Simple Sanskrit

Subscribe to Simple Sanskrit feed
G S S Murthy's blog in SanskritG S S Murthyhttp://www.blogger.com/profile/08672073311356820777noreply@blogger.comBlogger341125
Updated: 9 hours 52 min ago

Sanskrit blog: Humour-108

Sat, 10/25/2014 - 17:20
हास्यसीकरः-१०८


ब्रह्मदत्तः वदान्यः इति प्रख्यातः आसीत् । कश्चन पुरुषः ब्रह्मदत्तस्य गृहमागत्य ब्रह्मदत्तमवदत्, “आर्य! भवान् दयालुः दानपरः इति मम श्रितिपथमागतम् । अतः त्वां प्रार्थयामि । कश्चन निर्गतिकः कुटुम्बकः कृच्छ्रे पतितः अस्ति । यदि सः स्वगृहस्य शतरूप्यकमितं मासिकभाटकं श्वः पूर्वं गृहस्वामिने न दास्यति चेत् गृहस्वामिना गृहात् कुटुम्बसहितं सः निष्कासितः भविष्यति । दीनबन्धुं भवन्तं तस्य साहाय्यं कर्तुं प्रार्थयामि । भवान् कृपां करोतु“ इति । वदन्नेव रोदितुमपि प्रारभत । ब्रह्मदत्तः तं आश्वास्य, “आर्य! निस्संशयं तव मित्रस्य साहाय्यं करोमि । भवान् कः?” आगन्तुकः रुदन्नेव अवदत्, “भोः! अहं तस्य गृहस्वामी अस्मि” ।   - - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Song of a bullock-cart driver

Sat, 10/18/2014 - 15:20


शाकटिकगीतम्
पश्यन्तौ श्यामाम्बुवाहान् मनोज्ञान्नीलाकाशे चञ्चलास्पष्टरूपान् । चूतान् नीपान् पुष्पितानत्र मार्गेयातं गावौ यातमध्वा सुदूरम् ॥ १ ॥
जिघ्रन्तौ आमोदवत्पुष्पवृन्दान्-वन्यान् रथ्यापार्श्वभागप्ररूढान्मन्ये शीघ्रं गच्छथो ज्ञातमार्गे यातं गावौ यातमध्वा सुदूरम् ॥ २ ॥
शृण्वन्तौ मद्गायनं हृत्समुत्थम् कांस्यग्रीवाकिङ्किणीनादतालम्मत्तालीझङ्कारतन्त्रीसमेतम्यातं गावौ यातमध्वा सुदूरम् ॥ ३ ॥
वारं वारं स्पृश्यमाणौ कराभ्याम्ईशास्तित्वस्मारणार्थं मयैवम् ।नो चेन्मन्दं पादरम्हो भवेद्वैयातं गावौ यातमध्वा सुदूरम् ॥ ४ ॥
घोषे बाला स्वागतं व्याहरन्तिशादं क्षेत्रादाहृतं नव्यमार्द्रंअस्मद्गेहे संभ्रमादत्स्यथो द्राक् । यातं गावौ यातमध्वा सुदूरम् ॥ ५ ॥
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-107

Sat, 10/11/2014 - 15:18
हास्यसीकरः-१०७


स्त्री: यदि तव भर्ता तुभ्यं न प्रियः, कुतः त्वं तं न जहासि? भार्या: यतः अहं मम भर्तुः प्रियं किञ्चिदपि कार्यं न चिकीर्षामि । - - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: So said Timmu, the dullheaded

Sun, 10/05/2014 - 20:28
मूढतिम्मुरुवाच


चिन्तयालं जना स्निह्यन्ति मयि नेतित्वं शिशुः जनकयोः स्पर्धी परेषाम् ।सर्वे कुटुम्बिनः समयस्तु कस्यास्तितव कथाश्रवणाय मूढतिम्मो ॥ ६४९ ॥
Translated from DVG”s “Mankutimmana kagga” in Kannadaಜಗವೆನ್ನ ಮುದ್ದಿಸದೇಕೆಂದು ಕೊರಗದಿರುಮಗುವು ಪೆತ್ತರ್ಗೆ ನೀಂ ಲೊಕಕೇ ಸ್ಪರ್ಧೀ |ಹೆಗಲಹೊರೆ ಹುಟ್ಟಿದರ್ಗೆಲ್ಲಮಿರುತಿರೆ ನಿನ್ನರಗಳೆಗಾರಿಗೆ ಬಿಡುವೊ ಮಂಕುತಿಮ್ಮ || ೬೪೯ ||- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-106

Sat, 09/27/2014 - 15:45
हास्यसीकरः-१०६


परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा तस्याः स्वामिनीं प्रार्थयत्,“भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि” ।
स्वामिनी सगर्वमपृच्छत्, “वृद्धिः कुतः?” ।
परिचारिका प्रत्यवदत्, “भवति, त्रीणि कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा” ।
स्वामिनी रुष्टा अपृच्छत्, “को वदति त्वं चतुरतरा इति?” ।
परिचारिका: “भवत्याः भर्ता । किञ्च अहं पाककलायामपि भवत्याः चतुरतरा”।
स्वामिनी: “मृषा खलु। को वदति इत्थम्?”
परिचारिका: “भवति! भवत्याः भर्ता एव । अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।“
स्वामिनी (सरोषम्) “ हञ्जे! पुनः मम भर्ता अवदत् किम्?”
परिचारिका: “नहि, नहि, भवत्याः निष्कुटपालकः अवदत्” ।
स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं परिचारिकाम् अपृच्छत्, “भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?”- - - -     http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Conversations between a couple-11

Sat, 09/20/2014 - 16:35
पतिपत्नीसंलापः-११


कच्चित् प्रिये स्मरसि ते भिषजा प्रदत्तेजानुव्यथाप्रशमके गुटिकेऽशितव्ये ।हन्ताधुना स्वतनुपालनकार्य एवस्वाधीनता यदि हि सिद्ध्यति सा प्रशस्या ॥ ४४ ॥
कच्चित् प्रिय स्मरसि मामकसुप्तिमोहःपूर्वं त्वयोपहसित:बहुशोऽधुना वै ।निद्राऽऽगता यदि तदा शिथिलं शनैश्चआलिङ्गति त्वमिव शान्तमनोजवह्निः॥ ४५ ॥ 
कच्चित् प्रिये स्मरसि नौ स्मरचापविद्धौसंश्लेषचुन्बनरतौ तरुणौ इदानीम् ।प्रेमानिलप्रशमितः मदनङ्गवह्निः प्रेम त्वहो त्वयि विवर्धत एव नित्यम् ॥ ४६ ॥
कच्चित् प्रिय स्मरसि मां नवयौवनस्थांमिष्टान्नभोजनसुखेष्वमिताभिलाषाम् ।अद्यत्वहं मधुरभक्ष्यसुखान्निवृत्ता तृप्ता तवातिमधुरैःस्मितपूर्ववाग्भिः ॥ ४७ ॥
कच्चित् प्रिये स्मरसि मे लवणे स्पृहां ताम्व्यज्ञापयः खलु हिताय न सेति पूर्वम् ।संप्रत्यहो मदशने लवणं निषिद्धम्लावण्यमेव तव देवि भवेदलं मे ॥ ४८ ॥
कच्चित् प्रिय स्मरसि सानुनयं त्ववादीःसंवाहयामि तव पादयुगं दिनान्ते ।क्लान्तास्म्यवश्यगृहकर्मभरेण नाथ तां संविदं सफलय प्रसभं गुणाढ्य ॥ ४९ ॥
कच्चित् प्रिये स्मरसि केशवपादयुग्मम्सर्वामयप्रशमकं शरणागतानाम् ।संस्मृत्य यत् प्रणतधीः ममतां विहाय   निद्रां भजस्व विमले ससुखं शयीथाः ॥ ५० ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-105

Sat, 09/13/2014 - 06:09
हास्यसीकरः-१०५


सहोदरी सहोदरं पृच्छति: भ्रातः, पितामह्यै तस्याः जन्मदिने किम् उपायनं दातुम् इच्छसि?सहोदरः: अहं तस्यै पादकन्दुकं दास्यामि ।सहोदरी: व्यर्थः खलु । सा पादकन्दुकेन किं वा करिष्यति?सहोदरः: यतः, सा मम जन्मदिने मह्यं भगवद्गीताम् अदात् खलु ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Conversations between a couple-10

Sat, 09/06/2014 - 15:24
पतिपत्नीसंलापः-१०


कच्चित्प्रिय स्मरसि पौत्रविवाहकालेमय्यामयेन नितरां परिपीडितायाम् ।शुश्रूषणे मम रतस्त्वमभूः नितान्तम् आवां विना परिणयः खलु सन्निवृत्तः ॥ ४१ ॥
कच्चित् प्रिये स्मरसि मां सुदृढद्विजालि-युक्तं कठोरचणकाशनकर्मदक्षम् । अद्यास्म्यहो चटकवत् रदनैर्विहीनःकालस्य निष्ठुरगतिः न कदापि रुद्धा ॥ ४२ ॥
कच्चित् प्रिय स्मरसि मां ससुखं पचन्तीम्विंशद्विधान् दशजनोचितभक्ष्यभोज्यान् ।अद्यावयोः अशनपाचनकर्म एवकृच्छ्रं प्रयासबहुलं प्रतिभाति हन्त ॥ ४३ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-104

Sat, 08/30/2014 - 16:51
हास्यसीकरः-१०४भार्या : अहं वाञ्छामि यत् अहं दिनपत्रिका भवेयम् । तदा सदैव तव अङ्कगता भवेयम् ।भर्ता: अहमपि वाञ्छामि यत् त्वं दिनपत्रिका भवेः । तदा प्रतिदिनं नूतना भवेः । - - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Conversations between a couple-9

Sat, 08/23/2014 - 15:32
पतिपत्नीसंलापः-९
कच्चित् प्रिय स्मरसि हर्षमदप्रणुन्नःपौत्रोत्सवेऽभ्युपगते भगवत्प्रसादात् । उच्चैर्वदन् श्रुणुत पौत्रपितामहोऽस्मी-त्यास्वाद्यभक्ष्यनिकरान्व्यतरः परेषु ॥ ३८ ॥
कच्चित्प्रिये स्मरसि मामवदः सखेदम्दौहित्रपौत्रगणजातसुखानुबद्ध- ॥चित्तस्य मे स्वभवनानि गतेषु तेषुतै रिक्तमालयमहो नरकं हि मन्वे ॥ ३९ ॥
कच्चित्प्रिय स्मरसि सान्त्वनमाददास्त्वं पक्षी पतत्रयुगमाप्य जहाति मातुः ।नीडं यथा खलु तथापि जहात्यपत्यम्मातुर्गृहं स्वगृहनिर्मितिमग्नचित्तम् ॥ ४० ॥
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-103

Sat, 08/09/2014 - 16:02
हास्यसीकरः-१०३
पतिः पत्नीं वदति, “प्रिये! अहं मममित्रमेकम् अद्यरात्रौ भोजनाय आह्वयम्” इति ।
पत्नी वदति, “अरे, किमिदम्? मत्तोऽसि किम्? गृहमव्यवस्थितं वर्तते । वस्त्राणि क्रेतुमापणं जिगमिषामि । अद्य भक्ष्यभोज्ययुतभोजनपाके मम आस्था नास्ति ।“पतिः, “अहं सर्वं जानामि” ।पत्नी , “अथ कुतः मित्रम् आह्वयः?”
पतिः, “ मुग्धः सः परिणेतुं वाञ्छति” ।- - - - 
http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog:Conversations between a couple-8

Fri, 07/25/2014 - 16:41
पतिपत्नीसंलापः-८
कच्चित् प्रिय स्मरसि दारपरिग्रहार्थंपुत्रस्य बन्धुसुहृदाप्तजने विचिन्वन् पुत्रे त्वदुद्धृतवधूषु न जातमोहेपुत्रानुरक्तललनां स्व्यकरोः स्नुषात्वे ॥ ३६ ॥
कच्चित् प्रिये स्मरसि मातृधरां विहायपत्न्या सह स्वनवसौख्यसुधावसिक्तः ।पुत्रो विमानगमनोत्सुकतापरीतः
मात्रा त्वया सह न किञ्चिदपि न्यगादीत् ॥ ३७ ॥- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-102

Fri, 07/11/2014 - 15:22
हास्यसीकरः-१०२
कार्-याने उद्योगालयं गच्छन् नर एकः स्वोद्योगालयस्य निकटे कार्-यानसंस्थापनाय स्थलम् मार्गयति स्म । कुत्रापि अवकाशः न दृष्टः । स्वकार्याय त्वरितं गन्तुकामः ईश्वरं यावत् प्रार्थयत्, “प्रभो! त्वत्कृपया यदि कार्-संस्थापनाय अवकाशः लभ्यते चेत् अद्य प्रभृति धूमपानं न करिष्यामि” इति तावदेव अवकाशः दृष्टः । झटिति ईश्वरमवदत्, “विस्मर यदुक्तम् प्रभो । इदानीमेव अवकाशः लब्धः” इति ।  
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Conversation between a couple-7

Fri, 07/04/2014 - 20:46
पतिपत्नीसंलापः-७
कच्चित्प्रिये स्मरसि नृत्यदभूतकान्तिःपुत्रोत्सवेऽभ्युपगते सुतमात्ममूर्तिम् ।अङ्के निवेश्य तव मानसराजहंसम्बालानवाप्यवचनैस्समभाषथास्त्वम्॥३३ ॥
कच्चित् प्रिय स्मरसि तानि मनोहराणिवर्षाण्यपत्ययुगलालनशिक्षणेषुप्रत्यूहकण्टकशतैरवरुद्धमार्गेतूर्णं क्षणार्धसमये इव यापितानि ॥ ३४ ॥
कच्चित् प्रिये स्मरसि तावकदुःखधाराम्पुत्र्यां नवोढललनोचितदीप्तिमूर्त्याम् ।भर्त्रा सह श्वशुरगेहमभि प्रयान्त्याम्
हर्षावगुण्ठनतिरोहितनैजरूपाम् ॥ ३५ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-101

Fri, 06/27/2014 - 20:29
हास्यसीकरः-१०१
वैद्यः चिकित्सां लब्धवता केनचन सह दूरवाण्यां समलपत्, “भोः, त्वया दत्तं वित्तकोषपत्रं(cheque) पुनरायातम् खलु” इति ।
चिकित्सितः प्रत्यवदत्,”क्षम्यतां, मम जानुवेदना च पुनरायाता” इति ।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Conversation between a couple-6

Fri, 06/20/2014 - 16:45
पतिपत्नीसंलापः-६
कच्चित्प्रिये स्मरसि रोषपरीतनेत्राम् केनापि कारणलवेन मयि प्ररुष्टाम् ।त्वां निन्दनैर्बहुविधैः खलु मां तुदन्तीम्पुत्री स्वमुग्धवचनैरकरोत् हसन्तीम् ॥ ३१ ॥
कच्चित्प्रिय स्मरसि नागरपाठशालाम् यावद्गता तव सुता खलु तावदेवमां पाककर्मणि रतां प्रसभं बलाढ्यः
शय्यागृहं  ह्यगमयस्त्वमदम्यकामः ॥ ३२ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-100

Fri, 06/13/2014 - 16:10
हास्यसीकरः-१००
काचन कार्-यानचालिका राजपथे आरक्षकेण अवरुद्धा । अवरोधकारणं पृष्टः आरक्षकः प्रत्यवदत्, “आर्ये! अनुज्ञातवेगमतिक्रम्य वाहनं त्वया चालितम् । कृपया दर्शय तव चालनानुज्ञापत्रम् । स्त्री प्रत्यवदत्, “आर्य! मम अनुज्ञापत्रं नास्ति । त्रिवारं मदिरापानमत्ता कार्-यानचालनमकरवमिति कारणात् आरक्षकैः तत् स्वायत्तीकृतम्”। चकितः आरक्षकः अपृच्छत्,”आर्ये! कृपया वाहनस्य पञ्जीसंख्यापत्रं दर्शय” इति । स्त्री प्रत्यवदत्, “तन्नास्ति, अहं इमं कारयानमपाहरम् “। आरक्षकः,”अपाहरः?”स्त्री, “बाढम्, न केवलं कार्-यानमपाहरं, तस्य स्वामिनं हत्वा तस्य कायं खण्डशः निकर्त्य कार्-यानस्य सामग्रीकोष्ठे न्यवेशयम्” आरक्षकः नितरां भ्रान्तः स्वनियामकेन सह दूरवाण्या समलपत् साहाय्यं प्रार्थयच्च । क्षणात् नियामकः कतिचन आरक्षकैः सह तत्र वाहने आगच्छत् । तां स्त्रियं स्वगुलिकास्त्रस्य लक्ष्यं कृत्वा अवदत्,”कृपया यानादवातर”।स्त्री अवातरत् अपृच्छच्च,”आर्य, किमापतितम्?” नियामकः,” आर्ये! मम आरक्षकः वदति,”त्वं, कार्-यानमपहृत्य तस्य स्वामिनमहन्” इति । दिग्भ्रान्ता इव स्त्री अवदत्, “किं?किं? अहमहनम्? “ इति। नियामकः अवदत्, “कार्-यानस्य सामग्रीकोष्ठम् अपावृणु” इति । स्त्री सामग्री-कोष्ठम् अपावृणोत् । सामग्री कोष्ठे न किञ्चिदपि वस्तु अवर्तत । नियामकः, “कच्चिदिदं तव यानम्?”स्त्री, “आर्य! निःसंशयम्” ।  “तर्हि तव यानस्य पञ्जीसंख्यापत्रं दर्शय” ।“पश्य, इदं पत्रम्” इति वदन्ती पञ्जीसंख्यापत्रमदर्शयत्।“तव चालनानुज्ञापत्रं दर्शय।“हस्तस्यूतात् अनुज्ञापत्रमुद्धृत्य स्त्री अदर्शयत् ।नियामकः उद्भ्रान्तः तामवदत्, “आर्ये! क्षमस्व माम् । आरक्षकः मामवादीत् त्वं कारयानमपहृत्य, कार्-यानस्वामिनं हत्वा, तस्य कलेवरं निकर्त्य यानस्य सामग्री-कोष्ठे न्यवेशयः । त्वया साकं न कार्-यानपञ्जीसंख्यापत्रं न च तव चालनानुज्ञापत्रं वर्तेते इति ।“
स्त्री, “अहो! अनृतस्य पराकाष्ठा खलु । स च प्रायेण अवादीत् यदहं अनुज्ञातवेगमतिक्रम्य कार्-यानचालनमकार्षं च?”- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog:Conversation between a couple-5

Fri, 06/06/2014 - 17:28
पतिपत्नीसंलापः-५
कच्चित्प्रिये स्मरसि मां तदनु न्यगादीःग्रामात्पुरं जिगमिषुं विभवार्जनाय ।मा गा हृदीश न भवेयमहं विना त्वाम्इत्यन्वगाश्च झटिति प्रणयार्दितं माम् ॥ २५ ॥
कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थाम् विद्यार्जने शिथिलिताध्यनप्रवृत्तिम् ।संचोदयन् बहुमुखैः प्रविलोभनैर्माम्भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम् ॥ २६ ॥
कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहेसूतिव्यथाजनितरूक्षवचांसि तानि ।संश्रुत्य ते प्रलपितानि नियम्य हासम् शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम् ॥ २७ ॥
कच्चित्प्रिय स्मरसि मोहकमर्भकं मेपार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम् ।हर्षापगारयनिमज्जनधौतचित्तां मां प्रेमपूरितदृशा नितरामचूषः ॥॥ २८ ॥
कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः यासु त्वया सह सुतां ज्वरपीडिताङ्गीम् ।अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः शीर्षस्य तापशमने बहुशोऽयते‍ऽहम् ॥ २९ ॥
कच्चित्प्रिय स्मरसि सोत्सवसंभ्रमान् तान्पादौ परिक्षिपति च स्मयतेऽधुनेति ।अद्यात्मनैव विचलत्युरसेति पुत्री
पद्भ्यां स्वयं चरति संप्रति जल्पतीति ॥ ३० ॥  - - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-99

Sat, 05/31/2014 - 15:59
हास्यसीकरः-९९
कदाचित् देशस्य वित्तमन्त्री नगरोपवने वायुसेवनार्थं विचरति स्म । सहसा गुल्मान्तरात् कश्चन छद्मवेशधरः गुलिकास्त्रधारी अदृश्यत । सः मन्त्रिणः वदनं गुलिकास्त्रस्य लक्ष्यं कुर्वन् अवदत्, “भोः, सपदि तव यद्यद्धनं वहसि तत्सर्वं मह्यं देहि ।न चेत् त्वां हनिष्यामि” इति । अभीतः मन्त्री प्रत्यवदत्, “ अहं तावत् देशस्य वित्तमन्त्री । जानासि किम्?” इति । गुलिकास्त्रधारी अवदत्, “यदि तत् तथ्यं तर्हि ममैव धनं मह्यं प्रतिनिवृत्यताम् “ इति । - - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Conversation between a couple-4

Sat, 05/24/2014 - 15:58
पतिपत्नीसंलापः-४
कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नम्पत्रं विलिख्य विरचय्य च पुष्पमेकम्वक्रीकृताक्षरविभाव्यकराग्रकम्पम्संप्रेषितं यदभवन्मदुपोपधानम् ॥ १९ ॥
कच्चित्प्रिय स्मरसि ते पदवीधरत्वम्संश्रुत्य हर्षपुलकैः विनिगूह्य लज्जाम् ।त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां माम्द्वार्येव सुस्मितकरैरबलामबध्नाः ॥ २० ॥
कच्चित्प्रिये स्मरसि मज्जनके त्वदीयम्गेहं मया सह गते पितरं मदर्थम् ।त्वां याचितुं तव पिता तरसाह्वयत्त्वाम् ।स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम् ॥ २१ ॥
कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैःसम्प्रेक्षितः परिणयोत्सववेदिकायाम् ।उच्चैर्ध्वनत्यविरतं शुभवेदघोषेकर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम् ॥ २२ ॥
कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वम्वेदीं हुताशनवतीं परितः चरन्ती ।त्वत्पाणिना मृदुतमेन मदीयपाणिम्गाढं निपीड्य किमपि व्यलिखः नखाभ्याम् ॥ २३ ॥
कच्चित्प्रिय स्मरसि कामवशं गतस्त्वम्दाम्पत्यजीवनसुखप्रथमप्रभातेक्लान्तां विमुच्य शयनं गमनोद्यतां माम्
उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः ॥ २४ ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Pages