संस्कृतपत्रिका

Subscribe to संस्कृतपत्रिका feed
अविनाशhttp://www.blogger.com/profile/13873612545927666165noreply@blogger.comBlogger11125
Updated: 1 day 22 hours ago

किम् अभवत् ?

Mon, 04/05/2010 - 07:51
This blog was started as a practice ground before and during vishvavani launch in 2007 . Now that vv has been the focus, there are no updates on this blog for the past few yrs .. Though the team members maintain individual blogs, may be we should reenerize this one also

Till then:

vishvavani: http://www.speaksanskrit.org/vishvavani.shtml
website: http://www.speaksanskrit.org/

other samskritam blogs : http://www.speaksanskrit.org/forum/viewtopic.php?t=388
Categories: Sanskrit Blogs

परिहासिकाः

Wed, 11/28/2007 - 08:34
चिकित्सकः- मन्ये ,त्वम् अलर्करोगेण आक्रान्तोऽसि ।
रोगी- यद्येवं तर्हि भवान् मह्यम् एकं कर्गलं यच्छतु ।
चिकित्सकः- किं त्वं इच्छापत्रं लेखितुम् इच्छसि?
रोगी- न, अहं तु तेषां नामानि लेखितुम् इच्छमि यान् अहं दङ्क्ष्यामि।

*********

(त्रीणि मित्राणि परस्परं वार्तालापं कुर्वन्ति ईश्वरं प्रार्थयन्ते)
प्रथमं मित्रं-हे ईश्वर ! मह्यं त्वं स्वर्णपूर्णं गृहं यच्छ ।
द्वितीयं मित्रं- हे भगवन् ! त्वं मे रत्नैः पूर्णं गृहं यच्छ।
तृतीयं मित्रं- हे प्रभो ! तादृशं गृहम् उद्घातयितुम् कुञ्चिकां मह्यं देहि।

*************

अध्यापकः- (शिष्यं प्रति) रोहित ! त्वम् अति दुष्टोऽसि । श्वः स्वपित्रा सह अत्र आगन्तव्यम् ।
रोहितः- श्रीमन्तः ! यद्येवम् अस्ति तर्हि शतं रुप्यकणि भवद्भिः मह्यं देयानि।
अध्यापकः - किमर्थम् ?
रोहितः- मम पिता तु चिकित्सकोऽस्ति । शतरुप्यकाणि शुल्कं बिना नासौ कुत्रापि गच्छति ।

****************

(न्यायालये न्यायाधीशम् अपराधिनं च अन्तरा वार्तालापो भवति )
न्यायाधीशः- यदि त्वं मृषा वदिष्यति तर्हि कुत्र गमिष्यसि ?अपराधी- ननु नरकमेव गमिष्यामि । न्यायाधीशः - यदि त्वं सत्यं वदिष्यसि तदा कुत्र ?
अपराधी- कारागारम् ।

*****************

(मोहनः विनायकं पूजयति । पूजया प्रसन्नो भूत्वा विनायकः आविर्भवति)
विनायकः -वत्स ! वद किमिच्छसि?
मोहितः- मारुतिकारयानं मे स्यादिति वाञ्छामि।
विनायकः- मम वाहनं मूषको वर्तते । कथमहं तुभ्यं कारयानं दास्यामि?

****************
source: http://sanskrit.jnu.ac.in/testcorpus/tc7.txt
Categories: Sanskrit Blogs

कुत्र कुत्र सम्स्कृतम् ?

Fri, 11/09/2007 - 06:26

(click to enlarge)

सम्स्कृतभारती कुत्र कुत्र कार्यम् करॊति अमॆरिका कानडा च दॆशयॊः इति ...

रक्तवर्णॆन सूचितानि स्थानानि - "गणयुक्त कार्यस्थानानि" - यत्र कार्यकर्तृगणः अस्ति - 6 सन्ति : Boston, DC, Pittsburgh, Fremont, San Jose, Seattle

नीलवर्णेन सूचितानि स्थानानि - "कार्यस्थानानि" - यत्र कार्यम् ( भाषावर्गः) प्रचहलति , ऎकः/ऎका अस्ति आयॊजकरूपॆण - 8 स्थानानि - NC, NJ-NYC , Austin, Dallas, Toronto, Chicago, LA, San Diego


पीतवर्णेन सूचितानि "सम्पर्कस्थानानि" - यत्र कॆचन उत्सुकाः सन्ति परन्तु अधिक कार्यम् इदानीम् न प्रचलति -10 स्थानानि
Categories: Sanskrit Blogs

palindrome

Thu, 11/01/2007 - 07:24
ततान दाम प्रमदा पदाय नॆमॆ रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मॆने यदाप दाम प्रमदा नतातः ॥

tataana daama pramadaa padaaya neme ruchaamasvanasundaraakShii |
kShiiraadasuM na svamachaaru mene yadaapa daama pramadaa nataataH ||

कॊपि/कापि अर्थं जानाति चॆत् लिखतु । अपि च PALINDROME पदस्य संस्कृतम् किम् ? अन्याः palindromes जानन्ति किम् ?

पदानि : तिष्ठति ; नवजीवन ; मध्यम

मूलम् : acharya.iitm
Categories: Sanskrit Blogs

शक्नोति वा ?

Fri, 10/12/2007 - 09:36
NY नगरे इदानीम् सम्भाषणार्थं दूरवाणी मॆळनम् प्रचलति - प्रति गुरुवासरे रात्रौ ! अद्यतन दूरवाणी मॆळने "शक्नॊति" इति पदस्य अभ्याससमयॆ एकः मां पृष्टवान् ( सम्स्कृतेन एव) - "अरुण, भवान् रिक्त-उदरॆ कति इड्डलीभॊजनानि खादितुम् शक्नॊति ? " इति । उत्तमम् उदाहरणम् इति चिन्तयित्वा अहम् उत्तरमपि दत्तवान् " प्रायः दश खादितुम् शक्नॊमि - आकारः अनुसृत्या एव निस्चयॆन वक्तुम् शक्नॊमि" इति .. सः अग्रॆ पृष्टवान् - " कथम् अरुण् - एकम् इड्ड्ळीम् खादनानन्तरम् भवान् रिक्त-उदरः नास्ति खलु ? "

-------------------------------------------------------------------------

Eventhough he said it in bits and pieces, and needed help with a word for "empty", it was a good practical joke cracked by a "beginner" student on the "chaalakaH" in SamskRutam... made my day.. ( well, nite)
Categories: Sanskrit Blogs

भगवद् गीतायां मम एकः प्रियश्लॊकः ।

Thu, 09/27/2007 - 23:31
1997 - ऐ ऐ टि मध्यॆ मम प्रथमवर्षम् । तस्मिन् वर्षे सेप्तेम्बेर् 27 दिनाङ्के तत्र एका नूतना सम्स्था आरब्धा - http://vsc.iitm.ac.in .. अग्रिम साप्ताहान्तॆ यदा गान्धीजयन्ति आसीत् अहम् प्रथमवारम् भगवद् गीताम् क्रीतवान् । तस्मिन् वर्षे एव विजयदशमि ( Oct 11) आरभ्य पठनमपि आरब्धवान् । तस्मिन् दिनॆ एव ऐ ऐ टि मध्यॆ अन्यत् किमपि अभवत् - पश्यतु -

http://acharya.iitm.ac.in/sanskrit/lessons.php ...

The first of these Lessons was put on the web on Oct.11, 1997, which was Vijayadasami Day, probably the most appropriate day to begin the lessons.

------------------------------------------------
अत्र गिता तः मम एकः प्रियश्लोकः दत्तः । किमर्थम् प्रियकरम् इत्यपि सूचयामि ।

श्लोकः
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥ ११-३३ ॥

अर्थः
त्वम् उत्तिष्ठ । यशः लभस्व । शत्रुन् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । मया एव एते (कौरवाः ) पूर्वमॆव निहिताः । त्वम् निमित्तमात्रम् भव सव्यसाचिन् ॥

किमर्थम् मम प्रियः श्लोकः

सव्यसाचिन् इति पदस्य अर्थः - ambidextrous - इति । यावत् उत्तमम् दक्षिण हस्तॆन अस्त्रविद्या कर्तुम् शक्नॊति तावत् उत्तमम् वामहस्तॆन अपि शक्नॊति अर्ज्जुनः । तधापि सः "निमित्तमात्रम्" अस्ति । यद्यपि कॊपि अतिसमर्थः अस्ति तधापि यदि निमित्तमात्र-सङ्कल्पॆन कार्यम् करॊति तर्हि स्थितप्रज्ञः भविष्यति ...........

---------------------------------------------------------

लॆखनॆ दॊषान् सूचयन्तु । अस्मिन् विषयॆ विचाराः अपि ॥




Categories: Sanskrit Blogs

किम् प्रोब्लेम्?

Thu, 09/20/2007 - 23:41
चलतः मित्रद्वयस्य विश्वविद्यालय-गमन-समये सम्भाषणम् -

रमेशः "भवान् सिद्धः वा?" ।
मुखेशः "भोजनार्थं, निद्रार्थं च सर्वदा सिद्धः अस्मि" ।
रमेशः "तत्तु जानामि भोः! तथा न । अद्य संस्कृतकक्ष्यायाः परीक्षा । न विस्मृता भवता किल?" ।
मुखेशः "न भोः, गतसप्ताहे एव सज्जता कृता । किम् , अहं मूर्खः इति चिन्तयति भवान्?" ।
रमेशः " भवान् एव ह्यः उक्तवान् दुर्गस्य नाम दुर्गा " ।
मुखेशः " तूष्णीं भवतु । अहं सर्वं जानामि । पश्यतु एतस्याः कक्ष्यायाः अनन्तरं प्रथमस्तरं प्राप्नोमि " ।
रमेशः " कथं तत् सध्यम्? भवान् सम्यक् रुपेण स्वनाम वक्तुम् अपि न शक्नोति!"|
मुखेशः " ह ह ह....मम नाम स्नात्वाकालकः *! । मम अग्रजः बाल्ये तथैव संस्कृतेन माम् आह्वयति स्म "।
रमेशः "ऐयो..........." ।

अग्रिमदिने विश्वविद्यालये -

रमेशः " हे स्नात्वाकालक*! कीयतः अङ्कान् परीक्षायां प्राप्तवान्? अहं प्रथमस्तरं प्राप्तवान्!" ।
मुखेशः " कापि समस्या अस्ति... मम एकः अपि अङ्कः न प्राप्तः । किमर्थम्? प्रायः अध्यापकः मम परीक्षां न पश्येत्" ।
रमेशः " न, न, न...पत्रं ददातु, अहं पश्यामि " । [सः पत्रं गृहीत्वा, उच्चैः पठनं आरभते] " प्रथमप्रश्नः अस्ति यत् छात्रः किं करोति? । [पठनं स्थगयति] भोः, किम् एतत्????" ।
मुखेशः " किम्? । उत्तरं लिखितं मया तत्र! " ।
रमेशः "संस्कृतेन लेखनीयम् उत्तरम्! एषा संस्कृतलिपिः न!" । [सः पत्रं प्रदर्शयति । पत्रे उत्तरं आङ्गलभाषायाः transliteration माध्यमेन लिखितम् अस्ति । अक्षराणाम् उपरि एका रेखा लिखिता] ।
मुखेशः "सा एव देवनागरिलिपिः ! अहं दृष्टवान् काफ़ेस्पैस्भोजनालयस्य द्वारे एवम् एव लिखितम् अस्ति!" ।
रमेशः [स्वशिरताडनं कुर्वन्] "एवं किमर्थं लिखितवान्?। प्रश्नः अस्ति छात्रः कदा पठति इति । भवतः उत्तरं....मण्डे, ट्यूस्डे, वेनस्डे च छात्रः पठति " ।
मुखेशः "अहो, सत्यं भोः...सः गुरुवासरे अपि पठेत् यतः शुक्रवासरे स्कूल् अस्ति" ।
रमेशः "मस्तिष्के किमपि न चलति....अहो देव, भवतः कृते साहाय्यम् आवश्यकम् एव " । [सः पठनस्य पुनः आरम्भं करोति] । "प्रश्नः - भवतः गृहं कुत्र अस्ति?" । [पत्रं दृष्ट्वा, तस्य मुखस्य उद्घाटनम् एव । सः पत्रं प्रदर्शयति । एकं गृहं वर्णितम् अस्ति । गृहस्य समीपे बाणाकारः । बाणाकारेण सूच्यमानं गृहं । ] "एतस्य अर्थः कः?" ।
मुखेशः " मम गृहं कुत्र अस्ति इति अध्यापकः ज्ञातुम् इष्टवान्, अतः चित्रम् अलिखम् । स्पष्टं, न वा?" ।
रमेशः [पुनः स्वताडनं कृत्वा] "एतत् पत्रं स्वीकरोतु । केवलं भवान् अग्रिमजन्मनि बद्धिं लप्स्यते इति प्रार्थयामि "।

*स्नात्वाकालकः - स्नात्वापि मलिनः (ज्ञाने धर्मः उत प्रयोगे, पु. ७। एतस्यां पुस्तिकायां ईदृशाः बहवः शब्दाः उदाहरणार्थं दत्ताः ये लोकव्यवहारे पुरातनकाले उपयुज्यमानाः आसन् ।

बहवः दोषाः स्युः । यदि भवन्तः दोषान् पश्यन्ति कृपया सूचयन्तु ।
Categories: Sanskrit Blogs

यत्र मनः भीतरहितमस्ति .....

Sat, 08/11/2007 - 04:21
यत्र मनः भयरहितमस्ति शिरः च उन्नतमस्ति
यत्र ज्ञानम् मुक्तम् प्रवहति
यत्र सङ्कीर्ण-प्राकारैह् सम्सारः भग्नः न अभवत्
यत्र पदानि ह्इदयगाम्भिर्यतः आगच्छति
यत्र श्रान्तरहितॊद्यमम् पूर्णतॊन्मुखमस्ति
यत्र बुधिधारायाः मार्गभ्रम्शम् निर्जन-मरुभुम्याम् न अभवत्
यत्र मनः भवता प्रकर्ष्यते विशालचिन्तनाय कर्माय च
मुक्तेह् तत्-स्वर्गार्थम् मम राष्ट्रमुधरॆत्

------------------------------------------------
धन्यवादाः - याजुषी , अविनाशः । दोषान् सूचयन्तु ॥
Categories: Sanskrit Blogs

एते अपि संस्कृतशब्दाः!!!

Sun, 08/05/2007 - 23:18


पावरः = the face of dice with number 2
पीचम् = chin
वण्डरः = miser
बुलिः = fear
पपी = sun or moon
लवली = a creeper
अपाची = south or west
सेकः = shower (in bath)
Categories: Sanskrit Blogs

विनोदकणिकाः

Wed, 02/07/2007 - 10:06
१) कोरिया देशस्य शिबिरम्

अध्यापकः -- मम नाम वसुवजः । भवतः नाम किम् ?

विद्यार्थी -- मम नाम किम् ।

अध्यापकः - प्रतिप्रश्नं मा प्रच्छतु भोः । नाम वदतु ।

विद्यार्थी -- मम नाम एव किम् । किम् जोन्ग् ।

(Remember ?

"Who is China's PM ?"
"Hu is China's PM" )

--------------------

२) गृहपाठम्

अध्यापकः -- गृहपाठम् श्रद्धया करोतु ।

विद्यार्थी -- श्रद्धा का ? कुत्र वसति ?
Categories: Sanskrit Blogs

बीर्बलस्य किछडी

Sat, 02/03/2007 - 00:08
अत्र महाशैत्यमस्ति खलु। अतः प्रसक्ता इयं कथा । सर्वे प्रायः एतां कथां श्रुतवन्तः स्युः । परन्तु संस्कृतेन न श्रुतवन्तः इति भावयामि ।

अक्बरमहाराजः शैत्यकाले एकदा प्रभाते उत्थाय मन्त्रिभिः साकं विहारार्थं गतवान् । तत्र मार्गे एकं सरोवरमासीत् । तस्य सरोवरस्य शीतले जले एव जनाः स्नानादिकं कुर्वन्तः आसन् । तदा महाराजः जलं कियच्छीतलं स्यात् इति परीक्षितुं हस्तं सरोवरजले स्थापयति । जलं तु अत्यधिकशीतलमेव आसीत् । तथापि तत्र स्नानं कुर्वतः जनान् वीक्ष्य राज्ञः मनसि विचारमागतं कथं वा एतादृशं शैत्यं सोढुं शक्नुवन्ति इति । सः घोषितवान् च "यदि कोऽपि अस्मिन् शीतले सरोवरजले रात्रिपर्यन्तं तिष्ठति तस्मै अहं शतसुवर्णमुद्राणि दास्यामि" इति ।

कतिचन दिनानन्तरम् एकः निर्धनः ब्राह्मणः अक्बरमहाराजस्य सभाम् आगतवान् । सोऽपि राजानं प्रणम्य अब्रवीत् "महाराज ! मया श्रुतं यत् भवान् घोषितवान् सारोवरजले आरात्रिः यः तिष्ठति तस्मै शतसुवर्णमुद्राणि दास्यति इति । तदर्थम् आगतोऽस्मि । अहं रात्रिपर्यन्तं सरोवरजले स्थातुं सिद्धः " इति । राजा तद्वचनं श्रुत्वा "अस्तु ! अद्य रात्रिमेव भवान् सरोवरे यापयतु । श्वः प्रभाते पुनरागत्य घोषितं पारितोषकं स्वीकरोतु । परन्तु भवान् सरोवरे एव भवति इति परीक्षितुं तत्र सैनिक एकः भविष्यति " इति । तदङ्गीकृत्य ब्राह्मणः ततः निर्गच्छति ।

परेद्युः पुनरागत्य ब्राह्मणः राजानं नमस्कृत्य वदति " यथा महाराजेन आज्ञापितः तथैव कृतः" इति । राजा तं सैनिकं पृच्छति "किं सत्यमेतत् ? एषः रात्रिपर्यन्तं सरोवरे एव आसीत् वा?" इति । तदा सैनिकः "सत्यं महाराज! एषः तत्रैव आसीत्" इति उत्तरं ददाति । "भवान् तु रात्रौ कुत्रापि न गतवान् खलु" इति सैनिकं पृच्छति एकः मन्त्री । तदा सैनिकः "न तु । अहं तु आरात्रिः सरोवरतीरे एव आसम् " इति वदति । अन्येकः वदति "ब्राह्मणवर्य! कथं वा भवान् आरात्रिः सरोवरे स्थातुं शक्तवान् ?" । ब्राह्मणः विन्म्रतया वदति "मनोनिग्रहेण । दूरे एकः दीपः आसीत् । तद्दीपम् एव पश्यन् तस्मिन्नेव मनः केन्द्रीकृत्य जपमकरवम् " इति । तदा सः मन्त्री वदति " अहो ! एतत्तु नियमोल्लङ्घनमस्ति । तस्य दीपस्य तापः तु तत्रासीत् खलु । अत एव भवान् रात्रिपर्यन्तं सरोवरे स्थातुं शक्तवान् । अतः भवान् पुरस्कारं नार्हति। " राजा अपि तत्कारणात् ब्राह्मणं रिक्तहस्तम् एव प्रेषयति । एतेन प्रसङ्गेन असन्तृप्तः बीर्बलः राज्ञः मनः परिवर्तयितुं निश्चयति ।

एकदा बीर्बलः सपरिवारं राजानं भोजनार्थं स्वगृहमाह्वयति । राजा सपरिवारः आगच्छति । सर्वे वार्तालापं कुर्वन्तः कञ्चित् समयं यापयन्ति । बुभुक्षितास्ते भोजनस्य प्रतीक्षां कुर्वन्ति । भोजनसमयः भवति चेदपि आहारस्य विषये बीर्बलः किमपि न सूचयति । कश्चित् समयानन्तरं महाराजः एव बीर्बलं पृच्छति । "बीर्बल । भोजनं सिद्धं किम् ?" इति । बीर्बलः "क्षम्यतां महाराज । किछडीखादनं पचत् अस्ति । यदा सिद्धः भवति तदा भोजनं कुर्मः" इति वदति । अर्धघण्टानन्तरमपि भोजनम् अप्राप्तः राजा बीर्बलं पुनर्पृच्छति भोजनविषये । बीर्बलः पुनर्वदति यत् किछडीखादनम् इदानीम् अपि न सिद्धम् इति । एतेन कुपितः राजा स्वयमेव महानसं प्रति गच्छति । तत्र एकस्मिन् कोने अग्निः प्रज्वालितः भवति । तस्योपरि किमपि पात्रमदृष्ट्वा राजा वदति प्रायः इदानीं सिद्धमस्ति खादनम् इति । तदा बीर्बलः तं सूचयति पात्रं तु महानसस्य अन्यस्मिन् कोने अस्ति इति । तत्र अग्निः ज्वालितः न भवति एव । राजा वदति "किमेतत् ? तत्र अग्निः न प्रज्वालितः" इति । बीर्बलः वदति "अस्य अग्नेर्तापेन एव तत्र स्थिते पात्रे किछडीखादनं पचत् अस्ति " इति । राजा कोपेन "कथं वा तावद्दूरे स्थिते पात्रे पचेत् । अस्याग्नेर्तापस्तु तत्र न प्राप्यते एव" इति वदति । बीर्बलः विनम्रतया वदति "यदि दूरे स्थितस्य दीपस्य तापः सरोवरे स्थितं ब्राह्मणं प्राप्यति तर्हि अत्रापि किछडीखादनं पचेत्" इति । स्वप्रमादं ज्ञातवान् राजा चिन्तयन् ततः निर्गच्छति । क्षणार्धे एव बीर्बलः आगत्य भोजनं सिद्धम् इति सूचयति ।

दिनाभ्यन्तरे राजा तं ब्राह्मणं आनाय्य तं शतसुवर्णमुद्राणि दत्वा सत्करोति ।
Categories: Sanskrit Blogs