Simple Sanskrit

Subscribe to Simple Sanskrit feed
G S S Murthy's blog in SanskritG S S Murthyhttp://www.blogger.com/profile/08672073311356820777noreply@blogger.comBlogger341125
Updated: 1 week 3 days ago

Sanskrit blog: New Year Greetings

Tue, 12/31/2013 - 16:52
नववर्षशुभाकाङ्क्षाआशासेऽस्मिन्प्रथमदिवसे हायने जायमाने ।विश्वेशो वो वितरतु शुभान्यन्वहं नूत्नवर्षे ।सत्संकल्पाः ससुखफलतां यान्तु देवप्रसादात् ।  
स्वैरं नृत्यत्वनुदिनमनिशं मन्दहासो मुखेषु ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-88

Sat, 12/28/2013 - 15:31
हास्यसीकरः-८८क्रिस्तदेवालयस्य अर्चकः साप्ताहिकप्रवचनाय देवालये जनान् समीक्षते स्म । चिराय एक एव कर्षकः आगतः ।अर्चकः तमपृच्छत्, “भोः अद्य मम प्रवचनाय एक एव आगतोऽसि । किमहं प्रभाषै उत न?” इति । कर्षकः सप्रश्रयं प्रत्यवदत्, “ भगवन्, भवान् किमित्थं पृच्छति ? कुक्कुटपरिवेषणसमये यदि एक एव कुक्कुटः आगच्छति तदा तस्मै खाद्यं न देयं किम्?” इति । कर्षकप्रत्युत्तरेण विस्मितः अर्चकः तमवदत्, “भोः, तव विवक्षितमवगतम् । अवहितः शृणु” इत्युक्त्वा निरर्गलं सार्धघटिकापर्यन्तं बभाषे । अन्ते अर्चकः कर्षकमपृच्छत्, “भोः, कच्चिन्मम प्रवचनं समीचीनम्?” इति । तदा कर्षकः प्रत्यवदत्, “भगवन्, खादनसमये यदि एक एव कुक्कुटः समागतः तदा सर्वं द्रोणप्रमाणं खाद्यं तस्मै न समर्पयामि खलु “इति ।
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Happiness

Sat, 12/21/2013 - 11:37
तुष्टिःचित्रशलभमभिधावसि चेत्त्वम् तं ग्रहीष्यसि कदापि न मित्र ।त्वं भविष्यसि यदा निरपेक्षः स्वैरमेव   स उपैति खलु त्वाम् ॥तद्वदेव यदि वाञ्छसि तुष्टिं तामनुसृत्य कदापि न गच्छेः ।यद्युदास इव तिष्ठसि चेत्त्वाम् स्वेच्छया खलु सा त्वभिधावेत् ॥
A rough rendering in Sanskrit of the following:
“Happiness is a butterfly which, when pursued, is always beyond our grasp, but which if you will sit down quietly, may alight upon you.”- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit:Humour-87

Sat, 12/14/2013 - 15:54
हास्यसीकरः-८७स्त्री पत्या सह कलहमकरोत् । तदनु स्वमातरं दूरवाण्या अवदत्, “अम्ब, पुनः मम भर्ता मया सह कलहमकरोत् । तेन सह जीवनं दुष्करम् । तव गृहमागमिष्यामि” इति । माता अवदत्,”वत्से, त्वमत्र आगमिष्यसि चेत् सः सुखी एव भविष्यति । तस्य अपराध: दण्डनीयः । अहमेव तत्र आगमिष्यामि । मम उपस्थित्या एव तं दण्डयिष्यसि” इति ।
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Homage to Mandela

Sat, 12/07/2013 - 21:14
मण्डेलाश्रद्धाञ्जलिःयो जज्ञेऽसितवर्णभूपतिकुले ऽवाङाफ्रिकाभूस्थले ।येन श्वेतजनप्रशासनविरोधार्थं कृतो विग्रहः ।यो श्वेतैः बहुवत्सरावधि तनुद्वीपे निबद्धो ऽभवत् । यो पश्चात् सकलैः सितासितजनैः देशेषु सम्भावितः ।राष्टाध्यक्षपदं मुदा सविनयं धीरेण येनार्जितम् ।नोबेल्भारतरत्नपदवीभाग्यो महान् निःस्पृहः । गान्धीमार्गचरः सदास्मितमुखो लोकप्रियः सज्जनः ।
मण्डेलाख्यमहोदयाय भवते श्रद्धाञ्जलिं दद्महे ॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Thus spake Timmu the dull-headed

Sat, 11/30/2013 - 14:53
मूढतिम्मुरुवाचबाह्ये जनासक्तिरन्तर्विरक्तिस्तु ।बाह्ये तु कर्मरतिरन्तर्निरीहा ।अन्तरवधीरणा संस्कृतिभरो बहिःयोगमार्गः स खलु मूढतिम्मो ॥
From DVG’s “Manku timmana kagga” in Kannada:ಹೊರಗೆ ಲೋಕಾಸಕ್ತಿಯೊಳಗೆ ಸಕಲವಿರಕ್ತಿಹೊರಗೆ ಕಾರ್ಯಧ್ಯಾನವೊಳಗುದಾಸೀನ |ಹೊರಗೆ ಸಂಸ್ಕೃತಿಭಾರವೊಳಗದರ ತಾತ್ಸಾರ ವರಯೋಗಮಾರ್ಗವಿದು ಮಂಕುತಿಮ್ಮ|| ೭೭೩||- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-86

Sat, 11/23/2013 - 12:19
हास्यसीकरः-८६त्रयः पुरुषाः कस्मिंश्चित् निर्जने द्वीपे नौकाघातात् क्षिप्ता अभवन् । किंकर्तव्यतामूढाः ते ईश्वरं प्रार्थयामासुः । काले गते कश्चन दिव्यरूपधारी पुरुषः प्रत्यक्षः अभूत् । सः तानवदत्,” भोः, ईश्वरेण प्रेषितोऽहम् । प्रीतोऽस्मि, एकैकः एकं वरं वृणीताम् “इति । प्रथमः अवदत्, “देव, मां मद्गृहं प्रहिणोतु” इति । तथैव अभवत् । द्वितीयोऽपि तथैव स्वगृहमगच्छत् । देवेन पृष्टः तृतीयः स्मितवदनः अवदत्, “देव, अहमेकाकी अस्मि । अत्र मम मित्रयोः पुनरागमनं वाञ्छामि” इति । हन्त! ते मित्रे पुनरागते ।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: A lyric of Rumi

Sat, 11/16/2013 - 13:21
रूमिरुवाचमदुत्कटेच्छा  विहगस्य कूजितैः प्रशान्तिमाप्नोत्यहमप्यमेयम् ।प्रहर्षमाप्नोमि विहंगवन्मन्-मुखेन गायेः किमपीश्वर त्वम् ॥A rough rendering ofBirdsong brings reliefto my longingI'm just as ecstatic as they are,but with nothing to say!Please universal soul, practicesome song or something through me! 
Jalal ad-Dīn Muhammad Rumi- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-85

Sat, 11/09/2013 - 16:57
हास्यसीकरः-८५कदाचित्  न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् ।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, “भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?” इति । वृद्धः अवदत्, “का क्रीडा?” न्यायवादी : प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं  न दास्यसि तदा मह्यं पञ्चाशत्‍रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं  प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?”
वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, “ चन्द्रः भूम्याः कियद्दूरे अस्ति?”। वृद्धः ,”न जाने” इति वदन् तस्मै पञ्चाशत्‍रूप्यकाणि  ददौ । वृद्धः न्यायवादिनमपृच्छत्, “ आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?” । न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पंचशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, “तव प्रश्नस्य उत्तरं किम्?” । वृद्धः, “न जाने” इति वदन् न्यायवादिने पञ्चाशत्‍रूप्यकाणि दत्त्वा सुखं सुष्वाप ।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Dipavali Greetings

Sat, 11/02/2013 - 12:25
दीपोत्सवशुभाकाङ्क्षाप्रज्वाल्यान्तः प्रदीपं सकलमतमनुष्या समा इत्यमोघम् ।अन्धश्रद्धाभिजातं मतजनितमदं नाशयित्वान्धकारम् ।पर्वानुष्ठानकार्ये प्रकृतिपरिसरादूषणं पोषयित्वा ।
दीपावल्याख्यपर्व प्रदिशतु सकलक्षेमसौभाग्यभूतिम् ।।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-84

Sat, 10/26/2013 - 16:39
हास्यसीकरः-८४कश्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, “ बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति । तुष्टाः प्राश्निकाः तमवदन्, “भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्” इति । कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, “भोः, ब्रूहि, किं पृष्टम्?” । सः अवदत्, “प्रश्नाः गोप्याः । वक्तुं न शक्नोमि” इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, “प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि” इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत्। प्रगल्भः धर्मसिंहः तान्युत्तराणि कंठगतान्यकरोत् ।
यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, “ तव जन्म कदा अभवत्?” इति । सः प्रत्यवदत्,  “कतिपयवर्षेभ्यः प्राक् प्रारब्धः  सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । उत्तरेण विस्मितः तमपृच्छत्, “ तव पितुर्नाम किम्?” इति । सः प्रत्यवदत्, ““ बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । रुष्टः प्राश्निकः अपृच्छत्, “ भ्रान्तः असि किम्?” इति । सः विनीतः प्रत्युवाच  “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति ।- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Child's smile

Sat, 10/19/2013 - 20:11
शिशुस्मितम्लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं मनोज्ञम् ॥
सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत्  केतकपुष्पगन्धात् ।वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ 
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-83

Sat, 10/12/2013 - 15:30
हास्यसीकरः-८३मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् ।  विपणी तच्चौर्यं नापश्यत्  । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।
- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Thus spake Timmu the dull headed

Fri, 10/04/2013 - 16:41
मूढतिम्मुरुवाचज्ञात्वा स्वबलमितिं  ज्ञात्वा स्व गुणगणम् बाह्यस्थितिं चैव सूक्ष्मं विलोक्य ।कार्यस्यपरिधिमनतिक्रम्य  कुर्यात्धन्यः स धीरो हि मूढतिम्मो ॥
From DVG’s “Manku timmana kagga” in Kannada:ತನ್ನ ಶಕ್ತಿಯನಳೆದು ತನ್ನ ಗುಣಗಳ ಬಗೆದುಸನ್ನಿವೇಶದ ಸೂಕ್ಷ್ಮವರಿತು, ಧೃತಿದಳೆದುತನ್ನ ಕರ್ತವ್ಯಪರಿಧಿಯ ಮೀರದುಜ್ಜುಗಿಸೆ
ಪುಣ್ಯಶಾಲಿಯ ಪಾಡು ಮಂಕುತಿಮ್ಮ || ೫೭೬ ||- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-82

Sat, 09/28/2013 - 16:34
हास्यसीकरः-८२त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म । प्रथमः : अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।द्वितीयः : तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।तृतीयः : युवां कुतः कत्थेथे? शृणूतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः। तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं  सार्धचतुर्वादनसमय एव उपैति।
- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Reflexions on Voyager space ship

Sat, 09/21/2013 - 15:35
विश्वसांयात्रिकःषट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनं ।विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥१॥“यदा त्वं भुवि संजातः गुरुशुक्रग्रहेक्षणे ।विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥२॥युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥३॥एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥४॥मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥५॥घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥६॥शतात् द्वादशकोटीनां  मैलदूरात् किमुच्यते ।त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद “॥७॥“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।तथापि किञ्चित् वचनं भवद्भिः श्राव्यं मम प्रश्रितमानसैरिदम् ॥८॥स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।
भवद्भिरेवं रविमण्डलात्परम् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥९ ॥- - - - मैलम्=Milehttp://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-81

Sat, 09/14/2013 - 12:40
हास्यसीकरः-८१कस्मिंश्चित् ग्रामे कश्चन क्रिस्तमतावलम्बी असूनत्यजत् । तद्ग्रामस्य क्रिस्तपूजके व्याधिग्रस्ते गतासोः   शवसंस्कारार्थं निकटस्थग्रामादन्यस्मात् अन्यः क्रिस्तपूजकः आनीतः । शवसंस्कारात् प्राक् क्रिस्तपूजकः गतासुमुद्दिश्य सद्वचनानि वदेदिति क्रिस्तमतविधिः वर्तते । तं विधिमनुसृत्य क्रिस्तपूजकः अभाषत । “ भोः सर्वे बान्धवाः शृणुत । अयं गतासुः सज्जनशिरोमणिः,  सदाचारसम्पन्नः, सद्गुणवारिधिः, वदान्यः, स्मितपूर्वाभिभाषी,- - - “ । इत्थं गतासोः गुणगानं निरर्गलं कुर्वति पूजके, तस्य भाषणे प्रतिबन्धं कुर्वती गतासोः धर्मपत्नी उच्चैरवदत्, “भोः, किमिदम्? मम भर्तुरन्यस्य कस्यापि शवसंस्कारः क्रियमाणः इति भाति । यस्य गुणगानं क्रियमाणं स मम भर्ता न भवेत् “ इति ।- - - -  http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Parrot critic

Sat, 09/07/2013 - 15:40
छिद्रान्वेशी“कृतकशुकोऽयं दुनोति मम मनः सुभृशमत्र विनिवेशितः ।कोऽस्य कर्ता हन्त स तु वेद्म्यहं कर्मण्यनभिज्ञः ।। १ ॥कति कृता कृतका मया विहगा क्व सुभगता सहजा तेषाम् ।क्वेदं वैरूप्यं भोः तूर्णमपसारयतेममितः ॥ २ ॥  इदं कीरतुण्डं किं? को निगदति शुकस्य कण्ठ इतीमम् ।शुकपक्षौ इत्थं किं? पादौ वक्रौ नखा निम्नाः” ॥ ३ ॥इत्थं जल्पति सुचिरं कृतकखगकर्मविचक्षणे सहसा ।
तमभिभवन्निव कीरः गवाक्षाश्रित उदपतद्वै ।। ४ ॥- - - -[Inspired by a poem in English on a similar theme]http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Humour-80

Sat, 08/31/2013 - 15:45
हास्यसीकरः-८०मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् ।“केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः” ॥आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः ।“रे रे मूषिक! कथय  क्व त्वं क्व मृगराजो भ्राता ॥“मूषिक अवदत् सभयं , “क्षमस्व बन्धो मम धार्ष्ट्यम् कृपया ।
अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् “॥- - - - http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Sanskrit blog: Receiving a guest

Sat, 08/24/2013 - 16:42
अतिथिसत्कारः“स्वागतं स्वागतं तुभ्यं चिरात् दर्शनमागताः ।अद्यास्माकं दिनं धन्यमतर्कितसुखावहम् ॥ १ ॥[ मयाद्य किं कृतं पापं तत्फलोऽयं समागमःधनव्ययस्तथा कालहरणं मे भवेत् ध्रुवम् ]॥ २ ॥अलङ्कुरुत सन्मान्या आसनानि यथासुखम् ।[पर्याप्तान्यासनान्यत्र न भवेयुरिति स्पृहा] ॥ ३ ॥आनन्दोदधिमग्नोऽहं त्वद्बालाश्चागता  इति ।[ मर्कटास्ते विनष्टं स्यात् सर्वं वस्त्वत्र खण्डितम्] ॥ ४ ॥ ददाम पेयं किं  भक्ष्यं ब्रूथ वाञ्छथ निस्त्रपाः।[भक्षयिष्यन्ति पास्यन्ति सर्वं सद्यो यदर्पितम्] ॥ ५ ॥पुत्र्या मे गायनं यूयं श्रोतुमर्हथ सुस्वरम् ।[कृतार्थोऽस्मि सुतां श्रुत्वा पलायन्ते यदि द्रुतम् ] ॥ ६ ॥‘द्रष्टुं पुत्थलिकाचित्रं मे बाला आगतात्र वै ।अस्मत्साक्षात्करं दोषपूरितं क्षम्यतां यतः’ ॥ ७ ॥इति किं वक्षि? सुकरमिदानीमेव तद्भवेत्।भार्ये साक्षात्करं तेभ्यः चालयाशु विचक्षणे ॥ ८ ॥‘अस्मत्साक्षात्करं चापि सदोषम्’ इति भाषसे?अहो, मम हि दौर्भाग्यं, क्षम्यतां करवाणि किम्?॥ ९ ॥‘स्वस्ति वोऽस्तु गमिष्यामो प्रातिवेश्यगृहं द्रुतम्’इति किं वदथ, क्षिप्रं मिलामो भवतात् शुभम् ॥ १० ॥[ सम्पन्नं सुदिनं दिष्ट्या ऽहो मे पत्न्याः प्रगल्भता ।विद्युत्तन्तू साधनस्य निभृतं विचकर्ष या॥]” ॥ ११ ॥-----------------------------------------------------------------------------
पुत्थलिकाचित्रम्=cartoon film; साक्षात्करम्=Television[ Inspired by a poem in English read long back.]http://gssmurthy.blogspot.com http://murthygss.tripod.com/ http://sanskritcentral.com
Categories: Sanskrit Blogs

Pages