Simple Sanskrit

Subscribe to Simple Sanskrit feed
G S S Murthy's blog in SanskritG S S Murthyhttp://www.blogger.com/profile/08672073311356820777noreply@blogger.comBlogger341125
Updated: 9 hours 52 min ago

Sanskrit blog: An Ode to Scientific Spirit-14

Sat, 03/14/2015 - 17:10
विज्ञानसंस्कृतिः-१४
करसहस्राद् यन्त्रमेकं समर्थं हितैलखनिजाङ्गारबाष्पचालितमहोद्रुतगतौ प्रचलन्ति यानानि खे जलेभूमौ च यैर्निर्मितानि नैपुण्येनतान् कर्मयोगिनो संस्मृत्य सविनयम्
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १५ ॥- - - -   http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-13

Sat, 03/07/2015 - 16:40
विज्ञानसंस्कृतिः-१३
प्राकृतिकचयनाद् हि जीववैविध्यमितिविज्ञानपरिवर्तकं तत्त्वमकथयत्संगृह्य जन्तून्स्तदस्थ्यादिशेषान्श्चपाषाणभूतान्श्च विज्ञानशेखरःतं डार्विनं चार्लसाभिधं संस्मृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १४ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-12

Sat, 02/28/2015 - 15:54
विज्ञानसंस्कृतिः-१२
मैकेलफारडे इति नाम यस्य योचलदयस्कान्तस्य निकटे स्थिते लोह-सूत्रे तडिच्छक्तिरनुभूयते इतिप्रोद्योगपरिवर्तकं तत्त्वमकथयत्तं लोहकारस्य तनयं प्रशस्य भोः
तज्ज्ञानसम्स्कृतेस्ताडयत जयडिंडिमम् ॥ १३ ॥- - - -   http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-11

Sat, 02/21/2015 - 17:15
विज्ञानसंस्कृतिः-११डाल्टनमहाशयं यो मूलवस्तूनिसमगुणैः परमाणुभिः कृतानीत्युचित-भिन्नपरमाणुसंयोगात् हि संयुक्त-वस्तूनि सिध्यन्ति चेत्याह संस्मृत्यतद्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १२ ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-10

Sat, 02/14/2015 - 15:58
विज्ञानसंस्कृतिः-१०
एड्वर्डजेन्नरःजनपदप्रत्ययम्ह्यवलम्ब्य मारकमसूरिकावारणेसफलतां चिरयशश्चापि यो प्राप तम् रोगरोधकवेधनीजनकमभिनन्द्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ११ ॥- - - -     http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-9

Sat, 02/07/2015 - 11:50
विज्ञानसंस्कृतिः-९
लव्वासिएर्वर्यमाधुनिकरसशास्त्र-जनक इति विख्यातमाम्लजनको येनउत्पादितो स्वप्रयोगालये दीप्त-जलजनकतो जलं भवतीति दर्शितम्
स्मरन्तो तत्कृतेस्ताडयत जयडिंडिमम् ॥ १० ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-8

Sat, 01/31/2015 - 16:36
विज्ञानसंस्कृतिः-८जेम्स् वाट इति नाम यस्य प्रथितमस्तियो प्रयोगान् बहून् सूक्ष्मान्श्च निर्वर्त्यतप्तबाष्पच्छन्नशक्तिचालितयन्त्र-माविश्चकार यत् प्रोद्योगरङ्गस्यपरिवर्तने श्रेष्ठपात्राणि निरवहत्
तस्य वरसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ९ ॥- - - - 
http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-7

Sat, 01/24/2015 - 15:37
विज्ञानसंस्कृतिः-७
हार्वे उपाह्वं विलियमं चिकित्सकम्यो प्रयोगान् बहून् मनुजेषु निर्वर्त्यरक्तचलनक्रियां हृदयस्य पात्रमपिसम्यङ्न्यरूपयत् वैद्यशास्त्रप्रथन- मूलकारणमभूत् तं कृतज्ञाः स्मरत
तस्येष्टसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ८ ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-6

Sat, 01/17/2015 - 16:19
विज्ञानसंस्कृतिः-६
को न जानाति तं मतिमतामग्रणीम्न्यूटनं येन खलु चलननियमत्रयम्सार्वलौकिकतत्त्वरूपेण वर्णितम्येन सर्वद्रव्यगुणसमाकर्षणशक्ति-रन्योन्यमुत्पद्यते नियतमित्युक्त-
मथ तस्य संस्कृतेस्ताडयत जयडिंडिमम् ॥ ७ ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-5

Sat, 01/10/2015 - 16:03
विज्ञानसंस्कृतिः-५
दूरदर्शकयन्त्रमवलोकयत तत्रदृश्यते विश्वेऽस्मदल्पता सुविशदम्सूक्ष्मदर्शकयन्त्रमस्मच्छरीरस्यपृथुतां प्रदर्शयति शंसाम कुशलतां एकाग्रचित्ततामेवंविधानि यैः
सृष्टानि तेषां च ताडयत जयडिंडिमम् ॥ ६ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An Ode to Scientific Spirit-4

Sun, 01/04/2015 - 12:10
विज्ञानसंस्कृतिः-४
योहान्न केप्लरः ब्राहेउपाह्वस्य टैखोऽभिधेयस्य दीर्घकालात्तबहु-मूल्यावलोकनानाधृत्य सुन्दरंनियमत्रयं कथितवानहो भास्वरो ग्रहाणामिनपरिक्रमणगतिमुद्दिश्यविज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ५ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: New Year Aspirations

Sat, 12/27/2014 - 17:47
नववर्षशुभाकाङ्क्षा
परधर्मसहिष्णुता जने नववर्षे सततं प्रवर्धताम् ।निजधर्मविकासकर्मणि प्रभवेन्नान्यमतप्रदूषणम् ॥जिघांसां परित्यज्य मैत्रीं श्रयामोयुयुत्सां परित्यज्य सन्धेर्विधानम् ।मिथो प्रेम एवास्मदुच्छ्रायमार्गःन चेत्सर्वतो हानिमाप्नोति लोकः ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-109

Sat, 12/20/2014 - 16:30
हास्यसीकरः-१०९
कस्मिंश्चित् ग्रामे कयोश्चन दम्पत्योः सुतरां प्रतीपौ बालौ आस्ताम् । प्रायेण ग्रामे यदि किमपि दुष्टकर्म सम्पद्यते चेत् तत् तयोः बालयोः एव कर्म इति प्रथितमभवत् । तयोः व्यथितौ पितरौ ग्रामस्य अचिरमागतस्य पूजकस्य समीपं गत्वा स्वबालयोः विषये समभाषेताम् । पूजकः बालयोः प्रतीपत्वशमने साहाय्यं ददामीति सनिश्चयमकथयत्, “अलं शोकेन । बालयोः एकैकं मिथः संभाषयिष्ये” इति । प्रथमं भ्रात्रोः कनीयान् पूजकं समुपयातः ।पूजकः गम्भीरस्वरेन तमवदत्, “पीठे उपविश” इति । बालः तथाकरोत् ।पूजकः पुनरवदत्, “ईश्वरः कुत्र? वद” बालः मौनमाश्रयत् । पूजकः पुनः उच्चैः अपृच्छत्’ “ईश्वरः कुत्र? शीघ्रं वद” । तदापि बालः न किमप्यवदत् । पूजकः उच्चैस्तरपृच्छत्, “ईश्वरः कुत्र?” । तदा भीतः बालः सहसा गृहमधावत् ।  अग्रजस्य कोष्ठं प्रविश्य द्वारं प्यदधाच्च । कोष्ठे स्थितः अग्रजः अपृच्छत्, “किमभवत्?” इति । बालः ससाध्वसमवदत्, “इदानीं महति कृच्छ्रे पतितौ आवाम् । प्रायेण ईश्वरः नष्टः । पूजकः आवामेव कारणमिति मन्यते खलु” इति ।
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An ode to scientific spirit-3

Sat, 12/13/2014 - 15:25
विज्ञानसंस्कृतिः-३
प्रक्रियामुपयुज्य गणितस्य समुचितेप्रतिरूपसर्जने सरलतामवलम्ब्यदृष्टतथ्यानां निरूपणे सक्षमाःनूत्नतथ्याविष्करणनिपुणकल्पनाःविरचयन् विज्ञानसंस्कृतिर्विजयतेतत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३ ॥
विश्वस्य तत्त्वमतिसरलं च सुन्दरम्मन्यमानास्तस्य मार्गणे शेमुषीं सततं प्रयुज्य ते सत्यसंशोधकाः विज्ञानगतिपथे प्राचलन् रंहसानाशयन्तो मौढ्यजालानि सर्वथा तत्संस्कृतेरेव ताडयत जयडिंडिमम् ॥ ४ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: An ode to scientific spirit-2

Sat, 12/06/2014 - 16:21
विज्ञानसंस्कृतिः-२
किं ववौ मारुतो मन्थरं मृदुलं चकिं रवेरातपः प्रखरतां नाभजत्किं पुष्पवृष्टिरभवन्नभोमण्डलात् गलिलियो गलिलै यदा जनिमवाप्तवान्यस्माद् हि विज्ञानसंस्कृतिः प्रारभत
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ २ ॥ - - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: And ode to scientific spirit-1

Sat, 11/29/2014 - 16:09
विज्ञानसंस्कृतिः-१
कुत इदं कथमिदं किमिदं कदा कुत्रसम्पद्यते इति प्रविचार्य सर्वतः ।कृत्वा प्रयोगांश्च मेयानि मित्वा च मतिमूलतर्कविधिनैव संशोध्य खलु ।परिशीलनं विना न श्रद्धधानाश्च
विज्ञानसंस्कृतेस्ताडयत डिण्डिमम् ॥ १ ॥ - - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Song of a bullock cart driver-4

Sat, 11/22/2014 - 20:50
शाकटिकगीतम्-४
सन्ध्याकाले पक्षिणस्त्वात्मनीडान्आगच्छ्न्तो खे भृशं वाश्यमाणाः ।गच्छामोऽस्मद्वासभूमिं जवेनयातं गावौ यातमध्वान्त एतः ॥ १५ ॥
सायं गावः क्षेत्रभूम्याः निवृत्तातृप्ता शादं जग्धवत्यश्चिराय ।गोष्ठं यान्ति स्वार्भकान् द्रष्टुकामाः     यातं गावौ यातमध्वा सुखान्त्यः ॥ १६ ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Song of a bullock cart driver-3

Sat, 11/15/2014 - 17:27
शाकटिकगीतम्-३


शीतं शुभ्रं गोरसं पाययामिगत्वा गेहं मीलिताक्षौ चिराय ।गोशालायां निर्वृतौ पास्यथो यम् यातं गावौ यातमध्वा सुगम्यः ॥ ११ ॥
उत्तुङ्गाभ्यां सुन्दराभ्यां ककुब्भ्याम्जित्वा सर्वानुक्षजातिप्रधानान् ।युष्मद्वीर्यं स्थापितं ग्रामवर्गेयातं गावौ यातमध्वा सुगम्यः ॥ १२ ॥
वृत्ते जन्मन्याप्तकर्मानुबन्धैःअस्मिन्जन्मन्याप्तवन्तौ वृषत्वम् ।सत्कार्यैःवां प्रेत्य मर्त्यौ भवेताम्  यातं गावौ यातमध्वान्त एतः ॥ १३ ॥
मत्भार्याहं चैव युग्यौ भवावसंसाराख्ये वाहने दैवदत्ते ।कादाचित्कौ शॊकहर्षौ भजन्तौयातं गावौ यातमध्वान्त एतः ॥ १४ ॥
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Mahatma Gandhi and Prof.Peter

Sat, 11/08/2014 - 20:35


महात्मा गान्धिः तस्य प्राध्यापकः पीटरश्चमहात्मनः गान्धेः विषये काचन कथा प्रचलिता अस्ति । सा एवम् ।

यदा महात्मा गान्धिः विद्यार्थिदशायां लन्डन् नगरे न्यायशास्त्रमधीते स्म तस्य कश्चन प्राध्यापकः पीटरनामा गान्धिं मैत्रेण चक्षुषा न प्रेक्षते स्म । वारं वारं तत्प्राध्यापकेन सह वाग्युद्धं सम्भवति स्म । एकदा भोजनसमये भोजनशालायां गान्धिः यस्मिन् पीठे पीटरः भोजनं कर्तुमुद्यतः आसीत् तत्पीठस्य पार्श्वपीठे एव भोजनं कर्तुं प्रारभत । पीटरः गान्धिमुद्धतं मत्वा रुष्टः अवदत्, “भोः! विहगः सूकरश्च सहभोजनं न कुर्वाते” इत्यवदत् । गान्धिः झटिति “आर्य! अलं क्लेशेन, सत्वरमुड्डये” इति वदन् अन्यं दूरस्थपीठं गतः । प्राध्यापकः पीटरः अभिभूतः गान्धये प्रतीकारं कर्तुं समयं प्रतीक्षते स्म । कदाचन पीटरः गान्धिमपृच्छत्, “ गान्धे, यदि मार्गे चरतः तव एककाले वित्तमयस्यूत एकः ज्ञानमयस्यूत अन्यः गोचरौ भवतः चेत् कतरं स्यूतं स्वायत्तीकर्तुमपेक्षसे” इति  । गान्धिः झटिति प्रत्यवदत्, “आर्य! निस्संशयं वित्तस्यूतमपेक्षे” इति । जयशील इव पीटरः अवदत्, “ यदि त्वत्स्थाने  अहमभविष्यं तदा ज्ञानस्यूतमेव अवरिष्यम्” इति । गान्धिः विहस्य प्रत्यवदत्, “आर्य, यस्य यदप्राप्तं तदेव सः स्वीकरोति खलु” इति ।
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Song of a bullock cart driver-2

Sat, 11/01/2014 - 16:56
शाकटिकगीतम्-२


तोत्रेणाहं नैव वां ताडयामि तोत्रंह्येतत् भीषणार्थम् कदाचित् ।स्तोत्रप्रीता प्राणिनोऽपीति गाथायातं गावौ यातमध्वा सुदीर्घः ॥ ६ ॥
शम्भोर्यानं तूक्षसङ्घप्रधानःसर्वे पूर्वं मन्दिरे शङ्करस्य ।सेवन्ते यं तत्परं वै गिरीशम् यातं गावौ यातमध्वा सुदीर्घः ॥ ७ ॥
श्रेष्ठा पुम्सः पुंगवत्वं भजन्तेयुष्मद्भाग्यं जन्मना साधितं तत्। विध्यन्तौ वां रम्यशृङ्गैः सिताभ्रम्  यातं गावौ यातमध्वा सुदीर्घः ॥ ८ ॥
गेहे पत्नी प्रेक्षमाणा सकामम्श्रुत्वा युष्मद्किङ्किणीमञ्जुनादम् ।द्वार्यानेता मार्जनायाम्बुकुम्भम् यातं गावौ यातमध्वा सुगम्यः ॥ ९ ॥
ग्रामं गत्वा स्नापयाम्यापगायाम्स्वच्छे नीरे क्षालयित्वा शरीरे ।अध्वक्लेशं मुञ्चतं शीघ्रमेवयातं गावौ यातमध्वा सुगम्यः ॥ १० ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Pages