Simple Sanskrit

Subscribe to Simple Sanskrit feed
G S S Murthy's blog in SanskritG S S Murthyhttp://www.blogger.com/profile/08672073311356820777noreply@blogger.comBlogger341125
Updated: 9 hours 46 min ago

Sanskrit blog: Chandrika (A fairy tale)-56

Sat, 09/24/2016 - 15:57
चन्द्रिका-५६
स्मितमुखी दृढनिश्चयचोदितासपदि तां स्फुरदुज्ज्वलपादुकाम् ।
अधिरुरोह सलीलमलज्जितानृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥ x x x
अथ राजभटाः प्रफुल्लवक्त्रा:विनयोपेतगिरा समाह्वयन्स्तां । शृणु देवि पुरेशपुत्रपत्नी भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥
परिधानमनाविलं वसानादृढमच्छिद्रमितो नृपालयं त्वम् ।व्रज शीघ्रमुदेति भाग्यसूर्यःनृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog : Chandrika ( A Fairy tale)-55

Sat, 09/17/2016 - 16:05
चन्द्रिका-५५
तदनु चन्द्रिकया स्वमनोरथःस्खलितवाचि गदितः कलां प्रति ।यदि यते परिधातुमुपानहं सफलता खलु सिद्ध्यति भाति मे ॥ २०७ ॥
अयि कथं कृपणा मणिपादुकांसमधिरोढुमिमां त्वमिच्छसि ।प्रथितसत्कुलजोचितभाजनंभजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥
इति वचो भणितं कलया यदानृपभटैः प्रसभं समुदीरितं ।भवति नात्र मनागपि भिन्नताभृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog : Chandrika-54

Sat, 09/10/2016 - 16:29
चन्द्रिका-५४
नृपनिदेशधरैः हि तथैव साप्रकटिता नगरे मणिपादुका ।युवतयोह्ययतन्त समुत्सुकाःचरणमानमभूत्पृथु पादुकात् ॥ २०४ ॥
श्रुतवती नरपस्य सुनिश्चयं नृपभटान् स्वगृहं समुपाहरत् ।निजपदेन कला मणिपादुकाम् समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥
 रमयितुं जननीमिव निश्चिता अयतताप्तुमशक्यमुमा वृथा । क्व तनुगात्रवती मणिपादुका क्व पृथुलः चरणः जडयोषितः ॥ २०६ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale)-53

Sat, 09/03/2016 - 16:55
चन्द्रिका-५३
व्यलपतित्थमवेक्ष्य स पादुकां  कथमसि त्वमिहाद्य निशामुखे ।सुमपदां स्खलितां च विसृज्य ताम् उपवने पदपांसुभिरावृता ॥ १९९ ॥
कथय कुत्र गता मम हृत्प्रियाकथय नाम कुलं च मम स्त्रियाः ।कथमहो मम मानसनायिकांपथि विहाय वने न विलज्जसे ॥ २०० ॥
इतरथा न भवेत्तव दर्शनंमम गतिर्हि भवेदतिदुस्सहा । नियतिरेव गतस्य तु कारणंलघयसि त्वमिमां मम वेदनाम् ॥ २०१ ॥
निजसुतं विलपन्तमनर्गलंसपदि सान्त्वयितुं धरणीपतिः।अवदतात्मज मा भव कातरःप्रियतमामचिरात्परिणेष्यसे ॥ २०२ ॥   - - - -       http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-52

Sat, 08/27/2016 - 16:39
चन्द्रिका-५२
गृहमेत्य रथादवातरत्वनिता यावदहो तिरोऽभवत् ।सकलः रथवाजिसारथि-प्रकरस्तावदतर्क्यमायया ॥ १९५ ॥
वसनं च दुकूलनिर्मितं सहसा दासजनोचितं क्षणात् ।अभवत् मणिरत्नभूषणा-न्यगमन् मन्त्रहतान्यदृश्यताम् ॥ १९६ ॥
सुतया सह नर्तनाङ्गणात्गृहमेत्य स्वनियोगतत्पराम् ।अवलोक्य जहर्ष चन्द्रिकाम् गतशङ्का स्वसुखोद्यता कला ॥ १९७ ॥x x xनृपसुते स्मरमार्गणदारितेविलपति प्रिययैव विनाकृते ।नृपभटाः त्वरया हि समानयन्उपवनाधिगतां मणिपादुकाम् ॥ १९८ ॥- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chanrika ( A Fairy tale)-51

Sat, 08/20/2016 - 16:00
चन्द्रिका-५१
अथ नर्तनहर्षसागरेप्लवमाना सहसा ससाध्वसम् ।घनगर्जितवत्भयावहंव्यशृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१ ॥
हरिणीव मृगेन्द्रगर्जन-श्रवणार्ता झटिति प्रमुच्य सा ।नृपपुत्रकरं भयद्रुतातमनापृच्छ्य दधाव मण्डपात् ॥ १९२ ॥
अवितर्कितनिर्गमात् स्त्रियाः           मतिशून्ये भवति त्रिविक्रमे ।स्मृतवत्यथ देवतावचःस्वरथं प्राद्रवदार्तभामिनी ॥ १९३ ॥
अगमद्वनिता यदा द्रुतंव्यगलत् स्फाटिकवामपादुका ।त्वरयाकुलमानसाबला  न वराकी तदबुधत् रथोन्मुखा ॥ १९४ ॥
- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog : Chandrika ( A Fairy tale)- 50

Sat, 08/13/2016 - 16:13
चन्द्रिका-५० 
प्रसभं विचकर्ष किं बलात्अथवा तामवहत् भुजान्तरे ।स्वयमेव गतानुसृत्य तंक्षणमुग्धा न किमप्यवैत्तदा ॥ १८७ ॥
शशिरश्मिसुधाभिरञ्जितेवरनृत्योचितभव्यकुट्टिमे ।नृपपुत्रेण सहोत्सवप्रियासविलासं प्रणनर्त चन्द्रिका ॥ १८८ ॥
नृपपुत्रसुहृद्गणैः सहप्रणनर्तुः प्रमदाः समुत्सुकाः ।न हि कापि भवत्यतर्पितातरुणोत्साहमयं नृपाङ्गणम् ॥ १८९ ॥
किमुवाच मिथस्त्रिविक्रमःकिमभूतात्महृदुत्थमुत्तरम् ।सुतरां न हि वेत्ति चन्द्रिकाक्षणिके स्वर्गसुखे परिप्लुता ॥ १९० ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale) -49

Sat, 08/06/2016 - 15:48
चन्द्रिका-४९
मम हस्तपरिग्रहक्रियाम्अनुजानासि यदि प्रभावति ।प्रणयार्णववीचिसंप्लवेपरिषिक्तं कुरुषे चिराय माम् ॥ १८३ ॥
इति राजकुमारभाषितंश्रवणानन्दकरं निशम्य सा ।कुरुते न मतिं करार्पणेन निराकर्तुमनर्घयाचनाम् ॥ १८४ ॥
कदलीव मरुज्जवाहताप्रचकम्पे सुभृशं कृशोदरी ।अवलम्बनहेतुनेव तत्-करमाशु प्रणयी स जग्रहे ॥ १८५ ॥
तरुणस्य कराग्रसङ्गमात्पुलकस्वेदयुगेन बाधिता ।तनुसंहननश्रिया प्रिया
भजते कामपि नव्यभोग्यताम् ॥ १८६ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-48

Sat, 07/30/2016 - 16:11
चन्द्रिका-४८
नवयौवनशोभिनीः स्त्रियःमणिरत्नाभरणैर्विभूषिताः ।विचरन्तीः सविलासमुत्सुकाःनृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥
चपलामिव योषितां गणेस्फुरदाह्लादकरूपशालिनीम् ।दरहासविलासमोहिनींकमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥
स्मरसायकलक्ष्यतां गतःस शनैरायतलोचनोऽभ्यगात् ।स्मयमानमुखः प्रसन्नधीःअबलां वेपथुमूर्तमानिनीम् ॥ १८१ ॥
भयकारणमस्ति नात्र तेललने त्वत्सुहृदित्यवेहि माम् ।मम मानसराज्ञि देहि मेतव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-47

Sat, 07/23/2016 - 16:03
चन्द्रिका-४७
विटपाश्रितरम्यबर्हिणान्क्वचिदुन्मत्तनदच्छिलीमुखान् |क्वचिदायतशीतशाद्वलान्क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥
क्वचिदुल्लसदातवीरुधःफलभारानततुङ्गपादपान् ।विविधाकृतिवर्णमोहकैः कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥  
अवलोकयतोऽभितो मुदानृपपुत्रस्य हृदालयं द्रुतम् ।मदनः प्रविवेश लीलयावरयोषिदपाङ्गवर्त्मना ॥ १७८ ॥   
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale)-46

Sat, 07/16/2016 - 17:51
चन्द्रिका-४६
इति मातुरुदीरितेन सामनसि प्राप्तशमा कथञ्चन ।स्वविधावभजत्स्पृहामुमायुवतीनां सुपतिः वरेप्सितम् ॥ १७४ ॥
अथ राजसुते सुभूषितेस्ववयस्यैः सह नन्दनोपमम् ।कुसुमोपवनं समागतेजनघोषः गगनान्तमस्पृशत् ॥ १७५ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-45

Sat, 07/09/2016 - 15:37
चन्द्रिका-४५
यदि मां वरयेन्नृपात्मजःमम पूर्वार्जितपुण्यसञ्चयः ।भविता यदि नो तथापि मेरुचिरोद्यानवनाभिवीक्षणम् ॥ १७० ॥
इति मानसतर्कबोधिताःपरिणामे विगतस्पृहा मुदा ।व्यचरन्सविलासमङ्गनाः नरपालोपवने सुविस्मिताः ॥ १७१ ||
नरपोपवने कलामुमाभवती पश्यति चन्द्रिकानिभां ।किमु कामपि सुष्ठु भूषितां विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२ ॥
क्व भवेदिह दीनसेविकादिनकार्येषु रता गृहे भवेत् ।त्यज मोहमियं सुमध्यमानरपालस्य सुता हि कस्यचित् ॥ १७३ ॥
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale) -44

Sat, 07/02/2016 - 16:38
चन्द्रिका-४४
यदा शनैः साचलदायतेक्षणानितम्बिनी मन्दगतिः नृपालयम् ।तस्या अभिख्यामृतपानकाङ्क्षिणःसमागता राजपथस्य पार्श्वयोः ॥ १६७ ॥
तस्यां चरन्त्यां नृपपालिते वनेछायास्तरूणां सहसा तिरोहिताः ।तस्याः रुचा सज्जनसन्निधेः खलुप्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८ ॥   X X X
नृपपालितपुष्पवाटिकाम्अगमन् पौरसुताः निशामुखे ।अमरालयरोहणे रताइव लक्ष्योन्नतिसंप्रचोदिताः ॥ १६९ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale)-43

Sat, 06/25/2016 - 16:12
चन्द्रिका-४३
 वृथास्मदीयं सकलं प्रसाधनं विनापि तेनेयमुषेव दीपयेत् । इति ब्रुवाणा ललना हतेप्सिताः न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४ ॥
रथे नृपावाससमीपमागतेबद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।          वहन् रथस्थां वनितां स्वदृष्टिभिःराजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥
सौभाग्यवान्नूनमिमां मनोहरांनृपस्य पुत्रो वरयेत् हरीच्छया ।प्रजल्पतीत्थं बहुशो मिथो जनेरथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A Fairy tale)-42

Sat, 06/18/2016 - 16:28
चन्द्रिका-४२
दृष्टिप्रसूनैरनुरागसौरभैःतामर्चमर्चं प्रथमानयौवनाः ।स्थिताः ध्वजालङ्कृतराजपद्धतौ न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१ ॥
कन्याः कुलीनाः गुणरूपशोभिताःसमानकामाः नृपपुत्रलोभने ।म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां कुशेशयानीव दिनात्यये भृशम् ॥ १६२ ॥
कस्यात्मजेयं नरपस्य सुन्दरीकुतो रथोऽयं सुरयानसन्निभः ।यदीक्षते राजसुतो मनागिमांभवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-41

Sat, 06/11/2016 - 15:53
चन्द्रिका-४१
भूयाच्छुभं ते गमने मतिं कुरुप्रसन्नवक्त्रा स्मितदीप्तपद्धतिः । इति ब्रुवन्ती दिवमुत्पपात हप्रसह्य देवी चपलेव भास्वरा ॥ १५८ ॥  
मार्जालमापृच्छ्य सखायमुत्सुकारथान्तरे रत्नकुथास्तृते तले ।निविश्य सूतम् विनयेन चन्द्रिका दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९ ॥
रथ्यासु पौरा ललनां रथस्थिता-मवेक्ष्य तारापथतः समागताम् ।चन्द्रांशुमूर्तिं निशि विस्मयाकुलाःतां निष्कलङ्कां नियतं हि मेनिरे ॥ १६० ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika (A fairy tale)-40

Sat, 06/04/2016 - 15:52
चन्द्रिका-४०अलञ्चकारारुणवर्णचर्चितेतस्याः पदे स्फाटिकपादुकाद्वयंरम्यं घनीभूतशशिप्रभानिभम् ।कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५ ॥
अयं दिवास्वप्न इति भ्रमे स्थितांजगाद देवी स्मितपूर्वमादरात् ।वत्से रथेऽस्मिन् व्रज राजमन्दिरंतुरङ्गमैः सारथिना च सज्जिते ॥ १५६ ॥
परं तु मा विस्मर यामदुन्दुभिःनिशीथमाख्याति न यावदञ्जसा ।तावन्निवर्तस्व गृहं नृपालयात्
नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७ ॥ - - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-39

Sat, 05/28/2016 - 15:51
चन्द्रिका-३९
निमेषमात्रेण चकार चन्द्रिकां विभूषणैः पार्थिवकन्यकोचितैः ।महार्घरत्नैः खचितैः विभूषितांस्फुरत्प्रभामुष्टभवृन्ददीप्तिभिः ॥ १५१ ॥
सुवर्णसूत्रोतदुकूलनिर्मित-स्वरङ्गनारोचककञ्चुकावृता ।बभूव सद्यः लसदुज्ज्वलप्रभादेवीकृपाधारबलेन चन्द्रिका ॥ १५२ ॥
सामोदपुष्पैः सुविविक्तवर्णकैःशिरोरुहाः दक्षतयैव मण्डिताः ।नेत्रे सुपक्ष्मेऽभजतां मनोज्ञतांतस्याः सुनीलाञ्जनसूक्ष्मरेखया ॥ १५३ ॥
रक्तौष्ठलेपेन जपासुमत्विषं      सुखेन नारङ्गदलोपमाधरौ  अवापतुः चन्द्रिकयाप्यलक्षितौप्रसारयन्तौ तरुणार्कवद्द्युतिम् ॥ १५४ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-38

Mon, 05/23/2016 - 14:57
चन्द्रिका-३८ततक्ष कूष्माण्डमपूर्वकौशलात्निरूपयामास रथाकृतिं दृढाम् |निमेषमात्रेण रथं नृपोचितंदेवी महान्तं ससृजे स्फुरद्ध्वजम् ॥ १४७ ॥   
आदर्शवत् श्लक्ष्णमपूर्वसुन्दरंसुवर्णलिप्तप्रतिमाभिशोभितम् ।महेन्द्रयानोपममैक्षतोत्सुकानिमेषहीना रथमेव चन्द्रिका ॥ १४८ ॥
देवी तु तूर्णं चतुरो तुरङ्गमान्संस्पृश्य मार्जालधृतान् बिलेशयान् ।व्यकल्पयत् पुष्टबलिष्ठबन्धुरान्प्रकाशयन्ती निजहस्तलाघवम् ॥ १४९ ॥
विधाय सूतं सिततोत्रशोभितंतथाखुनैकेन दृढेन लीलया ।अन्येन योधं शितखड्गधारिणंरथाभिपालं तरुणं विनिर्ममे ॥ १५० ॥- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Chandrika ( A Fairy tale)-37

Sat, 05/14/2016 - 16:26
चन्द्रिका-३७
मार्जालमप्यादिशतार्द्रलोचनंषण्मूषकानानय जीविनो द्रुतम् ।वनात् बिलाद्वाथ महानसाद्वात्वत्स्वामिनीभाव्यसुखप्रदास्ते ॥ १४४ ॥
श्रुत्वा निदेशं स दधाव निष्कुटंकुतूहलोत्साहभयप्रचोदितः ।वक्त्रे गृहीत्वा पृथुलान् बिलेशयान् क्षणात्प्रतीयाय कृतार्थतोद्धतः ॥ १४५ ॥
अत्रान्तरे सम्भ्रमनुत्तसाध्वसाप्रत्यागता गेहवनात् गृहान्तरम् ।प्रगृह्य कूष्माण्डमखण्डवर्तुलंचन्द्रोपमं मन्दजवेन चन्द्रिका ॥ १४६ ॥
- - - -http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Pages