ “कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।समानार्थपदं किं स्यात्” “गूगलं शरणं व्रज” ॥ ७ ॥  “चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।इच्छामि पठितुं ग्रन्थं” “गूगलं शरणं व्रज” ॥ ८ ॥ “शालायां सहपाठी मे कुत्राद्येति कुतूहलम्” ।“देशकालततायामं गूगलं शरणं व्रज” ॥ ९ ॥“चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।नवोद्योगं तदा सद्यः गूगलं शरणं व्रज” ॥ १० ॥ “विमानरेल्-यानानां गमनागमनेषु किम्।विलम्बं सूच्यते मित्र” “गूगलं शरणं व्रज” ॥ ११ ॥“कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।कुत्र सूर्यप्रखरता” “गूगलं शरणं व्रज” ॥ १२ ॥“नगरे मम का वार्ता मद्देशे वा महीतले ।क्रीडासु जनसौख्ये च” “गूगलं शरणं व्रज” ॥ १३ ॥“तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा” ।“सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज” ॥ १४ ॥“आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज” ॥ १५ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-72

Sat, 05/11/2013 - 16:18
हास्यसीकरः-७२

कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, “आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (T.V.) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः “ इति ।आरक्षकः अपृच्छत्, “ आश्चर्यम् खलु ! कुतः साक्षात्करम् आदाय न गताः?” ।पुरुषः प्रत्यवदत्, “ अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु “ इति ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: The horse and the goat

Sat, 05/04/2013 - 18:30
मेषतुरङ्गमौ

कृषीवलः कश्चन मेषमेकं तुरंगमं पालयति स्म घोषे ।हयस्तु रोगव्यथितोऽभवद्यदा स वाजिवैद्यं त्वरयानिनाय । १ ॥परीक्ष्य वैद्यः प्रसभं तुरङ्गम् ददौ च तस्मै अगदं सुखप्रदम् ।बभाण भोः कर्षक खादयेममश्वं सयत्नं दिवसत्रयावधि । २॥भवेत् तुरंगः सबलो निरामयो भवेः सहर्षस्त्वमपि प्रसन्नः ।यद्यन्यथा चेत् प्रसभं तुरंगमं हन्या न यावत् प्रसरेत् विषक्रिमिः । ३॥विषक्रिमिग्रस्तहयात् यथान्यजीवी न यात्यामयदोषशीलताम् ।तथाप्रमत्तस्त्वमिमं तुरंगमं दिनत्रयं पालय सादरं सखे ॥ ४ ॥    आदेशमेनं श्रुतवान् समीपे स्थितः स छागोऽवहितस्तदानीम् ।कृषीवलस्त्वश्वमखादयत् ततो निर्दिष्टरीत्या प्रथमे दिनेऽगदम् ॥ ५ ॥उवाच मेषो विनयान्वितोऽश्वं भो मित्र शीघ्रं सबलो भव त्वम् ।यद्यन्यथा चेत् प्रसभं हनिष्यसे उत्तिष्ठ यत्नेन जिजीविषुश्चेत् ॥ ६ ॥उत्थातुमश्वोऽपि मनाक् न येते तथैव चाभूदहनि द्वितीये ।मेषस्तृतीयेऽहनि भूय एव हयं कृपालुः समुपाजगाम ॥ ७ ॥उवाच कष्टं शृणु मित्र मद्वचो निस्संशयं त्वं यमसद्मगन्ता ।श्व एव तस्मात् कुरु सर्वशक्त्या उत्थातुमद्यैव भियात्र यत्नम् ॥ ८ ॥श्रुत्वा गिरस्तस्य हयस्तदानीं शनैः शनैः  भीरुतयोदतिष्ठत् ।मेषः सहर्षं व्यनदत्सुदीर्घं श्रुत्वागमत्तत्र कृषीवलस्तदा ॥ ९ ॥पादैः स्थितं तं तुरगं विलोक्य सानन्दमुच्चैरवदत् स्वभृत्यान् ।अयं मदीयस्तुरगो निरामयो श्व एव भूयात् स्वगृहे महोत्सवः ॥ १० ॥हनाम मेषं द्रुतमद्य पुष्टं पिबाम खादाम च मेषसूपम् । प्रायेण सत्कार्यपरा हि जन्तवो क्लिश्यन्ति लोके स्वकृतैः सुकर्मभिः ॥ ११ ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-71

Sat, 04/27/2013 - 12:14
हास्यसीकरः-७१

कुतूहली बालः मातरमपृच्छत्, “अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः?” इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, “वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति” इति । मुग्धः बालः सपदि प्रत्यवदत्, “अम्ब, इदानीमेव जानामि ’मातामह्याः सर्वे शिरोरुहाः कुतः पलिता” इति” इति ।
- - - - 
http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Prisoner's dilemma

Sat, 04/20/2013 - 17:37
चोरविकल्पः

द्वौ पुरुषौ किञ्चित् चौर्यं कृतवन्तौ इति संशयात् कारागृहे बद्धौ एकः एकस्मिन् कक्ष्यायां, अन्यः अन्यस्मिन् कक्ष्यायां स्तः । आरक्षकाः अनवाप्तपर्याप्तसाक्ष्याः   तौ अपराधिनौ इति घोषयितुं असमर्था भवन्ति । आरक्षकाः प्रत्येकं पुरुषं मिथः सम्बोधयन्ति, “रे, पश्य, यदि त्वम् अन्यपुरुषं विरुद्ध्य साक्ष्यं ददासि चेत्, त्वं मुक्तो भविष्यसि। अन्यः वर्षत्रयपर्यन्तं कारागृहवासं अनुभविष्यति” इति । द्वावपि पुरुषौ अन्यं विरुद्ध्य साक्ष्यं दत्तः चेत् तयोः वर्षद्वयपर्यन्तं कारागृहवासः भवति । द्वावपि अन्यं विरुद्ध्य साक्ष्यं न दत्तः चेत्, तदा तयोः एकवर्षपर्यन्तमेव कारागृहवासः । परन्तु अन्यतरोऽपि अन्यः किं चिन्तयित्वा किं करोति इति न जानाति । अस्मिन् संदिग्धसन्दर्भे तौ किं कुरुतः? अन्यं विरुद्ध्य साक्ष्यं देयं वा न वा? विकल्पाः कोष्टकरूपे अत्र निदर्शिताः
द्वितीयः प्रथमं विरुध्य साक्ष्यं न ददाति द्वितीयः प्रथमं विरुध्य साक्ष्यं ददाति प्रथमः द्वितीयं विरुध्य साक्ष्यं न ददाति द्वयोरपि एकवर्षम् प्रथमस्य वर्षत्रयम्द्वितीयः मुक्तः
प्रथमः द्वितीयं विरुध्य साक्ष्यं ददाति प्रथमः मुक्तः
द्वितीयस्य वर्षत्रयम् द्वयोरपि वर्षद्वयम् इयं चोरविकल्पाख्या (prisoner’s dilemma) समस्या स्पर्धावादाख्यायां (game theory) गणितशाखायां चर्चिता ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-70

Sat, 04/13/2013 - 17:49
हास्यसीकरः-७० क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च। तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, “भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे “ इति । स आर्यः अवदत्, “ अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् “ इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, “स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्स्व,“ इति । अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, “भोः, अहं त्रयस्त्रिंशत् वर्षात् लंडन्-नगरे जेम्स्-क्रैस्तालयस्य पूजकः आसम्” इति । द्वारपालकः तमवदत्, “ बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्स्व “ इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, “अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्?” । स्मयमानः द्वारपालकः अवोचत्, “ यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः,” इति ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Thus spake Timmu, the dull-headed.

Sun, 04/07/2013 - 06:42
मूढतिम्मुरुवाच वनकुसुमपरिमलघ्रायकः कस्तत्र वर्णरञ्जितशलभसौन्दर्यभोक्ता । अनपेक्ष्य संस्तुतिं प्रकृतिः प्रवृत्तास्ति आत्मतुष्ट्यै एव मूढतिम्मो ॥ ५६६ ॥
Inspired by the following Kannada verse from “Mankuthimmana kagga” by DVG.
ಆರಣ್ಯಕದ ಪುಷ್ಪಗಳ ಮೊಸುವರಾರುಆರಿಹರು ಪತಗದುಡುಪನು ಹುಡುಕಿ ಮೆಚ್ಚಲ್ಬೇರೊಬ್ಬರೆಣಿಕೆಯಿಲ್ಲದೆಯೆ ಪ್ರಕೃತಿ ತನಗೆಂದೆಸ್ವಾರಸ್ಯವೆಸಗುವಳೊ ಮಂಕುತಿಮ್ಮ || ೫೬೬ ||- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-69

Sat, 03/30/2013 - 16:14
हास्यसीकरः-६९ परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, “भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि ।“ तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, “भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्?” । भिक्षाम् कवलयन् परिव्राजकः अवदत्, “अयि भोः! निरशनव्रतं समाचरम्” इति ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: I am Fear

Sat, 03/23/2013 - 17:29


साहं भीतिःअज्ञानान्मे जननमभवत् पोषिता दुर्नयेननैराश्यं मे दयिततनुजः सोदरः कालनाशः ।शत्रुर्वृद्धेरलघुकरणं पीडने च प्रजानाम्साहं भीतिः हृदयवसतिः कण्टकं लोकमार्गे ।।नैकान् वर्णान् खलु सरटवत् धारयन्ती सलीलम् ।आख्यातास्मीत्यवहितमतिः कुत्रचित् गाढशङ्का ।आशाभङ्क्त्री  खलु युवजने ध्वंसिनी सुस्पृहायाः । लक्ष्यच्छेत्री सरलमनुजानन्वहं क्लेशयामि ॥एकः स्वामी यमहमनिशं संस्मरन्ती प्रवेपे ।येनाज्ञप्ता मनुजमनसः सत्वरं प्रद्रवामि ।ख्यातो लोके कुशलमतिभिः विश्वजेता विवेकः ।तं हे मर्त्याः व्रजत शरणं शून्यतां यामि शीघ्रम् ॥   
Inspired by the following passage:"I am fear. I am the menace that lurks in the path of life, never visible to the eye but sharply felt in the heart. I am the father of despair, the brother of procrastination, the enemy of progress, the tool of tyranny. Born of ignorance and nursed on misguided thought, I have darkened more hopes, stifled more ambitions, shattered more ideals and prevented more accomplishments than history could ever record.

"Like the changing chameleon, I assume many disguises. I masquerade as caution. I am sometimes known as doubt or worry. But whatever I'm called, am still fear, the obstacle of achievement.

"I know no master but one. It's name is understanding. I have no power but what the human mind gives me, and I vanish completely when the light of understanding reveals the facts as they really are, for I am really nothing."- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-68

Sat, 03/16/2013 - 18:12
हास्यसीकरः-६८ ब्रह्मदत्तः मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुम् अप्रार्थयत् । शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत् । खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, “ अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे शृण्वन्तु ।“ इति । पत्रमपावृत्य प्रथमं तत्र लिखितं स्वगतमपठत्, “रे मूर्ख ! मम श्वासाधारस्य आम्लजनकनालस्योपरि स्थितोऽसि” ।      
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Thus spake Timmu, the dull-headed.

Sat, 03/09/2013 - 20:45
मूढतिम्मुरुवाच प्रेक्ष्य किञ्चित्तमसि शुनकस्तु शङ्कयाकुत्रापि कोऽपि सुहृदस्तीति चिन्तयन् ।उन्मुखो भषति खलु तद्वदेवेति किम् भक्तिर्मनुष्यस्य मूढतिम्मो ॥४८४ ॥   
A rough rendering of the following verse from “mankutimmana kagga” of DVG
ಕತ್ತಲೆಯೊಳೇನನೋ ಕಂಡು ಬೆದರಿದ ನಾಯಿಎತ್ತಲೋ ಸಖನೊರ್ವನಿಹನೆಂದು ನಂಬಿ |ಕತ್ತೆತ್ತಿ ಮೋಳಿಡುತ ಬೊಗಳಿ ಹಾರಾಡುವುದುಭಕ್ತಿಯಂತೆಯೆ ನಮದು ಮಂಕುತಿಮ್ಮ || ೪೮೪ ||- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-67

Sat, 03/02/2013 - 17:35
हास्यसीकरः-६७ चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् ।
एका: “कच्चित् कुशली तव भर्ता?”
अन्या: “मम दौर्भाग्यात् सः दैवाधीनः अभवत् ।“
एका: “ सुभृशं खिन्नास्मि । किमभवत् ?”
अन्या:” एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः।“
एका: “पश्चात् त्वं किमकरोः ?”
अन्या: “ किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् ।“- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: The bird and the bee.

Sat, 02/23/2013 - 16:54
विहगः मधुकरश्च श्रमार्जितं त्वन्मधु मिष्टमन्येसुखेन मर्त्याः खलु चोरयन्ति । कथं न खिन्नोऽसि वदेति पक्षिणापृष्टः कदाचिन्मधुमक्षिका क्वचित् ।। मुष्णन्तु मूढाः मम किं मनुष्याकरोमि भूयो मधु लीलयाहम् । यावन्न मुष्टं मम कर्मदाक्ष्यंमुष्टं न किञ्चित् विहगेत्युवाच ।।
A rough rendering in Sanskrit of the following:The Bird Asked the bee:
"You Work So Hard To Make The Honey And Humans Just Take It Away,
Doesn’t it Make You Feel Bad?"
"No," Said The Bee, "Because They Will Never
Take From Me The Art Of Making It."- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-66

Sat, 02/16/2013 - 21:07
हास्यसीकरः-६६ द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ प्ररस्परमभाषेताम् ।वन्यसिह्मः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् ।नागरसिह्मः : किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।वन्यसिह्मः : उदरपोषणं तु कथमभवत्?नागरसिह्मः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।वन्यसिह्मः : कथमिदानीं बद्धः अभूः ?नागरसिह्मः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Abraham Lincoln-an anecdote

Sat, 02/09/2013 - 18:49
अब्रहां लिंकनः: एका आख्यायिका अब्रहां लिंकनः अमेरिकादेशस्य अध्यक्षपदवीं स्वीकृत्य प्रथमभाषणं कुरुते स्म । भाषमाणे लिंकने कश्चन गर्वितः धनिकः सभ्यः उत्थाय उच्चैरघोषयत्, “ भोः! कच्चिदवगतं त्वया यत् तव पिता ममाभिजनस्य चर्मकारः आसीत्?” इति । सर्वे सभ्याः तदवधीरणां निशम्य उच्चैः हसितुमारभन्त । परं तु लिंकनः धृतिमान् तं सभ्यमवलोकयन् गंभीरस्वरेण तमवदत्, “ मान्य! मम पिता भवदभिजनस्य उपानहः भवद्गृहे एव करोति स्म इत्यहं जानामि। अत्र सभायां अन्येऽपि भवेयुः येषां गृहेषु मम पिता उपानहः करोति स्म च । सहर्षं वदामि यत् मम पितृकृता उपानहः सदा अनर्घा अदोषाश्च आसन् । मम पिता उपानहां विधाता आसीत् । तत्कृत प्रत्युपानहोः तस्यात्मा एव प्रतिष्ठितः । उपानत्कर्मणि अहमपि निष्णातः । यदि भवान् वाञ्छति भवतः नूत्ने उपानहौ करोमि“ इति । दिग्भ्रान्ताः सर्वे सभ्याः उच्चैः करताडनमकुर्वन्,  सः भग्नगर्वः सभ्यः लिंकनस्य क्षमां च अयाचत ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-65

Sat, 02/02/2013 - 21:35
हास्यसीकरः-६५ विस्मयकरं किञ्चन ऐन्द्रजालिककर्म कृतवन्तं ऐन्द्रजालिकं इन्द्रजालवीक्षकः कश्चन सभायाम् संबोधयति, “भोः, कथम् इदं विस्मयकरं कर्म करोषि? मां एतत्कर्म शिक्षयसि किम्?” इति । ऐन्द्रजालिकः प्रतिवदति, “ अवश्यं शिक्षयामि, परं तु पश्चात् मया त्वं वध्यः भविष्यसि । अङ्गीकरोषि किम्?” इति । सभ्यः स्तोकं विचिन्त्य प्रतिवदति, “ बाढम्, मम भार्यां शिक्षय” इति ।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Thus spake Timmu, the dull-headed.

Sun, 01/27/2013 - 11:10
मूढतिम्मुरुवाच इष्टका जानाति किं सौधकल्पनाम्सा विगलिता तर्हि भित्तिछिद्रं स्यात् ।इष्टकामात्रमसि सृष्टिसौधेऽस्मिन्वक्रासि चेत् पतसि मूढतिम्मो ।। ५३२ ॥ (Translation of verse 532 of "Mankutimmana kagga" of Sri.DVG in Kannada) http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Hunour-64

Sun, 01/20/2013 - 11:47
हास्यसीकरः-६४ वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् । वृद्धः इतरमवदत्, “ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् ।“इतरः अपृच्छत्, “तद्भोजनालयस्य नाम किम्?”वृद्धः चिरमचिन्तयत्, परंतु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, “भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?“इतरः अपृच्छत्, “मल्लिका इति नाम किम्?” इति ।वृद्धः प्रत्यवदत्, “आम्, तदेव, उपकृतोऽस्मि” इति ।वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, “मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुरुताम्?” इति ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: A wise saying

Sun, 01/13/2013 - 16:26
सुभाषितम् प्रखररविमयूखैः फुल्लतां याति पुष्पम् परिणमति विशुद्धं स्वर्णमग्नौ प्रतप्तम् ।प्रभवति नवनीतं मन्थनात् तक्रपात्रे प्रबलबुधविवादात् जायते विश्वतत्त्वम् ॥
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-63

Sun, 01/06/2013 - 06:15
हास्यसीकरः-६३ कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, “प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु ।“ भार्या अवदत्, “प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया” इति । कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैंके (bank) स्वसंख्याने (account) न्यस्य तद्धनसमानमौल्यं चैकं (cheque) भर्तृनाम्नि  विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च ।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Pages