Sans_Eng

Subscribe to Sans_Eng feed
GSS Murthy's blog providing Sanskrit classical text with English translation.G S S Murthyhttp://www.blogger.com/profile/08672073311356820777noreply@blogger.comBlogger256125
Updated: 7 hours 1 min ago

Bhartruhari's Shatakas-16

Sat, 08/29/2015 - 15:28
भर्तृहरिशतकत्रयी-१६
जाड्यं ह्रीमति गण्यते व्रतशुचौ दम्भः शुचौ कैतवम्शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिः स्थिरेतत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥ नी-४३ ॥अ: ह्रीमति जाड्यं, व्रतशुचौ दम्भः, शुचौ कैतवम्, शूरे निर्घृणता, मुनौ विमतिता, प्रियालापिनि दैन्यम्, तेजस्विनि अवलिप्तता, स्थिरे वक्तव्यशक्तिः मुखरता गण्यते ।  गुणिनां सः कः नाम गुणः भवेत् यः दुर्जनैः न अङ्कितः? Shyness is considered as lethargy, purity in matters of religious vows is taken to be hypocrisy, being scrupulous in cleanliness is taken as deceit, being valorous is taken as being unkind, being a hermit is considered stupidity, being courteous is taken to be servility, being energetic is treated as arrogance, ability to speak in matters of conviction is taken as garrulousness. Is there any quality of a virtuous person which is not branded by the wicked?
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैःसत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैःसद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ नी-४४ ॥अ: यदि लोभः अस्ति, अगुणेन किम्? यदि पिशुनता अस्ति पातकैः किम्? सत्यं चेत् तपसा  किम्? शुचि मनः यदि अस्ति तीर्थेन  किम्? सौजन्यं यदि अस्ति बलेन किम्? महिमा यदि अस्ति मण्डनैः  किम्? सद्विद्या यदि अस्ति धनैः किम्? अपयशः यदि अस्ति मृत्युना किम्?If there is greed where is the need for bad qualities? If one slanders where is the need for sins? If one is truthful where is the need for doing penance? If one has purity in mind where is the need for pilgrimage? If there is benevolence where is the need for force? If one is great where is the need for ornaments? If there is right knowledge where is the need for money? If there is infamy where is the need for death?  
शशी दिवसधूसरो गलितयौवना कामिनीसरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।प्रभुर्धनपरायणः सततदुर्गतिः सज्जनोनृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे ॥ नी-४५ ॥अ: दिवस-धूसरः शशी, गलित-यौवना कामिनी, विगत-वारिजं सरः, सु-आकृतेः अनक्षरं मुखम्, धन-परायणः प्रभुः, सतत-दुर्गतिः सज्जनः, नृप-अङ्गण-गतः खलः, (इमानि) मे मनसि सप्त-शल्यानि Moon looking grey in day time, a passionate lady past her prime, a lake with water-lilies dried out, handsome face of an illiterate person, a lord who is after wealth, a virtuous person in dire straits all the time, a wicked courtier to a king, these seven hurt my mind.--तावदेवामृतमयी यावल्लोचनगोचरा ।चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥  शृ-४३ ॥अ: (इयं) यावत् लोचन-गोचरा तावत् एव अमृतमयी । चक्षुः पथात् अतीता तु विषात् अपि अतिरिच्यते ।So long as she is in sight she is full of ambrosia; once she is out of sight she is worse than poison.
नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् ।सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ शृ-४४ ॥अ: एतां नितम्बिनीं मुक्त्वा अमृतं न किञ्चित्, विषं न किञ्चित्, रक्ता (यदि) सा एव अमृत-लता विरक्ता यदि सा एव विष-वल्लरी ।There is nothing like ambrosia or poison other than this graceful lady; if she is attached she is a creeper of ambrosia, if she is ill-disposed she is a poisonous vine.
आवर्तः संशयानामविनयभुवनं पट्टणं साहसानाम् दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नः नरकपुरमुखं सर्वमायाकरण्डम्स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ शृ-४५ ॥अ: संशयानाम् आवर्तः, अविनय-भुवनम्, साहसानां पट्टणम्, दोषाणां सन्निधानम्, अप्रत्ययानां कपट-शत-मयं क्षेत्रम्, स्वर्ग-द्वारस्य विघ्नः, नरक-पुर-मुखम्, सर्व-माया-करण्डम्,प्राणि-लोकस्य पाशः अमृतमयं विषम्, स्त्री-यन्त्रं केन सृष्टम्?Who created this machine called woman, who is a whirl pool of doubts, a world of bad manners, a city of rashness, a source of follies, a field of several forms of untrustworthiness, an impediment to the door of heaven, the gateway to the city of hell, a bunch of all delusions, a snare for all beings, a poison looking like ambrosia?--आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यतेपीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ वै-४३ ॥अ: जीवितं आदित्यस्य गत-आगतैः अहः-अहः संक्षीयते । कालः अपि बहु-कार्य-भार-गुरुभिः व्यापारैः न ज्ञायते । जन्म-जरा-विपत्ति-मरणं दृष्ट्वा त्रासः च न उत्पद्यते । जगत् मोहमयीं प्रमाद-मदिरां पीत्वा उन्मत्त-भूतम् ।With sun’s rising and setting span of life gets reduced; Passage of time is not noticed because of various pressing activities; one does not get anxious seeing birth, old age, disease and death; the world is intoxicated by drinking liquor of faults which causes delusion.
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवोधावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।व्यापारैः पुनरुक्तभूतविषयैरित्थं विधेनामुनासंसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ वै-४४ ॥अ: सा एव रात्रिः, पुनः सः एव दिवसः (इति) मुधा मत्वा जन्तवः उद्यमिनः तथा पुनः-उक्त-भूत-विषयैः व्यापारैः निभृत-प्रारब्ध-तत्-तत्-क्रियाः धावन्ति एव । इत्थंविधेन अमुना संसारेण कदर्थिता वयं मोहात् न लज्जामहे, अहो । Living beings keep running, planning and secretly starting in the planned matters believing that night is the same and the day is the same. It is a pity that we do not feel ashamed of getting deluded by this type of demeaning worldly matters.
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तयेस्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितम्मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ वै-४५ ॥  अ: संसार-विच्छित्तये ईश्वरस्य पदं न ध्यातम्, स्वर्ग-द्वार-कपाट-पाटन-पटुः धर्मः अपि न उपार्जितः, नारी-पीन-पयोधर-ऊरु-युगलं स्वप्ने अपि न आलिङ्गितम् । वयं मातुः यौवन-वन-छेदे केवलं कुठाराः ।
We did not meditate on the abode of the Almighty for breaking the cycle of births; we did not earn religious merit capable of opening the doors of heaven; we did not embrace the heavy breasts and thighs of women even in our dreams. We are just axes which cut the garden of mothers’ youth.- - - -  
Categories: Other Language Links

Bhartruhari's Shatakas-15

Sat, 08/22/2015 - 15:52
भर्तृहरिशतकत्रयी-१५
यद्धात्रा निजभालपट्तलिखितं स्तोकं मह्द् वा धनंतत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् ।तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाःकूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ नी-४० ॥अ: (नरः) धात्रा यत् निज-भाल-पट्ट-लिखितं स्तोकं वा महत् धनं तत् मरुस्थले अपि नितरां प्राप्नोति, अतः अधिकं मेरौ च न (प्राप्नोति) । (हे नर!), तत् धीरः भव, वित्तवत्सु वृथा कृपणां वृत्तिं मा कृथाः । पश्य, घटः कूपे पयोनिधौ अपि तुल्यं जलं गृह्णाति । A person gets even in a desert whatever wealth has been written on his forehead whether small or large, and does not get anything more even on mount Meru. Therefore, man! Be brave, do not unnecessarily feel jealous of the wealthy. Look, a pot holds the same amount of water whether in a well or in an ocean.
अथ दुर्जनपद्धतिः(Section on the wicked)अकरुणत्वमकारणविग्रहःपरधने परयोषिति स्पृहा ।सुजनबन्धुजनेष्वसहिष्णुताप्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ नी-४१ ॥अ: अकरुणत्वम्, अ-कारण-विग्रहः, पर-धने पर-योषिति स्पृहा, सुजन-बन्धुजनेषु असहिष्णुता, दुरात्मनां इदं प्रकृति-सिद्धं हि ।Being unkind, quarrelling without any reason, desire for others’ money or women, impatience towards good people and relatives; these qualities come naturally to the wicked.
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ नी-४२ ॥अ: दुर्जनः विद्यया अलङ्कृतः अपि परिहर्तव्यः । असौ मणिना भूषितः सर्पः न भयङ्करः किम्?A wicked person even if he is educated has to be neutralized; Is not a snake adorned with gem not fearsome? [ There is a myth that certain snakes carry a gem in their hoods.]--सत्यं जना वच्मि न पक्षपाता-ल्लोकेषु सप्तस्वपि तथ्यमेतत् ।नान्यन्मनोहारि नितम्बिनीभ्योदुःखैकहेतुः न च कश्चिदन्यः ॥ शृ-४० ॥अ: (हे) जनाः! सत्यं वच्मि, न पक्षपातात्, एतत् सप्तसु लोकेषु अपि तथ्यम् । नितम्बिनीभ्यः मनोहारि अन्यत् न (अस्ति), दुःख-एक-हेतुः कश्चित् अन्यः न च (अस्ति)O people! I am telling the truth and without any bias. This is true in all the seven worlds. There is nothing as captivating as beautiful women and nothing else that causes grief.
अथ कामिनीगर्हणम्( Censuring women)
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्-पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ।दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपिप्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुष्चेष्टितम् ॥ शृ-४१ ॥अ: विद्वान्  अपि कान्ता इति उत्पल-लोचना इति विपुल-श्रोणी-भरा इति उन्नमत्-पीन-उत्तुङ्ग-पयोधरा इति सुमुख-अम्भोजा इति सुभ्रूः इति, प्रत्यक्ष-अशुचि-भस्त्रिकां स्त्रियम् दृष्ट्वा माद्यति,मोदते, अभिरमते, प्रस्तौति । अहो! मोहस्य दुः-चेष्टितम् ।Looking at a woman who is nothing more than a dirty bellows, even a learned person gets enchanted, feels pleased, enjoys and praises her saying my dearest, you have eyes like blue lotuses, you have heavy hips, you have raised heavy breasts, your face is like a lotus and you have beautiful eye brows. Oh! How wicked is delusion!
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ शृ-४२ ॥अ: सा स्मृता तापाय भवति, दृष्टा उन्माद-कारिणी च, स्पृष्टा मोहाय भवति, कथं दयिता भवति नाम ?When remembered she causes sorrow; when seen she intoxicates; when touched causes delusion. How can she be the beloved?--ब्रह्मेन्द्रादिमरुद्गणान् तृणकणान्यत्र स्थितो मन्यतेयत्स्वादाद्विरसा भवन्ति विभवाः त्रैलोक्यराज्यादयः ।भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भतेभो साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ वै_४० ॥अ: कः अपि भोगः यत्र स्थितः ब्रह्म-इन्द्र-आदि-मरुत्-गणान् तृण-कणान् मन्यते, यत्-स्वादात् त्रैलोक्य-राज्य-आदयः विभवाः विरसाः भवन्ति, सः एकः एव नित्य-उदितः जृम्भते । भो साधो! क्षण-भङ्गुरे तत्-इतरे भोगे रतिं मा कृथाः ।There is an inexplicable pleasure which alone flourishes eternally lofty. Having obtained that pleasure one considers (divine dignitaries like) Brahma, Indra, the wind God and others equal to blades of grass, and having tasted that pleasure suzerainty over the three worlds becomes tasteless. O virtuous man!  Do not indulge in other transient pleasures.  
अथ कालमहिमानुवर्णनम्( In praise of Time )सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाःसर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ वै-४१ ॥अ: सा नगरी रम्या, सः नृपतिः रम्यः, तत् सामन्त-चक्रम्, तस्य पार्श्वे सा विदग्ध-परिषत्, ताः चन्द्र-बिम्ब-आननाः, सः उद्वृत्तः राजपुत्र-निवहः, ते बन्दिनः, ताः कथाः ! यस्य वशात् सर्वं स्मृति-पथम् अगात् तस्मै कालाय नमः ।That beautiful city, that great king, that circle of vassals, that learned assembly by his side, those moon faced women, that haughty group of princes, those prisoners, and those stories! Our obeisance to Time on account of which everything is just a memory!
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैकःयत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौकालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ वै-४२ ॥अ: यत्र क्वचित् गृहे अनेकः अतिष्ठत्, अथ तत्र एकः तिष्ठति, अपि यत्र एकः तदनु बहवः अन्ते च न एकः अपि, इत्थं कल्यः कालः रजनि-दिवसौ द्वौ अक्षौ इव लोलयन्, भुवन-फलके प्राणि-शारैः क्रीडति ।In a house where there were many there is one now; where there was one, now there are many and in the end no one; thus time plays with the dices of day and night on the playing board of this world using living beings as play-pieces.
- - - - 
Categories: Other Language Links

Bhartruhari's Shatakas-14

Sat, 08/15/2015 - 16:12
भर्तृहरिशतकत्रयी-१४
राजन् दुधुक्षसि यदि क्षितिधेनुमेनांतेनाद्य वत्समिव लोकममुं पुषाण ।तस्मिंश्च सम्यगनिशं परिपुष्यमाणेनानाफलं फलति कल्पलतेव भूमिः ॥ नी-३७ ॥अ: (हे) राजन्! एनां क्षितिधेनुं यदि दुधुक्षसि, तेन अद्य इमं लोकं वत्सम् इव पुषाण । तस्मिन् सम्यक् परिपुष्यमाणे भूमिः कल्पलता इव नाना-फलम् अनिशं फलति ।O king! If you want to milk the cow called earth, you first take care of the people as you would a calf. If they are well taken care of, the earth will give you fruits all the time like the Celestial Tree (kalpavrisha).
सत्यानॄता च परुषा प्रियवादिनी चहिंस्रा दयालुरपि चार्थपरा वदान्या ।नित्यव्यया प्रचुरनित्यधनागमा चवाराङ्गनेव नृपनीतिरनेकरूपा ॥ नी-३८ ॥अ: नॄप-नीतिः सत्या अनृता च, परुषा प्रिय-वादिनी च, हिंस्रा दयालुः अपि, अर्थ-परा वदान्या च, नित्य-ब्यया प्रचुर-नित्य-धन-आगमा च, वाराङगना इव अनेक-रूपा । Political conduct takes different forms like a prostitute: sometimes true, sometimes false; sometimes harsh, sometimes pleasant; sometimes violent, sometimes kind; sometimes miserly, sometimes liberal; sometimes a spend-thrift, sometimes extracting.
आज्ञा कीर्तिः पालनं ब्राह्मणानांदानं भोगो मित्रसंरक्षणं च ।येषामेते षड्गुणा न प्रवृत्ताःकोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ नी-३९ ॥अ:  हे पार्थिव! येषाम् एते षड्-गुणाः, आज्ञा कीर्तिः ब्राह्मणानां पालनं दानं भोगः मित्र-संरक्षणं च न प्रवृताः, तेषां -उपाश्रयेण कः अर्थः?O king! What is the use of seeking  shelter under a king who is devoid of these six qualities; Ability to command, fame, taking care of Brahmins, charity, ability to enjoy life and protecting friends?
--संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानांतत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।नो चेन्मुग्धाङ्गनानां स्तनघनजघनाभोगसंभोगिनीनांस्थूलोफस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ शृ-३७ ॥अ: स्वप्न-सारे परिणति-तरले संसारे द्वे गती,  तत्त्व-ज्ञान-अमृत-अम्भः-प्लव-ललित-धियां पण्डितानां कालः कथञ्चित् यातु, नो चेत् स्तन-घन-जघन-आभोग-संभोगिनीनां स्थूल-उपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीला-उद्यमानां (कालः यातु) ।There are two ways in this dream-like worldly life which ends up being unsteady: One is that of the scholars whose boat-like mind is floating on the ocean of ambrosia of true knowledge and the other is of those who are busy with ladies of heavy breasts and buttocks and whose hands are being restrained from playing in the fat private areas.   आवासः क्रियतां गाङ्गे पापहारिणि वारिणि ।स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ शृ-३८ ॥अ: आवासः पाप-हारिणि गाङ्गे वारिणि क्रियताम्, वा तरुण्याः मनोहारिणि हारिणि स्तन-द्वये (क्रियताम्)।Let a dwelling be made on the banks of Ganga which destroys sins or on the beautiful garlanded breasts of a young lady.
किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैःद्वयमिह पुरुषाणां सर्वदा सेवनीयम् ।अभिनवमदलीलालालसं सुन्दरीणांस्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ शृ-३९ ॥अ: इह बहुभिः युक्ति-शून्यैः प्रलापैः उक्तैः किम्? इह पुरुषाणां द्वयं सर्वदा सेवनीयम्, सुन्दरीणां अभिनव-मद-लीला-लालसं  स्तन-भर-परिखिन्नं यौवनं वा वनम् वा ।What is the use of any number of sense-less talks? Here in this world there are two things for men worth serving: Either  the forest or the youth of beautiful ladies who are fatigued by the weight of their breasts and who ardently look forward to the novel pleasures of  youthful plays. --कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासेकान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।वामाक्षीणामवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुःसंसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ वै-३७ ॥अ: गर्भ-वासे नियमित-तनुभिः कृच्छ्रेण अमेध्य-मध्ये स्थीयते । यौवने च उपभोगः कान्ता-विश्लेष-दुःख-व्यतिकर-विषमः । वृद्ध-भावः अपि वामाक्षीणां अवज्ञा-विहसित-वसतिः असाधुः । रे मनुष्याः! संसारे यदि सुखं किञ्चित् स्वल्पम् अस्ति किम्? वदत । While in the womb, one stays amidst filth in a restricted form with difficulty; during youth, enjoyment is mixed with the pain of being away from the beloved; old age is also unpleasant being mocked at by smiling ladies with beautiful eyes. O men! Tell me, is there any tiny bit which is pleasant in this worldly life?  
व्याघ्रीव तिष्टति जरा परितर्जयन्तीरोगाश्च शत्रव इव प्रहरन्ति देहम् ।आयुः परिस्रवति भिन्नघटादिवाम्भोलोकस्तथाप्यहितमाचरतीति चित्रम् ॥ वै-३८ ॥अ: जरा परितर्जयन्ती व्याघ्री इव तिष्ठति, रोगाः च देहं शत्रवः इव प्रहरन्ति, आयुः भिन्न-घटात् अम्भः इव परिस्रवति, तथा अपि लोकः अहितम् आचरति इति चित्रम् ।Old age waits upon one threatening like a tigress; diseases strike the body like enemies; span of life leaks away like water from a broken pot; it is strange that even then people act in a harmful manner.
भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवःतत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।आशापाशशतोपशान्तिविशदं चेतः समाधीयतांकामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ वै-३९ ॥अ: रे लोकाः! बहु-विधाः भोगाः भङ्गुर-वृत्तयः, तैः एव अयं भवः । तत् कस्य कृते इह परिभ्रमत? चेष्टितैः कृतम् । अस्मद् वचः श्रद्धेयं यदि, आशा-पाश-शत-उपशान्ति-विशदं चेतः काम-उत्पत्ति-वशात् स्व-धामनि समाधीयताम् ।O people!  All types of pleasures are of temporary nature; all the worldly problems are because of them only. For what purpose do you all run around? Stop your activities. If you have faith in what we say, bring your mind cleared by the cessation of hundreds of desires to meditate on the dwelling of your soul.
- - - -
Categories: Other Language Links

Bhartruhari's Shatakas-13

Sat, 08/08/2015 - 15:45
भर्तृहरिशतकत्रयी-१३
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ नी-३४ ॥अ: वित्तस्य तिस्रः गतयः भवन्ति, दानं भोगः नाशः । यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ।There are three paths for money: giving away, enjoying or loss. A person who neither gives away or enjoys will have the third option. 
मणिः शाणोल्लीढः  समरविजयी हेतिदलितोमदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।कलाशेषश्चन्द्रः सुरतमृदिता बालवनितातनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥ नी-३५ ॥अ: शाण-उल्लीढः मणिः, हेति-दलितः समर-विजयी, शरदि आश्यान-पुलिना सरित्, कला-शेषः चन्द्रः, सुरत-मृदिता बाल-वनिता, अर्थिषु गलित-विभवाः नराः तनिम्ना शोभन्ते । A gem polished by a grinding stone, a conqueror in the battle wounded by a weapon, a river with dried up sand in autumn, moon  with only a sixteenth part visible, a young damsel exhausted by amorous dalliances, men who have lost a fortune by giving away to the deserving, all these appear lustrous in their leanness.
परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतयेस पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् ।अतश्चानेकान्ता गुरुलघुतयार्थेषु धनिनाम्अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ नी-३६ ॥अ: परिक्षीणः कश्चित् यवानां प्रसृतये स्पृहयति, पश्चात् सम्पूर्णः सः धरित्रीं तृणसमां कलयति ।अतः धनिनाम् अवस्थाः अर्थेषु गुरु-लघुतया अनेकान्ताः (सन्तः) वस्तूनि प्रथयति सङ्कोचयति च ।One who has lost everything wishes for a handful of corn; later when he becomes rich he considers landed property as straw. Thus the state of  a wealthy person being high or low expands or contracts (the value of) things.   --दिश वनहरिणेभ्यो वंशकाण्डच्छवीनांकवलमुपलकोटिच्छिन्नमूलं कुशानाम् ।शकयुवतिकपोलापाण्डुताम्बूलवल्ली-दलमरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ शृ-३४ ॥अ: वंश-काण्ड-छवीनां कुशानां उपल-कोटि-छिन्न-मूलं वन-हरिणेभ्यः दिश, वा अरुण-नख-अग्रैः पाटितं शक-युवति-कपोल-आपाण्डु-ताम्बूल-वल्ली-दलं वधूभ्यः दिश । Either provide to forest deer roots having the colour of bamboo stems cut by the sharp edges of a stone or provide to (your) young wives betel leaves which are slightly whitish like the cheeks of Shaka women and which have been cut by red tips of nails. [ Either lead the life of a hermit or be a house holder. Shakas refer to a foreign race who conquered parts of India and established kingdoms.]
असाराः सर्वे ते विरतिविरसाः पापविषयाजुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।तथाप्येतद्भूमौ न हि परहितात्पुण्यमधिकंन चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ शृ-३५ ॥अ: सर्वे ते पाप-विषयाः विरति-विरसाः इति वा सकल-दोष-आस्पदम् इति वा जुगुप्स्यन्ताम् । तथा अपि एतत्-भूमौ पर-हितात् अधिकं पुण्यं नहि । अस्मिन् संसारे कुवलय-दृशः रम्यम् अपरं न । You may feel a sense of disgust saying that all things end up being tasteless or they harbour all sorts of faults. Yet in this world there is nothing more pious than doing good to others and there is nothing more pleasant than blue-lotus-eyed ladies.
मात्सर्यमुत्सार्य विचार्य कार्य-मार्याः समर्यादमिदं वदन्तु ।सेव्या नितम्बाः किमु भूधराणाम्उत स्मरस्मेरविलासिनीनाम् ॥ शृ-३६ ॥अ: आर्याः मात्सर्यम् उत्सार्य  कार्यं विचार्य समर्यादम् इदं वदन्तु, “भूधराणां नितम्बाः किमु सेव्याः, उत स्मर-स्मेर-विलासिनीनां (नितम्बाः)?” Gentlemen! Casting off jealousy and after deliberation please tell, “ Is it better to go behind kings serving them or go behind coquettish ladies with captivating smiles?” --भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता ।तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ वै-३४ ॥अ: भोगाः तुङ्ग-तरङ्ग-भङ्ग-तरलाः, प्राणाः क्षण-ध्वंसिनः यौवन-सुख-स्फूर्तिः स्तोकानि एव दिनानि प्रियासु स्थिता । (हे) बोधकाः बुधाः, तत्-संसारम् असारम् एव इति बुद्ध्वा लोक-अनुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ।Pleasures are as unsteady as high waves; life can get terminated in a moment; manifestation of youthful happiness rests in ladies only for a few days. Therefore, O learned preceptors!  having understood that this worldly life is worthless please attempt (to provide salvation to the ordinary folk) with a benevolent attitude towards them.  
भोगा मेघवितानविलसत्सौदामिनीचञ्चलाआयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतंयोगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विदध्वं बुधाः ॥ वै-३५ ॥अ: (हे) बुधाः! भोगाः मेघ-वितान-विलसत्-सौदामिनी-चञ्चला, आयुः वायु-विघट्टित-अब्ज-पटली-लीन-अम्बुवत् भङ्गुरम्, तनु-भृताम् यौवन-लालसाः लोलाः इति आकलय्य धैर्य-समाधि-सिद्ध-सुलभे बुद्धिं विदध्वम् ।  O Scholars!  Pleasures are as unsteady as lightening in a canopy of clouds; longevity is as fragile as the water clinging to the little stalk of a lotus being thrashed by winds; youthful attachments of men are transient. Having known all this in totality concentrate your minds on (salvation) which is easy to attain with fortitude and meditation.  
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीःअर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतंब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ वै-३६ ॥अ: आयुः कल्लोल-लोलं, यौवन-श्रीः कतिपय-दिवस-स्थायिनी, अर्थाः संकल्प-कल्पाः, भोग-पूगाः घन-समय-तडित्-विभ्रमाः, प्रियाभिः प्रणीतं  यत् कण्ठ-आश्लेष-उपगूढं तत् अपि न चिरम् ।भव-अम्बोधि-पारं तरीतुं ब्रह्मणि आसक्ता भवत । Longevity is as fragile as waves; the grandeur of youth stays only for a few days; wealth is as transient as our desires; the multitudes of pleasures have the playfulness of lightening in rainy season. Even the tight embraces offered by your ladies are temporary; please concentrate on Brahman in order to cross the ocean of worldly life.
- - - - 
Categories: Other Language Links

Bhartruhari's Shatakas-12

Sat, 08/01/2015 - 16:28
भर्तृहरिशतकत्रयी-१२
अथ अर्थपद्धतिः( Section on money matters)जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतांशीलं शैलतटात्पतत्वभिजनो सन्दह्यतां वह्निना ।शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलंयेनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ नी-३१ ॥अ: जातिः रसातलं यातु, गुण-गणः तत्र अपि अधः गच्छताम्, शीलं शैल-तटात् पततु, अभिजनः वह्निना सन्दह्यताम्, वैरिणि शौर्ये वज्रम् आशु पततु, येन एकेन विना इमे समस्ताः गुणाः तृण-लव-प्रायाः (सः) अर्थः केवलम् नः अस्तु,Let caste go to the nether world, let the group of virtues go further down, let good conduct fall from the plateau of a mountain, let noble descent burn in fire, let money only be with us without which all these qualities are just worthless ( a tiny bit of grass).
यस्यास्ति वित्तं स नरः कुलीनःस पण्डितः स श्रुतवान् गुणज्ञः ।स एव वक्ता स च दर्शनीयःसर्वे गुणाः काञ्चनमाश्रयन्ति ॥ नी-३२ ॥अ: यस्य वित्तम् अस्ति सः नरः कुलीनः,सः श्रुतवान् पण्डितः, सः गुणज्ञः, सः एव वक्ता, सः दर्शनीयः च, सर्वे गुणाः काञ्चनम् आश्रयन्ति ।Who has money becomes a person of high descent , a scholar well-versed in scriptures, one who values good qualities, an orator and a handsome person. All qualities seek refuge in Gold.
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्  विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयात्मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम् ॥ नी-३३ ॥अ: नृपतिः दौर्मन्त्र्यात् विनश्यति, यतिः सङ्गात्, सुतः लालनात्, विप्रः अनध्ययनात्, कुलं कु-तनयात्, शीलं खल-उपासनात्, ह्रीः मद्यात्, कृषिः अपि अनवेक्षणात्, स्नेहः प्रवास-आश्रयात्, मैत्री अप्रणयात्, समृद्धिः अनयात्, धनं प्रमादात् त्यागात् च (विनश्यति) ।A king gets destroyed due to bad counselling, an ascetic due to his associates, a son due to pampering, a Brahmin due to neglect of studies, a family due to a bad son, ones conduct due to bad company, sense of shame due to drinking, agriculture due to inattention, love due to being away, friendship due to lack of affection, opulence due to wrong policies, money due to mistakes and being very charitable.--संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क-व्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं संविदध्युः ।यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राःप्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ शृ-३१ ॥अ: यदि एताः प्र-उद्यत्-इन्दु-द्युति-निचय-भृतः अम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमत्-मध्य-भाजः तरुण्यः न स्युः, अमल-धियः अस्मिन् असारे संसारे कु-नृपति-भवन-द्वार-सेवा-कलङ्क-व्यासङ्ग-व्यस्त-धैर्यं मानसं कथं संविदध्युः? In this worthless worldly life, why would persons of pure mind lose their fortitude by waiting at the doors of vile kings had there been no young women with waists bent due to the weight of their breasts, with swinging gold girdles, with lotus-like eyes and who have the lustre of a rising moon? [ Even good persons have to undergo tribulations of serving lowly people for the sake of earning the favour of beautiful women.]  सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमेगङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनोयद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ शृ-३२ ॥अ: सिद्ध-अध्यासित-कन्दरे हर-वृष-स्कन्ध-अवरुग्ण-द्रुमे गङ्गा-धौत-शिलातले हिमवतः स्थाने श्रेयसि स्थिते, यत् स्मर-अस्त्रं वित्रस्त-कुरङ्ग-शाव-नयनाः स्त्रियः न स्युः (यदि), कः मनस्वी जनः शिरः म्लानं प्रणाम-मलिनं कुर्वीत?When there are propitious Himalayan abodes in the caves inhabited by realized souls where trees are damaged by the back of Siva’s bull and where rocks are washed by river Ganga who would make their heads withered and dirtied by (frequent) bowing down (to the wealthy)?
संसार तवपर्यस्तपदवी न दवीयसी ।अन्तरा दुस्तरा न स्युः यदि ते मदिरेक्षणाः ॥ शृ-३३ ॥अ: संसार! तव पर्यस्त-पदवी न दवीयसी (स्यात्) यदि ते अन्तरा दुस्तराः मदिरेक्षणाः न स्युः ।O worldly life! Your far end would not be distant if only there were no women with intoxicated eyes in between who are difficult to cross over. --अथ भोगास्थैर्यवर्णनम्(Impermanence of worldly pleasures)
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयंमाने दैन्यभयं बले रिपुभयं रूपे जराया भयम्।शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयम्सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ वै-३१ ॥अ: भोगे रोग-भयं, कुले च्युति-भयं, वित्ते नृ-पालात् भयं, माने दैन्य-भयं, बले रिपु-भयं, रूपे जराया भयं, शास्त्रे वादि-भयं, गुणे खल-भयं, काये कॄतान्तात् भयं, सर्वं वस्तु भय-अन्वितं, भुवि नृणां वैराग्यम् एव अभयम् ।There is the fear of diseases in worldly pleasures; in case of family nobility there is the fear of its being stained; in case of wealth there is the fear of its being taken away by the king; in case of self respect there is the fear of becoming miserable; in case of an army there is the fear of an enemy; in case of handsomeness there is the fear of old age; in case of scholarship there is the fear of being defeated by an opponent; in case of virtue there is the fear of the wicked; in case of human body there is the fear of death; everything in this world is full of fear, it  is only in renunciation that there is no fear.
आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनंसन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैःअस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ॥ वै-३२ ॥अ: जन्म मरणेन आक्रान्तम्, अति-उज्ज्वलं यौवनं जरसा च, सन्तोषः धन-लिप्सया, शम-सुखं प्रौढ-अङ्गना-विभ्रमैः, गुणाः मत्सरिभिः लोकैः, वन-भुवः व्यालैः, नृपाः दुर्जनैः, विभूतयः अपि अस्थैर्येण उपहताः । किं वा केन न ग्रस्तम् ?Birth is overrun by death, bright youth by old age, happiness by desire for money, joy of peace by the attractions of mature women, virtues by envious people, forests by wild animals, kings by wicked people, glories are weakened by impermanence. What is that is not eclipsed by something else?
आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ वै-३३ ॥अ: जनस्य आरोग्यं विविधैः आधि-व्याधि-शतैः उन्मूल्यते । यत्र लक्ष्मीः तत्र व्यापदः विवृत-द्वाराः इव पतन्ति । मृत्युः जातं जातं अवश्यं आशु आत्मसात् विवशं करोति । तेन निरङ्कुशेन विधिना यत् सुस्थिरं तत् निर्मितं किम्?
Health of people is uprooted by hundreds of mental and physical afflictions. Wherever there is wealth misfortunes fall in as if through an open door. Death quickly and compulsorily takes control of every life born. Has the uncontrolled creator created anything which is firm and stable?- - - - 
Categories: Other Language Links

Bhartruhari's Shataka's-11

Sat, 07/25/2015 - 16:09
भर्तृहरिशतकत्रयी-११
It is not proper for a person to run away from disaster to save one’s life when his kith and kin are suffering:वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।तुषाराद्रेः सूनोरहह पितरि क्लेशविवशेन चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ नी-२८ ॥अ: तुषार-अद्रेः सूनोः प्राण-उच्छेदः वरम् । पितरि उद्गच्छत्-बहुल-दहन-उद्गार-गुरुभिः स-मद-मघवन्-मुक्त-कुलिश-प्रहारैः क्लेश-विवशे पयसां पत्युः पयसि असौ सम्पातः न उचितः । It would be better for Mainaka, the son of Himavat to breath his last. It is not proper that he should fall into the waters of the ocean when his father is in distress due to the strikes of thunder bolt released by Indra accompanied by the loud noises of the fire. [ The poet refers to the mythological story of Mainaka taking shelter in the ocean to avoid the thunder bolts of Indra.]
The poet puns on the word “paada”:यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ नी-२९ ॥अ: इन-कान्तः अचेतनः अपि सवितुः पादैः स्पृष्टः प्रज्वलति (इति) यत् , तत् तेजस्वी पुरुषः पर-कृत-निकृतिं कथं सहते (इति द्योतयति) । The lens though lifeless fires up when touched by the rays (feet) of the sun. How can a powerful person tolerate wicked conduct of another person?
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः ॥ नी-३० ॥अ: सिंहः शिशुः अपि मद-मलिन-कपोल-भित्तिषु गजेषु निपतति । सत्त्ववतां इयं प्रकृतिः, तेजसां वयः हेतुः न खलु । Even a lion’s cub attacks elephants whose temples have become dirty due to the flow of ichor. It is the nature of the powerful; age is not a reason for valorous action.--A friend addresses a king:राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानंकोवार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनाम्आक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ शृ-२८ ॥अ: राजन्! जगति कश्चित् एव तृष्णा-अम्बु-राशेः अवसानं न गतः हि । स्व-वपुषि  स-अनुरागे यौवने  गलिते, प्रभूतैः अर्थैः कः वा अर्थः? (यावत्) जरया आक्रम्य आक्रम्य रूपं न लुप्यते तावत् विकसित-कुमुद-इन्दीवर-आलोकिनीनां प्रेयसीनां सद्म गच्छामः ।O king! No one in this world has seen the end of the ocean of desire; what is the meaning of plenty of money when one has lost lovely youth? Well before our forms are lost due to the onslaught of old age, let us go to the residence of our beloved girls who look like blossoming red and blue lotuses.
रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतुःमोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धंलोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ शृ-२९ ॥अ: अस्मिन् लोके यौवनात् अन्यत्, रागस्य एकम् आगारं, नरक-शत-महा-दुःख-संप्राप्ति हेतुः, मोहस्य उत्पत्ति-बीजं, ज्ञान-तारा-अधिपस्य जलधर-पटलं, कन्दर्पस्य एक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं, अनर्थ-व्रज-कुल-भवनं न अस्ति । There is nothing in this world other than youth which acts as the residence of passion, which is the cause of severe grief equivalent to hundreds of hell, which acts as the seed for mental delusion, which acts as a spread of clouds to moon-like knowledge, which is the sole friend of cupid and which is a continuous series of well known various clear defects and which acts as a community hall for all worthless things.
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसिप्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौधन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने ॥ शृ-३० ॥अ: कः अपि धन्यः नवे यौवने प्राप्ते, शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि प्रद्युम्न-प्रिय-बान्धवे चतुर-वाक्-मुक्ताफल-उदन्वति  सौभाग्य-लक्ष्मी-निधौ तन्वी-नेत्र-चकोर-पार्वण-विधौ  विक्रियां न कलयते । He is indeed a rare fortunate person who does not get disturbed at the arrival of youth which acts as rain bearing cloud to the tree of romance, which is a quick moving stream of playfulness, which is a dear relative to Manmatha, which is an ocean for pearl-like witty sayings, which acts as full moon to the chakora-like eyes of slender ladies and which is a treasury of the goddess of prosperity.   --ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजोयेचाल्पत्वं दधति विषयापेक्षपर्याप्तबुद्धेः ।तेषामन्तः स्फुरितहसितं वासराणि स्मरेयंध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ वै-२८ ॥अ: ये धन-पति-पुरः प्रार्थना-दुःख-भाजः, ये च विषय-अपेक्ष-पर्याप्त-बुद्धेः अल्पत्वं दधति, तेषां वासराणि शिखरि-कुहर-ग्राव-शय्या-निषण्णः ध्यान-छेदे अन्तः-स्फुरत-हसितं स्मरेयम् ।When meditation is broken while seated on a rock in a cave of a hill, I should remember smiling internally the days of those who undergo the grief of begging in front of the wealthy and those who bear the smallness of mind contented with the worldly desires.
ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदोये त्वन्ये धनलुब्धसङ्कुलधियस्तेषां न तृष्णा हता ।इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदांस्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे  रोचते ॥ वै-२९  ॥अ: ये सन्तोष-निरन्तर-प्रमुदिताः तेषां मुदः न भिन्नाः, अन्ये ये धन-लुब्ध-सङ्कुल-धियः तेषां तृष्णा न हता । इत्थं (स्थिते) स्व-आत्मनि एव समाप्त-हेम-महिमा मेरुः कस्य कृते कृतः? तादृक् सम्पदां पदं मे न रोचते । Happiness of those who are all the time happy is not broken; and the greed of those whose mind is full of avarice for wealth is not killed. For whose sake is Meru mountain the fame of whose gold is only meant for itself created? I do not like that type of wealth.
भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतोदुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनंशम्भोः सत्त्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ वै-३० ॥अ: योगीश्वराः अ-दैन्यम् अ-प्रति-सुखं सर्वतः भीति-छिदं दुर्-मात्सर्य-मद-अभिमान-मथनं दुःख-ओघ-विध्वंसनं सर्वत्र अनु-अहम् अ-प्रयत्न-सुलभं साधु-प्रियं पावनं शम्भोः सत्त्रं अवार्यम् अक्षय-निधिं भिक्षा-आहारं शंसन्ति ।
The great saints speak of living on alms as not being mean, a pleasure to which there is no equal, which cuts off all round fear, which destroys haughtiness, intoxication and jealousy, which vanquishes the flood of unhappiness, which is available easily without effort, which is dear to the virtuous, which purifies, which is a homage to Siva and which is an irresistible inexhaustible treasure. - - - -
Categories: Other Language Links

Bhartruhari's Shatakas-10

Sat, 07/18/2015 - 16:04
भर्तृहरिशतकत्रयी-१०
कुसुमस्तबकस्येव द्वयी वृत्तिः मनस्विनः ।मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ नी-२५ ॥अ:मनस्विनः वृत्तिः कुसुम-स्तबकस्य इव द्वयी; सर्वलोकस्य मूर्ध्नि (शोभते)वा वने एव शीर्यते ।Mode of conduct of the wise is of two kinds like that of a bunch of flowers, either assuming its position at the head of all or languishing in a forest.
सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाःतान्प्रत्येष विशेषविक्रमरुची राहुर्नवैरायते ।द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ नी-२६ ॥अ: भ्रातः पश्य, बृहस्पति-प्रभृतयः अन्ये अपि संभाविताः पञ्चषाः सन्ति; एषः विक्रम-रुची दानव-पतिः राहुः तान् प्रति न वैरायते; शीर्ष-अवशेष-आकृतिः पर्वणि भास्वरौ दिवाकर-निशा-प्राण-ईश्वरौ द्वौ एव ग्रसते ।Look, brother. There are others like Jupiter, five or six in number who are (equally) respected; this chief of demons, Rahu, who is fond of being valorous does not show enmity towards them; with only his head remaining in his form he swallows the bright sun and the bright moon during the full moon and the new moon.    वहति भुवनश्रेणिं शेषः फणाफलकस्थितांकमठपतिना मध्येपृष्ठं सदा स च धार्यते ।तमपि कुरुते क्रोडाधीनं पयोधिरनादरात्अहह महतां निःसीमानश्चरित्रविभूतयः ॥ नी-२७ ॥अ: शेषः फणा-फलक-स्थितां भुवन-श्रेणिं वहति; सः च कमठ-पतिना मध्ये-पृष्ठं धार्यते च ; पयोधिः तम् अपि अनादरात् क्रोड-अधीनं कुरुते; महतां चरित्र-विभूतयः निःसीमानः, अहह । Adisesha carries the whole set of worlds on his broad and flat hood; he is carried by the great tortoise on its back; the ocean nonchalantly carries it in its hollows. The manifestations of the conduct of the great are really boundless. What a wonder! --उरसि निपतितानां स्रस्तधम्मिल्लकानांमुकुलितनयनानां किञ्चिदुन्मीलितानाम्  ।उपरिसुरतखेदस्विन्नगण्डस्थलानाम्अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ शृ-२५ ॥अ: भाग्यवन्तः उरसि निपतितानां, स्रस्त-धम्मिल्लकानां, मुकुलित-नयनानां, किञ्चित् उन्मीलितानां, उपरि-सुरत-खेद-स्विन्न-गण्डस्थलानाम् वधूनां अधर-मधु पिबन्ति ।The fortunate drink the sweet lips of their young wives who have fallen on their chests with their braided hair slipping away, with their eyes closed like a bud but ever slightly opened and with their temples wet with sweat due to the exhausting reverse amorous pleasures.
आमीलितनयनानाम् यः सुरतरसोऽनु संविदं भाति ।मिथुनैर्मिथोऽवधारितमवितथमेव कामनिर्वहणम् ॥ शृ-२६ ॥अ: आमीलित-नयनानां यः अनु संविदं भाति (सः) सुरतरसः;  मिथुनैः मिथः अवधारितं काम-निर्वहणं अवितथम् एव ।Sexual pleasure is that which flows between consenting couple with their eyes slightly closed. A sexual encounter mutually agreed to will indeed be not futile.
इदमनुचितमक्रमश्च पुंसांयदिह जरास्वपि मान्मथा विकाराः ।तदपि च न कृतं नितम्बिनीनांस्तनपतनावधि जीवितं रतं वा ॥ शृ-२७ ॥अ: पुंसां जरासु अपि मान्मथाः विकाराः इति यत्, तत् इदं अनुचितम् अक्रमः च। नितम्बिनीनां स्तन-पतन-अवधि जीवितं रतं वा न कॄतं इति यत् तत् अपि (अनुचितम्) ।It is indeed improper and not in order that men have sexual cravings even in old age. Similarly it is not right that women’s longevity or desire for sex is not restricted to the age when breasts sag.  --किं कन्दाः निर्झरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यःप्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानांदुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ वै-२५ ॥अ: निर्झरेभ्यः कन्दाः, निर्झराः गिरिभ्यः प्रलयम् उपगताः किम्? तरुभ्यः सरस-फल-भृतः वल्कलिन्यः च शाखाः प्रध्वस्ता वा? यत् अपगत-प्रश्रयाणां खलानां दुःख-आप्त-स्वल्प-वित्त-स्मय-पवन-वश-आनर्तित-भ्रू-लतानि मुखानि (याचकैः) वीक्ष्यन्ते ।Have the bulbous roots vanished from mountain streams or streams have vanished from mountains or branches of trees with their barks and juicy fruits have been destroyed that people are fondly looking at faces of the wicked persons devoid of modesty and whose creeper-like eye-brows dance due to the gale like smile caused by having earned some wealth with great difficulty?     
पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुनाभूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।क्षुद्राणामविवेकगूढमनसां यत्रेश्वराणां सदावित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ वै-२६ ॥अ: अधुना पुण्यैः मूलफलैः प्रणयिनीं वृत्तिं कुरुष्व; तथा अ-कृपणैः नव-पल्लवैः भूशय्यां कुरुष्व; उत्तिष्ठ, वनं यावः यत्र अविवेक-गूढ-मनसां वित्त-व्याधि-विकार-विह्वल-गिरां क्षुद्राणां ईश्वराणां नाम सदा अपि न श्रूयते । Adopt  a lovely way of life by (enjoying) roots and fruits; sleep on the ground with tender sprouts as bed; let us go to  the forest where not even the name of the small minded wealthy persons whose mind is closed due to absence of discrimination and whose manner of speaking is affected by a disease called money is heard.
फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहांपयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।मृदुस्पर्शा शय्या सुललितलतापल्लवमयीसहन्ते सन्तापं तदपि धनिनां द्वारि कॄपणाः ॥ वै-२७ ॥अ: प्रति-वनं अखेदं स्वेच्छा-लभ्यं क्षितिरुहां फलम्, पुण्य-सरितां शिशिर-मधुरं पयः स्थाने स्थाने (स्वेच्छा-लभ्यम्); सु-ललित-लता-पल्लव-मयी मृदु-स्पर्शा शय्या; तत् अपि कृपणाः धनिनां द्वारि सन्तापं सहन्ते ।
In every forest there are fruits of trees which are easily available as much as desired; at frequent intervals is available cold and sweet water from pious rivers; there is bed which is soft to touch and made of sprouts of lovely creepers; even then wretched people undergo troubles at the door of the wealthy.  - - - - 
Categories: Other Language Links

Bhartruhari's shatakas-9

Sat, 07/11/2015 - 16:16
भर्तृहरिश्तकत्रयी-९
स्वल्पस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोःश्वा लब्द्वा परितोषमेति  न च तत्तस्य क्षुधाशान्तये ।सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपंसर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ नी-२२ ॥अ: श्वा स्वल्प-स्नायु-वस-अवसेक-मलिनं निर्मांसम् अस्थि अपि लब्ध्वा परितोषम् एति, तु तत् तस्य क्षुधा-शान्तये न (भवति) । सिंहः अङ्कम् आगतं जम्बुकम् अपि त्यक्त्वा द्विपं निहन्ति । सर्वः जनः क्रुच्छ्र-गतः अपि सत्त्व-अनुरूपं  फलं वाञ्छति । A dog feels happy to get a flesh-less bone dirtied by remnants of a bit of ligament and marrow although it does not satisfy its hunger.  A lion kills an elephant leaving a fox which has landed on its lap. Persons seek fruits according to their own status even if they are in difficulties.
लाङ्गूलचालनमधश्चरणावपातंभूमौ निपत्य  वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तुधीरं विलोकयति छाटुशतैश्च भुङ्क्ते ॥ नी-२३ ॥अ: श्वा लाङ्गूल-चालनं अधः-चरण-अवपातं भूमौ निपत्य वदन-उदर-दर्शनं च पिण्डदस्य (पुरतः) कुरुते | गज-पुङ्गवः तु धीरं विलोकयति, चाटु-शतैः च भुङ्क्ते ।A dog wags its tail, shows its face and stomach falling at the feet of the person who feeds it. But an elephant looks  majestically and eats after being cajoled by graceful words.
परिवर्तिनि संसारे मॄतः को वा न जायते ।स जातो येन जातेन याति वंशः समुन्नतिम् ॥ नी-२४ ॥अ: परिवर्तिनि संसारे मृतः कः वा न जायते? येन जातेन वंशः समुन्नतिं याति, सः जातः ।In this cycle of life, who is not born again after dying? The birth of a person who elevates his dynasty is indeed  the birth.--अदर्शने दर्शनमात्रकामादृष्ट्वा परिष्वङ्गसुखैकलोला ।आलिङ्गितायां पुनरायताक्ष्या-माशास्महे विग्रहयोरभेदम् ॥ शृ-२२ ॥अ: (वयं) अदर्शने दर्शन-मात्र-कामाः, दृष्ट्वा परिष्वङ्ग-सुख-एक-लोलाः, पुनः आयताक्ष्याम् आलिङ्गितायाम् विग्रहयोः अभेदम् आशास्महे । When the wide-eyed lady is not seen we desire to see her, having seen we desire to embrace her, after embracing we seek  the union of the bodies.
मालती शिरसि जृम्भणं मुखेचन्दनं वपुषि कुङ्कुमाविलम् ।वक्षसि प्रियतमा मदालसास्वर्ग एष परिशिष्ट आगमः ॥ शृ-२३ ॥अ: शिरसि मालती, मुखे जृम्भणम्, वपुषि कुङ्कुम-आविलं चन्दनम्, बक्षसि मद-आलसा प्रियतमा, एषः स्वर्गः, परिशिष्टः आगमः ।Jasmine for the hair, a yawn on the face, body smeared with sandal paste full of saffron, a languorous passionate dear lady to hug and that is heaven, rest is just (bookish) knowledge.
प्राङ्मा मेति मनागनागतरसं जाताभिलाषं ततःसव्रीडं तदनु श्लथोद्यममथ प्रध्वस्तधैर्यं पुनः ।प्रेमार्द्रम् स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततोनिःसङ्गाङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्री रतम् ॥ शृ-२४ ॥अ: कुलस्त्री-रतं प्राक् अनागत-रसं मनाक् मा मा इति, ततः जात-अभिलाषं स-व्रीडं तदनु श्लथ-उद्यमं पुनः प्रध्वस्त-धैर्यं, ततः प्रेम-आर्द्रं स्पृहणीय-निर्भर-रहः-क्रीडा-प्रगल्भम् निःसङ्ग-अङ्ग-विकर्षण-अधिकसुखं रम्यम् ।  Saying “no,no” weakly when the desire is not yet risen, then becoming desirous shyly and with weak physical resistance and with loss of courage (to resist) and then enjoying secret carefree mature dalliances and unobstructed bodily searches render sex with ones chaste woman a great pleasure. --अभिमतमहामानग्रन्थिप्रभेदपटीयसीगुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।विपुलविलसल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ वै-२२ ॥अ: इयं दुष्पूरा जठर-पिठरी अभिमत-महा-मान-ग्रन्थि-प्रभेद-पटीयसी गुरुतर-गुण-ग्राम-अम्भोज-उज्ज्वल-चन्द्रिका विपुल-विलसत्-लज्जा-वल्ली-वितान-कुठारिका विडम्बनं करोति । This store room of a belly which is difficult to fill up, which is skilful in breaking the cherished knot called self respect, which acts as bright moonlight to the lotus of weighty and good qualities and which acts as an axe to the large glittering collection of creepers makes fun of us.
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिंह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तोमानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ वै-२३ ॥अ: क्षुधा-आर्तः मानी उदर-दरी-पूरणाय पुण्ये ग्रामे महति वने वा सित-पट-छन्न-पालिं कपालिं आदाय न्याय-गर्भ-द्विज-हुत-हुतभुक्-धूम-धूम्र-उपकण्ठे द्वारं द्वारं प्रविष्टः प्राणैः सनाथः वरम्, न पुनः अनु-दिनं तुल्य-कुल्येषु दीनः (वरम्) ।It is better for a person of self respect who is hungry to manage to breathe and fill his stomach by entering door after door near a village which has become gray with the smoke of fire-offerings made by dutiful Brahmins rather than be miserable among his relatives.
गङ्गातरङ्गकणशीकरशीतलानिविद्याधराध्युषितचारुशिलातलानि ।स्थानानि किं हिमवतः प्रलयं गतानियत्सावमानपरपिण्डरता मनुष्याः ॥ वै-२४ ॥अ: मनुष्याः स-अवमान-पर-पिण्ड-रताः (इति) यत्, गङ्गा-तरङ्ग-कण-शीकर-शीतलानिविद्याधर-अध्युषित-चारु-शिलातलानि हिमवतः स्थानानि प्रलयं गतानि किम्?
Is it that the Himalayan abodes which are cooled by the spray of the waves of Ganga and where Vidyadharas dwell on beautiful rocks have been lost in floods that people have become dependent on others for their daily bread? [ Vidyadharas are a kind of supernatural beings having magical powers and attending on Siva.]- - - - 
Categories: Other Language Links

Bhartruhari's Shatakas-8

Sat, 07/04/2015 - 16:22
भर्तृहरिसुभाषितत्रिशती-८
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्मानोन्नतिं दिशति पापमपाकरोति ।चेतः प्रसादयति  दिक्षु तनोति कीर्तिंसत्सङ्गतिः कथय किन्न करोति पुंसाम् ॥ नी-१९ ॥अ: सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मान-उन्नतिं दिशति, पापम् अपाकरोति, चेतः प्रसादयति, दिक्षु कीर्तिं तनोति। (सत्सङ्गतिः) पुंसां किम् न करोति, कथय  ।Company of the virtuous persons removes the lethargy of mind, soaks speech with truth, guides for attaining higher respect, cancels the past sin, freshens mind and spreads fame in all directions. Tell, what is it that it cannot do?
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।नास्ति तेषां यशःकाये जरामरणजं भयम् ॥ नी-२० ॥अ: सुकृतिनः रस-सिद्धाः ते कवीश्वराः जयन्ति । तेषां यशः-काये जरा-मरण-जं भयम् नास्ति ।  The blessed great poets who have attained the mastery of sentiments flourish. There is no fear of death or old age to their body of fame.
अथ मानशौर्यपद्धतिःSection on valour of self respect
क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि ।मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहःकिं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ नी-२१ ॥अ: मान-महताम् अग्रेसरः केसरी क्षुत्-क्षामः अपि, जरा-कृशः अपि, शिथिल-प्रायः अपि, कष्टां दशाम् आपन्नः अपि, विपन्न-दीधितिः अपि, प्राणेषु नश्यत्सु अपि, मत्त-इभ-इन्द्र-विभिन्न-कुम्भ-पिशित-ग्रास-एक-बद्ध-स्पृहः जीर्णं तृणम् अत्ति किम्?Does a lion which stands tall among those valuing self respect and which is solely desirous of a mouthful of meat of the temple of an elephant  in rut eat withered grass even if it (the lion) is weak due to old age, well nigh tottering, is in difficult circumstance, has lost its lustre with its life ebbing out? -- इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत-प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ।  चिरं चेतश्चोरा अभिनवविकारैकगुरवोविलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ शृ-१९  ॥अ: इमे मृगदृशां तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरत-प्रताप-प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः चिरं चेतःचोराः अभिनव-विकार-एक-गुरवः विलास-व्यापाराः किमपि विजयन्ते । These playful activities of doe-eyed girls which are the fragrances of youthful lustre, the beginnings of adult sexual valour, which act as surety for giving victory to cupid, which steal the minds for long, and which are laden with novel alterations flourish in an un-definable manner.
प्रणयमधुरा प्रेमोदारा रसाश्रयतां गताःफणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनोरहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ शृ-२० ॥अ: मृगीदृशां रहसि स्वैर-आलापाः प्रणय-मधुराः प्रेम-उदाराः रस-आश्रयतां गताः, फणिति-मधुराः मुग्ध-प्रायाः प्रकाशित-सम्मदाः प्रकृति-सुभगाः विस्रम्भ-आर्द्राः स्मर-उदय-दायिनः किम् अपि हरन्ति ।The private care-free utterances of doe-eyed girls sweet with affection, generously loving and replete with the sentiment of love, sweet to hear, well-nigh innocent, expressing exhilaration, lovely by nature, soft with feelings of love and arousing desire in others are attractive in an inexpressible way. अथ सम्भोगवर्णनम्(Description of successful love)विश्रम्य विश्रम्य वनद्रुमाणांछायासु तन्वी विचचार काचित् ।स्तनोत्तरीयेन करोद्धतेननिवारयन्ती शशिनो मयूखान् ॥ शृ-२१ ॥अ: काचित् तन्वी कर-उद्धतेन स्तन-उत्तरीयेन शशिनः मयूखान् निवारयन्ती वनद्रुमाणां छायासु विश्रम्य विश्रम्य विचचार ।A slender lady walked in the shades of forest trees resting frequently while warding off the rays of the moon by raising in hand the bosom-covering garment.--तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरंक्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूंप्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥ वै-१९ ॥अ: जनः आस्ये तृषा शुष्यति शीत-मधुरं सलिलं पिबति; क्षुधा-आर्तः मांस-आदि-कलितं शाली-अन्नं कवलयति; काम-अग्नौ प्रदीप्ते वधूं सुदृढतरम् आलिङ्गति;  व्याधेः प्रतीकारं सुखम् इति विपर्यस्यति ।A person drinks water which is sweet and cold when the mouth gets dried up due to thirst; afflicted by hunger he eats cooked rice mixed with meat etc; when the fire of carnal desire is aflame he embraces his bride tightly; he mistakes as happiness a palliative for a disease.
तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदःकल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।मत्वा विश्वमनश्वरं निविशते संसारकारागृहेसन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ वै-२० ॥अ: अज्ञान-मूढः जनः तुङ्गं वेश्म, सताम् अभिमताः सुताः, सम्पदः संख्या-अतिगाः, दयिता कल्याणी, नवं वयः,  विश्वम् अनश्वरं मत्वा संसार-कारागृहे निविशते । धन्यः तत् अखिलं क्षण-भङ्गुरम् सन्दृश्य सन्न्यस्यति । A person gone astray by ignorance stays in the prison house of family entanglement believing that a lofty mansion, sons admired by the virtuous, un-countable wealth, a beloved worthy of honour, youth and this world are all permanent. A blessed person relinquishes them realizing that all that is perishable in a second.
अथ याच्ञादैन्यदूषणम्(Criticizing begging and meanness)दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बराक्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरंको देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ वि-२१ ॥अ: दीन-मुखैः क्षुधितैः क्रोशद्भिः शिशुकैः सदा एव आकृष्ट-जीर्ण-अम्बरा दीना निरन्न-विधुरा गेहिनी दृश्या न चेत्, कः मनस्वी पुमान् स्व-दग्ध-जठरस्य  अर्थे याच्ञा-भङ्ग-भयेन गद्गद-गलत्-त्रुटत्-विलीन-अक्षरं  देहि इति वदेत् ।If there were no house-wife looking wretched and miserable for want of food with crying hungry children having miserable faces tugging at her old garment, which respectable person begs for food just for the sake of his own burning stomach in broken halting stammering words with the fear that his request may be turned down?  
- - - -
Categories: Other Language Links

Bhartruhari's Shatakas--7

Sat, 06/27/2015 - 15:50
भर्तृहरिशतकत्रयी-७
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।विद्या बन्धुजनो विदेशगमने विद्या परा देवताविद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ नी-१६ ॥अ: विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्,विद्या भोगकरी यशः-सुख-करी, विद्या गुरूणां गुरुः, विद्या विदेशगमने बन्धुजनः, विद्या परा देवता,विद्या राजसु पूज्यते, धनं नहि । विद्याविहीनः पशुः।Education enhances handsomeness; it is a hidden wealth; it enables enjoyments, fame and happiness; it is a preceptor for preceptors; it acts as well-wisher in a foreign country; it is the highest divinity; education and not wealth is respected by kings. A person without education is an animal.
क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनांज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ।किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदिव्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ नी-१७ ॥अ: देहिनां क्षान्तिः चेत् कवचेन किं, क्रोधः अस्ति चेत् अरिभिःकिम्, ज्ञातिः चेत् अनलेन किं यदि सुहृत् दिव्यौषधैः किं फलम् , यदि दुर्जनाः किं सर्पैः यदि अनवद्या विद्या किमु धनैः, यदिव्रीडा चेत् किमु भूषणैः, यदि सुकविता अस्ति राज्येन किम् ?If one has patience, where is the need for any armour?  If there is a paternal relative where is the need for fire? If there is a friend where is the need for divine medicines? If there are vicious persons where is the need for serpents? If there is faultless scholarship where is the need for money?  If there is humility where is the need for ornaments? If there is good poetry where is the need for a kingdom?
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जनेप्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टताये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ नी-१८ ॥अ: स्वजने दाक्षिण्यं, परिजने दया, दुर्जने सदा शाठ्यं, साधुजने प्रीतिः, नृपजने नयः, विद्वत्-जने आर्जवं च , शत्रुजने शौर्यं, गुरुजने क्षमा, कान्ताजने धृष्टता; एवं च ये पुरुषाः कलासु कुशलाः तेषु एव लोकस्थितिः ।Being considerate towards kith and kin; being compassionate towards attendants; being deceitful towards scoundrels; being affectionate towards good persons; being courteous towards royals; being straight  forward towards learned persons; being valorous towards enemies; being indulgent towards elders. This world is dependent upon people who display such skills.-- मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ शृ-१६ ॥अ: सा चन्द्रकान्तेन मुखेन महा-नीलैः शिरोरुहैः, पद्मरागाभ्यां कराभ्यां, रत्न-मयी इव रेजे । With her face as lovely as moon (like moon-stone), her hair deep black (like sapphire), her palms having the colour of lotus (like ruby) she was resplendent as if she was made of precious stones. ( The poet has played on the double meanings of ‘chandrakanta’,’mahanila’ and ‘padmaraga’)
गुरुणा स्तनभारेण मुखचन्द्रेन भास्वता ।शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ शृ-१७ ॥अ: गुरुणा स्तन-भारेण भास्वता मुख-चन्द्रेन शनैः-चराभ्यां पादाभ्यां सा ग्रहमयी इव रेजे ।With the heavy weight of her breasts, her face luminous like moon and her slow pace she looked resplendent as if she was made of planets. (Again pun on words ‘guru’,’chandra’ and ‘Sanaiscara’ is skilfully employed by the poet.)
तस्याः स्तनौ यदि घनौ जघनं च हारिवक्त्रं च चारु तव चित्त किमाकुलस्त्वम् ।पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छापुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ शृ-१८ ॥अ: (हे) चित्त, तस्याः स्तनौ यदि घनौ, जघनं च हारि, वक्त्रं च चारु तव किम्? त्वं किम् आकुलः? तेषु तव वाञ्छा अस्ति चेत् पुण्यं कुरुष्व, पुण्यैः विना समीहित-अर्थाः न भवन्ति हि |Dear mind, if her breasts are heavy, her hips are attractive and her face beautiful what is it for you? Why do you feel disturbed? If you desire them do good deeds. Desired objectives do not materialise without previous good deeds.--स्तनौ मांसग्रन्थी कनककलशावित्युपमितौमुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।स्रवन्मूत्रक्लिन्नं करिवरशिरः स्पर्धि जघनंमुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ वै-१६ ॥अ: स्तनौ मांसग्रन्थी कनककलशौ इति उपमितौ, मुखं श्लेष्म-आगारं तत् अपि च शशाङ्केन तुलितम्, जघनं स्रवन् मूत्र-क्लिन्नं करि-वर-शिरः-स्पर्धि , मुहुः निन्द्यं रूपं कवि-जन-विशेषैः गुरु कृतम् । Breasts which are glands of flesh are compared to golden pitchers; Face which is a store house of phlegm is compared to moon; the private part wet with urine is compared to the head of the best of elephants; a form which should be often reprehended is made lofty by the great poets.
एको रागिषु राजते प्रियतमादेहार्धहारी हरोनीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनःशेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ वै-१७ ॥अ: एकः रागिषु प्रिय-तमा-देह-अर्ध-हारी हरः राजते, यस्मात् परः विमुक्त-ललना-सङ्गः जनः नीरागेषु न (अस्ति) । शेषः दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मुग्धः जनः काम- विडम्बितान् विषयान् भोक्तुं न क्षमः, मोक्तुं (च) न क्षमः । Shiva who has carried half of the body of his beloved shines alone as the foremost among lovers and there is no one who excels him among the passion-free in being detached from the company of women. The rest who are entranced having been affected by the snake-poison of the arrows of irresistible cupid are neither capable of enjoying nor resisting the sensual pleasures accepted on account of cupid.    
अजानन् दाहात्म्यं पततु शलभस्तीव्रदहनेस मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् ।विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ वै-१८ ॥अ: शलभः दाह-आत्म्यम् अजानन् तीव्र-दहने पततु, सः मीनः अपि अज्ञानात् बडिश-युतं पिशितम् अश्नातु, इह एते वयम् कामान् विपत्-जाल-जटिलान् विजानन्तः अपि न मुञ्चामः, मोह-महिमा गहनः अहह ।
 Let the moth fall into the fierce fire not knowing that it burns; let the fish eat the meat not knowing that it is baited; but we, even though fully knowing that desires are entangled in a network of hazards do not forsake them; deep indeed is the power of delusion!- - - -  
Categories: Other Language Links

Bhartruhari's Shatakas-6

Sat, 06/20/2015 - 16:15
भर्तृहरिशतकत्रयी-६
अधिगतपरमार्थान् पण्डितान् मावमंस्थाःतृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।अभिनवमदरेखाश्यामगण्डस्थलानांन भवति बिसतन्तुर्वारणं वारणानाम् ॥ नी-१३ ॥अ: अधिगत-परम-अर्थान् पण्डितान् मा अवमंस्थाः । लक्ष्मीः तान् लघु तृणम् इव न संरुणद्धि । बिस-तन्तुः अभिनव-मद-रेखा-श्याम-गण्डस्थलानां वारणानां वारणं न भवति ।  Do not denigrate scholars who have knowledge of the ultimate wisdom; Goddess of wealth, like a blade of grass does not stop them. A filament of lotus stalk does not act as a restraint to an elephant whose temples have become dark due to the fresh flow of rut.[ This is apparently addressed to a king]
अम्भोजिनीवनविहारविलासमेवहंसस्य हन्ति नितरां कुपितो विधाता ।न त्वस्य दुग्धजलभेदविधौ प्रसिद्धांवैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ नी-१४ ॥अ: विधाता नितरां कुपितः हंसस्य अम्भोजिनी-वन-विहार-विलासम् एव हन्ति । असौ अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां वैदग्ध्य-कीर्तिम् अपहर्तुम् न तु समर्थः । The angry creator may deprive the swan of its playful gait in a lake of lotuses (by drying up the lake). But he is not capable of depriving it of its famed skill in separating milk and water. [ Swans are traditionally thought to have the ability to separate milk from water.]
केर्यूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलान स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यतेक्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम् ॥ नी-१५ ॥अ: केयूराणि पुरुषं न भूषयन्ति, चन्द्र-उज्ज्वलाः हाराः न, अलङ्कृता मूर्धजाः न, स्नानं न, विलेपनं न, कुसुमं न(भूषयति) । एका वाणी या संस्कृता धार्यते पुरुषं सम्-अल्ङ्करोति; अखिल-भूषणानि क्षीयन्ते; वाक्-भूषणं सततं भूषणम् । Bracelets worn on the upper arm do not decorate a person, nor garlands which are as brilliant as moon, nor well groomed hair ; Bath, smearing of perfumes, or wearing of flower does not decorate either; speech delivered in a refined manner decorates a person; all ornaments decay; ornament of speech is the only eternal ornament.-      - मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते ।यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ शृ-१३ ॥अ: मुग्धे! त्वयि (या) अपूर्वा धानुष्कता दृश्यते (सा) इयं का, यया चेतांसि गुणैरेव विध्यसि, न सायकैः?Dear young lady, what a skill you have in archery never seen earlier in that you could pierce minds (of men) with (your) qualities (strings) only and not with arrows.[ The poet plays on word ‘guna’ which means quality and also string. While a normal archer shoots arrows to hit a target, you use ‘guna’ to hit your target, namely minds of men. ]
सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु ।विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ शृ-१४ ॥अ: प्रदीपे सति, अग्नौ सति, तारा-मणि-इन्दुषु सत्सु मे मृगशावाक्ष्या विना इदं जगत् तमोभूतम् ।This world is all darkness without my doe-eyed lady no matter whether there is a light, a fire, stars, gems and the moon.
उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलतेरागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयंमध्यस्थापि करोति तापमधिकं रोमावलिः केन वा ॥ शृ-१५ ॥अ: एषः उद्-वृत्त- स्तन-भारः, तरले नेत्रे, चले भ्रू-लते, इदं राग-अधिष्ठितम् ओष्ठ-पल्लवम् व्यथां कुर्वन्तु नाम; स्वयं पुष्प-आयुधेन सौभाग्य-अक्षर-मालिका इव लिखिता रोम-आवलिः मध्य-स्था अपि केन (कारणेन) अधिकं तापं करोति?Let  this weight of upturned breasts, wavering eyes, unsteady creeper-like eye-brows, this reddened sprout-like lip, trouble us; Why does this line of hair in the middle (indifferent), which looks as if it has been scripted by cupid as the alphabet string of loveliness,  create affliction (in us)? [The poet plays on the word ‘madhyastha’ which can mean ‘situated in the middle’ or ‘indifferent’. He thus brings out an apparent contradiction in that something which is indifferent causes us pain. Such description may appear risqué for modern sensibilities, but is not uncommon in Sanskrit literature.] -      -ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करंयन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।संप्राप्तान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ वै-१३ ॥अ: ब्रह्म-ज्ञान-विवेक-निर्मल-धियः अहो दुष्करं कुर्वन्ति यत् उपभोग-भाञ्जि अपि धनानि निःस्पृहाः एकान्ततः मुञ्चन्ति  । परं वयं पुरा न संप्राप्तान् , संप्रति न (प्राप्यमानान्), प्राप्तौ न दृढ-प्रत्ययान् वाञ्छा-मात्र-परिग्रहान् अपि त्यक्तुं न शक्ताः । It is surprising how those who have a clear mind of discrimination arising out of the knowledge of Brahman become totally free from desire and give up wealth that provides them things of pleasure; we on the other hand are unable to give up craving for things which we never had in the past, are not having now and have no firm hopes of having in future.
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्आनन्दाश्रुकणान् पिबन्ति शकुना निःशङ्कमङ्केशयाः ।अस्माकं तु मनोरथोपरचितप्रासादवापीतट-क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ वै-१४ ॥अ: शकुनाः गिरि-कन्दरेषु वसतां परं ज्योतिः ध्यायतां धन्यानाम् आनन्द-अश्रु-कणान् अङ्के-शयाः निःशङ्कं पिबन्ति । मनोरथ-उपरचित-प्रासाद-वापी-तट-क्रीडा-कानन-केलि-कौतुक-जुषाम् अस्माकं आयुः तु परं क्षीयते ।While the blessed living in mountain caves meditate on the Divine Light and shed tears of joy, birds drink them without any fear lying on their laps; our span of life, on the other hand, decreases  while we imagine in our minds palaces, water pools, pleasure gardens, games and gaiety.
भिक्षाशनं तदपि नीरसमेकवारंशय्या च भूः परिजनो निजदेहमात्रम् ।वस्त्रं विशीर्णशतखण्डमयी च कन्थाहा हा तथापि विषया न परित्यजन्ति ॥ वै-१५ ॥अ: भिक्षा-अशनम्, तत् अपि नीरसम् एकवारं (च), भूः शय्या च, निज-देह-मात्रं परिजनः, वस्त्रं विशीर्ण-शत-खण्ड-मयी कन्था; तथा अपि विषया न परित्यजन्ति हा हा ॥
Food is by begging and it is tasteless and that too only once a day, sleeping is on bare earth, the only kin is one’s own body and the clothing is a rag of hundreds of patches; even then sensual craving does not go away! Alas!- - - - 
Categories: Other Language Links

Bhartruhari's Satakas-5

Sat, 06/13/2015 - 16:31
भर्तृहरिशतकत्रयी-५
शक्यो वारयितुं जलेन हुतभुक्शूर्पेण सूर्यातपःनागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः ।व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रैः प्रयोगैर्विषंसर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ नी-१० ॥अ: हुतभुक् जलेन, सूर्य-आतपः शूर्पेण नागेन्द्रः निशित-अङ्कुशेन , स-मदः गौः गर्दभः (वा) दण्डेन, व्याधिः भेषज-संग्रहेण वारयितुं शक्यः, विषं विविधैः मन्त्रैः प्रयोगैः (च वारयितुं शक्यम्) । सर्वस्य शास्त्र-विहितं औषधम् अस्ति, मूर्खस्य (तु) औषधम् न अस्ति । Fire can be controlled by (using) water, sun’s heat by a winnowing basket, a big elephant by a sharp hook, a berserk bull or donkey by a stick, disease by a set of medicines and poison by use of various incantations. For everything there is a medicine prescribed by scriptures, but there is no medicine for a fool.
अथ विद्वत्पद्धतिः ( Scholarship)
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाविख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।तज्जाड्यं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराःकुत्स्याः स्युः कुपरीक्षकैर्न मणयो यैरर्घतः पातिताः ॥ नी-११ ॥अ: यस्य प्रभोः विषये शास्त्र-उपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेय-आगमाः विख्याताः कवयः निर्धनाः वसन्ति, (तस्य) वसुधाधिपस्य तत् जाड्यम् । सुधियः तु अर्थं विना  अपि ईश्वराः । यैः कु-परीक्षकैः अर्घतः पातिताः, (ते कुत्साः स्युः) मणयः न कुत्स्याः स्युः ।It is the stupidity of a king if famous poets whose elegant sayings are supported by relevant treatises and whose knowledge of scriptures is meant for their disciples live in penury in his kingdom. Scholars are masters even if they have no money. If gems are under-valued it is the fault of the bad gem-examiners and not of gems.
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-प्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ नी-१२ ॥अ: (हे) नृपाः, यत् हर्तुः न गोचरं याति, सर्वदा शं पुष्णाति, अर्थिभ्यः प्रतिपाद्यमानम् अपि अनिशं परां वृद्धिं प्राप्नोति, कल्प-अन्तेषु अपि निधनं न प्राप्नोति, येषां विद्या-आख्यम् अन्तर्-धनं (अस्ति) तान् प्रति मानम् उज्झत । तैः सह कः स्पर्धते?O kings! Do not exhibit haughtiness in front of those (scholars) who have internal wealth called knowledge which cannot be taken away as it cannot be seen, which always bestows wellbeing, which keeps on increasing even when it is transferred to those who seek it and which does not cease to exist even at the end of aeons. Who can compete with them?   नूनं हि ते कविवरा विपरीतवाचोये नित्यमाहुरबला इति कामिनीस्ताः ।याभिर्विलोलतरतारकदृष्टिपातैःशक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ शृ-१० ॥अ: ये कामिनीः अबलाः इति नित्यम् आहुः, ते कवि-वराः विपरीत-वाचः हि नूनं । याभिः विलोलतर-तारक-दृष्टि-पातैः शक्र-आदयः अपि विजिताः ताः अबलाः कथम्?  Those great  poets who constantly tell that women are powerless indeed say perverse things. How can those who conquered even Indra  through their unsteady glances be called “powerless” [abalaa]?
नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ शृ-११ ॥अ: मकर-ध्वजः तस्याः सुभ्रुवः आज्ञा-करः नूनं यतः (सः) तत्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते ।Cupid is indeed a faithful servant of women with beautiful eye-brows, because he proceeds to act based on the signals given through their rolling of eyes.
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचनेअन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ।मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमौइत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥ शृ-१२ ॥ अ: (हे) तन्वि, केशाः संयमिनः, लोचने श्रुतेः अपि पारं गते, अन्तर्-वक्त्रम् अपि स्वभाव-शुचिभिः द्विजानां गणैः कीर्णम्, इमौ वक्षोज-कुम्भौ मुक्तानां सतत-अधिवास-रुचिरौ, इत्थं ते वपुः प्रशान्तम् अपि नः रागं करोति एव ।  Hair on the head is tied up (self-controlled); the eyes extend beyond the ears( have mastered the Vedas); the inside of the mouth is filled with naturally clean teeth ( full of Brahmins who are virtuous by nature); these two pitcher-like breasts look appealing with the continued presence of pearls ( liberated souls); thus although your body displays serenity, it disturbs us.[ The poet skilfully plays on double meaning words संयमिनः, श्रुतेः, द्विजानाम्, मुक्तानाम् and brings out an apparent contradiction.]
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटीतस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ वै-१० ॥अ: आशा नाम नदी मनोरथ-जला, तृष्णा-तरङ्ग-आकुला, राग-ग्राहवती, वितर्क-विहगा, धैर्य-द्रुम-ध्वंसिनी, मोह-आवर्त-सुदुस्तरा, अति-गहना प्रोत्तुङ्ग-चिन्ता-तटी , तस्याः पार-गताः विशुद्ध-मनसः योगि-ईश्वराः नन्दन्ति । Desire is a river which has intentions as water, waves called greed, is infested with crocodiles called lust and birds called doubt, which destroys trees called courage, which is difficult to cross because of whirl pools called delusion, which has steep and high banks called worry. Yogis with pure mind are happy having crossed that river.
अथ विषयपरित्यागविडम्बना ( A critique on discarding sensory pleasures)न संसारोत्पन्नं चरितमनुपश्यामि कुशलंविपाकः पुण्यानां जनयति भयं मे विमृशतः ।महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषयामहान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ वै-११ ॥अ: संसार-उत्पन्नं चरितं कुशलं न अनुपश्यामि । पुण्यानां विपाकः विमृशतः मे भयं जनयति । महद्भिः पुण्य-ओघैः चिर-परिगृहीताः विषयाः च विषयिणां व्यसनं दातुम् इव महान्तः जायन्ते ।I do not see anything good in worldly life. When analyzed, the result of past good deeds frightens me. The sensory pleasures which have been earned for long by a flood of great good deeds in the past will only grow as if to cause sorrow to those clinging to them.
अवश्यं यातारश्चिरतरमुषित्वापि विषयावियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसःस्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ वै-१२ ॥अ: विषयाः चिरतरम् उषित्वा अपि यातारः । वियोगे भेदः कः? जनः स्वयम् अमून् न त्यजति (इति) यत्, स्वातन्त्र्यात् व्रजन्तः  (विषयाः) मनसः अतुल-परितापाय (भवन्ति) ।एते स्वयं त्यक्ता अनन्तं शम-सुखं विदधति हि ।
Sensory pleasures will depart even after staying for long. What is the difference in parting? If man does not discard them himself, they cause immense pain. If they are voluntarily discarded they provide endless joy and peace.- - - - 
Categories: Other Language Links

Bhartruhari's Satakas-4

Sat, 06/06/2015 - 16:53
भर्तृहरिशतकत्रयी-४
यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवंतदा सर्वज्ञोऽस्मीत्यभवमदलिप्तं मम मनः ।यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतंतदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ नी-७ ॥अ: यदा अहं किञ्चित्-ज्ञः गजः इव मद-अन्धः समभवम् । तदा सर्वज्ञः अस्मि इति मम मनः अवलिप्तम् अभवत् । यदा बुध-जन-सकाशात्  किञ्चित् किञ्चित् अवगतं तदा मूर्खः अस्मि इति मे मदः ज्वरः इव व्यपगतः ।  When I knew a little I became blind with intoxication like an excited elephant; then my mind was arrogant on the conviction that I knew everything. When I learnt little by little from scholars, then my intoxication was gone like fever on my knowing that I am stupid. 
कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितंनिरुपमरसप्रीत्या खादन् खरास्थि निरामिषम् ।सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कतेन हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ नी-८ ॥अ: श्वा कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि जुगुप्सितं निरामिषं खर-अस्थि निरुपम-रस-प्रीत्या खादन् पार्श्वस्थं सुरपतिम् अपि विलोक्य न शङ्कते । क्षुद्रः जन्तुः परिग्रह-फल्गुतां न गणयति हि ।When a dog is eating with relish as if it is of incomparable taste a donkeys’ bone which is malodorous, disgusting, devoid of flesh, covered with worms and wet with its own saliva, it is not worried about even Indra standing by its side. A lowly being does not mind the worthlessness of its possession.
शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरंमहीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।अथो गङ्गा सेयं पदमुपगता स्तोकमथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ नी-९ ॥अ: (या) गङ्गा स्वर्गात् शार्वं शिरः, पशुपतिशिरस्तः क्षितिधरं, उत्तुङ्गात् महीध्रात् अवनिम्, अवनेः च जलधिम् अपि उपगता सा इयं स्तोकं पदम् उपगता । अथवा विवेक-भ्रष्टानां विनिपातः शतमुखः भवति ।  River Ganga fell down on the head of Shiva from heaven, on to the mountain (Himalaya) from Shiva’s head, on to the earth from the lofty mountain and to the ocean from the earth and attained an insignificant state. Perhaps the fall of those who have lost their capacity to discriminate happens in hundreds of ways.
  द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखंघ्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः ।किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुःध्येयं किं नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमः ॥ शृ-७ ॥अ: सहृदयैः द्रष्टव्येषु उत्तमं किम्? मृग-दृशः प्रेम-प्रसन्नं मुखम् । घ्रातव्येषु  अपि (उत्तमं) किम्? तत्-आस्य-पवनः । श्राव्येषु (उत्तमं) किम्? तत्-वचः । स्वाद्येषु (उत्तमं) किम्? तत्-ओष्ठ-पल्लव-रसः । स्पृश्येषु (उत्तमं) किम् ? तत्-वपुः । सहृदयैः ध्येयं किम्? नव-यौवनम् । सर्वत्र तत्-विभ्रमः ।Among those a man of taste can look at, which is the best? The face of a doe-eyed lady pleasant with love; among those he can smell, which is the best? her facial breath; among those he can hear? her words; among those he can taste? the juice of her sprout- like lips; among those he can touch? her body. What is it that a man of taste should contemplate on? fresh youth. Its illusion is everywhere.
एताश्चलद्वलयसंहतिमेखलोत्थ-झङ्कारनूपुरपराजितराजहंस्यः ।कुर्वन्ति कस्य न मनो विवशं तरुण्योवित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ शृ-८ ॥
अ: एताः चलत्-वलय-संहति-मेखल-उत्थ-झङ्कार-नूपुर-पराजित-राजहंस्यः तरुण्यः वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः कस्य मनः विवशं न कुर्वन्ति?Whose mind do these young ladies who excel royal swans by their jingling set of bangles, girdle and the anklets not capture with their glances similar to those of frightened innocent deer?
कुङ्कुमपङ्ककलङ्कितदेहागौरपयोधरकम्पितहारा ।नूपुरहंसरणत्पदपद्माकं न वशीकुरुते भुवि रामा ॥ शृ-९ ॥अ: कुङ्कुम-पङ्क-कलङ्कित-देहा गौर-पयोधर-कम्पित-हारा नूपुर-हंस-रणत्-पद-पद्मा  रामा भुवि कं न वशीकुरुते ।Who on earth will not be captivated by a damsel who has her body smeared in kunkum,  her garland swaying due to the fair breasts and her lotus- like feet jingling due to the swan-like anklets?

भोगा न भुक्ताः वयमेव भुक्ताः तपो न तप्तं वयमेव तप्ताः ।कालो न यातो वयमेव याताः तृष्णा न जीर्णा वयमेव जीर्णाः ॥ वै-७ ॥अ: भोगाः न भुक्ताः, वयम् एव भुक्ताः; तपः न तप्तम्, वयम् एव तप्ताः,  कालः न यातः, वयम् एव याताः; तृष्णा न जीर्णा, वयम् एव जीर्णाः ।We did not enjoy pleasures, we only were eaten up; we did not do penances, only we were distressed; time did not pass on, only we passed on; greed did not wear out, only we decayed. [ Contextual different shades of meaning of words भुक्त, तप्त, यात, जीर्ण have been beautifully played upon.]
वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ वै-८ ॥अ: मुखं वलीभिः आक्रान्तम्, शिरः पलितेन अङ्कितम्, गात्राणि शिथिलायन्ते, तृष्णा एका तरुणायते ।The face is over run by wrinkles, head is marked by grey hair, limbs have become loose, only greed is getting younger.
निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः समानाः स्वर्याताः  सपदि सुहृदो जीवितसमाः ।शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयनेअहो मूढः कायस्तदपि मरणापायचकितः ॥ वै-९ ॥अ:  भोग-इच्छा निवृत्ता; पुरुष-बहुमानः अपि गलितः; जीवित-समाः समानाः सुहृदः स्वर् याताः; शनैः यष्टि-उत्थानं, नयने घन-तिमिर-रुद्धे च; तत् अपि मूढः कायः मरण-अपाय-चकितः (इति) अहो ।
The desire to enjoy bodily pleasures is gone, self-respect has also waned, friends  who were dear as one’s own life have gone to heaven; getting up slowly is with the help of a stick; eyesight  is affected by advanced cataract; in spite of all this the stupid body is afraid of death.- - - - 
Categories: Other Language Links

Bhartruhari's Satakas-3

Sat, 05/30/2015 - 16:29
सुभाषितत्रिशती-३
व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भतेभेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति ।माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते मूर्खान्यः प्रतिनेतुमिच्छति बलात् सूक्तैः सुधास्यन्दिभिः ॥ नी-५ ॥अ: यः मूर्खान् सुधा-स्यन्दिभिः सूक्तैः बलात् प्रतिनेतुम् इच्छति, (सः) असौ व्यालं बाल-मृणाल-तन्तुभिः रोद्धुं समुज्जृम्भते,  वज्र-मणिं शिरीष-कुसुम-प्रान्तेन भेत्तुं सन्नह्यति, क्षार-अम्बुधेः माधुर्यं मधु-बिन्दुना रचयितुम् ईहते । One who wants to change stupid persons forcefully through ambrosia-exuding good sayings is attempting to obstruct a serpent through tender threads of lotus stalk,is trying to break a diamond with the ends of a shirisha flower,wishes to sweeten the salty ocean with a drop of honey.
स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्   ॥ नी-६ ॥अ: मौनम् अपण्डितानाम् स्वायत्तं एकान्तहितं विधात्रा विनिर्मितं अज्ञतायाः छादनं विशेषतः सर्वविदां समाजे विभूषणम् ।For those who are not scholars, observing silence is an extremely comfortable covering under one’s own control created by the creator and it is an adornment for them especially in the society of erudite scholars.
वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थलीवाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ शृ-५ ॥अ: चन्द्रविकासि वक्त्रम्, पङ्कज-परीहास-क्षमे लोचने, स्वर्णम् अपाकरिष्णुः वर्णः, अलिनी-जिष्णुः कचानां चयः, इभ-कुम्भ-विभ्रम-हरौ वक्षोजौ, गुर्वी नितम्ब-स्थली, वाचां हारि मार्दवम् युवतिषु स्वाभाविकं मण्डनम् ।A face steadily broadening like moon, eyes which can put lotuses to shame, colour which outshines that of Gold, lock of hair which wins over (swarm of) female bees (in colour), bosoms which steal the grace of elephant’s frontal prominences, heavy hips and enticing sweetness in speech; these are natural adornments for young women.
स्मितं किञ्चिन्मुग्धं सरलतरलो दृष्टिविभवःपरिस्पन्दो वाचामभिनवविलासोक्तिसरसः ।गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव नहि रम्यं मृगदृशः ॥ शृ-६ ॥अ: किञ्चित् मुग्धं स्मितम्,  सरल-तरलः दृष्टि-विभवः, अभिनव-विलास-उक्ति-सरसः वाचाम् परिस्पन्दः, गतानाम् आरम्भः, किसलयित-लीला-परिकरः, तारुण्यं स्पृशन्त्याःमृग-दृशः किम् इव न हि रम्यम् । A smile that is somewhat innocent, beauty of candidly unsteady eyes, diction in speech embellished with fresh playful words, gait in walking, abundantly sprouting elegance, what is not charming in a doe-eyed girl entering youth?
अमीषां प्राणानां तुलितबिसिनीपत्रपयसांकृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसांकृतं मानव्रीडैर्निजगुणकथापातकमपि ॥ वै-५ ॥अ: तुलित-बिसिनी-पत्र-पयसां अमीषां प्राणानां कृते विगलित-विवेकैः अस्माभिः किं न व्यवसितम्? यत् द्रविण-मद-निःसंज्ञ-मनसां आढ्यानाम् अग्रे मानव्रीडैः निज-गुण-कथा-पातकम् अपि कृतम् ।We shamelessly committed the crime of narrating our own virtues before the rich whose minds are insensitive due to the arrogance of money. What is it that we, deprived of discrimination, did not do for the sake of our lives which are like water on the lotus leaf?
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदंतत्तत्कर्मकृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ वै-६ ॥   अ: क्षान्तं, (तु) न क्षमया; गृह-उचित-सुखं त्यक्तं, (तु) न सन्तोषतः; दुःसह-शीत-वात-तपन-क्लेशाः सोढाः (तु) तपः न तप्तम्; नियमित-प्राणैः अहः-निशम् वित्तं ध्यातं,न (तु) शम्भोः पदम्; यत् एव मुनिभिः कॄतं तत् तत् कर्म कृतम्, (तु) तैः तैः फलैः वञ्चिताः।
We tolerated but not with a sense of forgiving; we left homely comforts but not with joy; we endured the distress caused by unbearable cold, wind and heat, but we did not do penance; controlling our breath we thought of money day and night, but we did not think of Shiva’s abode; What sages did we also did, but we were denied the fruits (that they got). - - - -  
Categories: Other Language Links

Bhartruhari's Satakas-2

Sat, 05/23/2015 - 17:27
सुभाषितत्रिशती-२
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम् ।भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ नी-४ ॥अ: मकर-वक्त्र-दंष्ट्र-अन्तरात् मणिं प्रसह्य उद्धरेत् । प्रचलत्-ऊर्मि-माला-आकुलं समुद्रम् अपि सन्तरेत् । कोपितं भुजङ्गम् अपि शिरसि पुष्पवत् धारयेत् । प्रति-निविष्ट-मूर्ख-जन-चित्तम् न तु आराधयेत् ।One could pull out a gem from the jaws of a shark; one could cross the ocean agitated by moving series of  waves; one could sport  on one’s head an angry serpent as if it is a flower; but one should not try to please the mind of an obdurate fool.  
भ्रूचातुर्यात् कुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितान्ताश्च हासाः ।लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं च ॥ शृ-३ ॥अ: भ्रू-चातुर्यात् कुञ्चित-अक्षाः कटाक्षाः, स्निग्धाः वाचः,लज्जित-अन्ताः हासाः च, लीला-मन्दं प्रस्थितं स्थितं च स्त्रीणाम् एतत् (सर्वं) भूषणम् आयुधं च ।Sideway glances due to the dexterity of the eye-brows, friendly talk, smiles ending with bashfulness, playful languidness in movement and posture, all this is both embellishment and weapon for ladies.
क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैःक्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविलसितैः ।कुमारीणामेतैर्मदनसुभगैर्नेत्रवलितैःस्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ शृ-४ ॥अ: क्वचित् स-भ्रू-भङ्गैः, क्वचित् अपि लज्जा-परिगतैः, क्वचित् भूरि-त्रस्तैः, क्वचित् अपि लीला-विलसितैः एतैः कुमारीणां मदन-सुभगैः नेत्र-वलितैः दिशः स्फुरत्-नील-अब्जानां प्रकर-परिकीर्णा इव (भान्ति) ।With the young ladies casting their passionately lovely glances sometimes accompanied by the knitting of the eye brows, sometimes filled with bashfulness, sometimes full of fear and sometimes playfully it looks as if heaps of shining blue lotuses are scattered in all directions.
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवोनिस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाःप्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ वै-३ ॥अ: निधि-शङ्कया क्षिति-तलम् उत्खातम् । गिरेः धातवः ध्माताः । सरितां पतिः निस्तीर्णः । नृपतयः यत्नेन सन्तोषियाः । निशाः श्मशाने मन्त्र-आराधन-तत्परेण मनसा नीताः । मया काण-वराटकः अपि न प्राप्तः । (हे) तृष्णे, सकामा भव । With the hope of a treasure ground was dug up; oars of mountains were blown (in a smelter); ocean was crossed over; kings were appeased with effort; nights were spent in cemeteries with mind concentrating on the chant; not even a perforated cowrie was got by me; dear greed, be  satisfied.
खलालापाः सोढाः कथमपि तदाराधनपरैः निगृह्यान्तर्बाष्पं हसितमपि शून्येन  मनसा ।कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपित्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ वै-४ ॥अ: तत्-आराधन-परैः (कॄताः) खल-आलापाः  कथम् अपि सोढाः । अन्तर्-बाष्पं निगृह्य शून्येन मनसा हसितम् अपि । वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिः अपि कृतः ।(हे) मॊघ-आशे आशे , अतः किम् अपरं मां नर्तयसि?
I somehow tolerated wicked talk by those who indulge in it; I feigned laughter suppressing the tears; I even bowed to those whose mental faculty was stupefied by wealth; dear greed with unfulfilled desires, how much more do you make me dance (to your tunes)?- - - - 
Categories: Other Language Links

Bhartruhari's Satakas-1

Sat, 05/16/2015 - 16:54
सुभाषितत्रिशती-१
Bhartruhari’s three Sataka’s (Sataka being a poetic work of one hundred verses) namely, NeetiSataka ,SrungaraSataka and VairagyaSataka (dealing with good conduct, romance and renunciation respectively),  are well known. The work is available in several editions and in several languages. There are several commentaries in several languages.
Although the work may be known to a large number of people, it is quite possible that many, like me, might not have studied all the three Sataka’s in their entirety. Here is an attempt to study the work.
Not much is known about Bhartruhari although there are legends associated with his name.   It is said that he was a king and that he was the brother of Vikramaditya. It is also said that he became an ascetic. A Bhartruhari has written a grammatical treatise, Vakyapadiya and I’tsing, the Chinese traveller of 7th century AD mentions of grammarian Bhartruhari’s death having occurred some years earlier to his writing. If it is assumed that the same Bhartruhari wrote the three Satakas, one can say that the poet lived in 7th century AD. It is believed that Bhartruhari who wrote Vakyapadiya was a Buddhist, but our poet seems to be a Saivite. Bhoja who lived  in 11th century quotes a verse from the Satakas of Bhartruhari in his Sarasvatikanthabharana. Bhartruhari was therefore earlier to Bhoja.. Some scholars identify him to be Bhatti the author of Bhattikavya, who lived before Bhoja.
In what follows each posting will carry a few verses in order from each of the three Satakas with text and prose order in Sanskrit and an English translation which attempts to be as close to the original as possible. This method of studying all the three almost parallelly and not serially may reduce the possibility of an overdose of any sentiment!  I shall follow the text given in “Subhashita-triSati” with Sanskrit commentary of Ramachandra Budhendra published by Nirnayasagar Press (1925).  

श्रीःसुभाषितत्रिशतीमङ्गलश्लोकाःBenedictory versesदिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ नी-१ ॥अन्वयः: दिक्-काल-आदि-अनवच्छिन्न-अनन्त-चित्-मात्र-मूर्तये स्व-अनुभूति-एक-मानाय शान्ताय तेजसे नमः ।Salutation to the beatific Energy whose limitless form of knowledge is uninterrupted along time, directions etc. and whose proof is only through perception.
शम्भुस्वयम्भुहरयो हरिणेक्षणानाम्येनाक्रियन्त सततं गृहकुम्भदासाः ।वाचामगोचरचरित्रविचित्रितायतस्मै नमो भगवते मकरध्वजाय ॥ शृ-१ ॥अन्वयः: येन शम्भु-स्वयम्भु-हरयः हरिण-ईक्षणानां गृह-कुम्भ-दासाः सततम् अक्रियन्त, तस्मै वाचाम् अगोचर-चरित्र-विचित्रिताय भगवते मकरध्वजाय  नमः ।Salutation to the  revered God of love, Manmatha, whose flag carries the picture of a fish, whose colourful life is beyond words and who has made Siva, Brahma and Vishnu carriers of household pitchers of doe-eyed ladies. [ Doe-eyed ladies refer to the wives of Siva, Brahma and Vishnu, namely Parvati, Saraswati and Lakshmi.] चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरोलीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ वै-१ ॥अन्वयः: चूड-उत्तंसित-चन्द्र-चारु-कलिका-चञ्चत्-शिखा-भास्वरः लीला-दग्ध-विलोल-काम-शलभः ज्ञानप्रदीपः हरः योगिनां चेतः-सद्मनि श्रेयः-दशा-अग्रे स्फुरन् अन्तः-स्फूर्जत्-अपार-मोह-तिमिर-प्राग्भारम् उच्चाटयन् विजयते ।Shiva whose unsteady lock of hair where the bud-like moon appearing as a hair-crest is shining and who easily burnt the tremulous moth called Manmatha, flourishes in all his glory residing in the hearts of ascetics shining in the forefront during auspicious moments and vanquishing the thick darkness of boundless delusion roaring internally.  (Verbs जयतु,जयति,विजयते etc. which are often used in benedictory verses convey the sense of “flourishing in all its glory” although the literal meaning is “to be victorious”. )
अथ मूर्खपद्धतिः( Section on the dull-headed)बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।अबोधोपहताश्चान्ये  जीर्णमङ्गे सुभाषितम् ॥ नी-२ ॥अ: बोद्धारः मत्सर-ग्रस्ताः, प्रभवः स्मय-दूषिताः,अन्ये अबोधोपहताः च, सुभाषितम् अङ्गे जीर्णम् । Scholars suffer from jealousy; kings are corrupted by arrogance; others are afflicted with ignorance; (thus) good sayings decay in their own body (without expression).
स्त्रीप्रशंसा (In praise of women)स्मितेन भावेन च लज्जया भियापराङ्मुखैरर्धकटाक्षवीक्षणैः ।वचोभिरीर्ष्याकलहेन लीलयासमस्तभावैः खलु बन्धनं स्त्रियः ॥ शृ-२ ॥अ: स्त्रियः स्मितेन भावेन लज्जया पराङ्मुखैः अर्ध-कटाक्ष-वीक्षणैः वचोभिः ईर्ष्या-कलहेन लीलया समस्त-भावैः च बन्धनम् ।With their smile, temperament, shyness, partial glances while turning away their faces, words, quarrels out of jealousy, playfulness and with all their moods women are a fetter (to men).
अथ तृष्णादूषणम्( Censuring desire)भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलंत्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥ वै-२ ॥अ: अनेक-दुर्ग-विषमं देशं भ्रान्तम् ,फलं न किञ्चित् (अपि) प्राप्तम्; उचितं जाति-कुल-अभिमानं त्यक्त्वा कॄता सेवा निष्फला; पर-गृहेषु आशङ्कया काकवत् मान-विवर्जितं भुक्तम्; पाप-कर्म-पिशुने तृष्णे! जृम्भसि, अद्य अपि न सन्तुष्यसि ।O Greed manifesting wretched actions !  many places dangerous and difficult to access were traversed fruitlessly; sacrificing the self respect proper for the community and family, fruitless service was rendered; Without self-respect (food) was eaten with apprehension in others’ houses like a crow; you are still growing and do not feel satisfied. 
- - - - 
Categories: Other Language Links

Setubandham-84

Sat, 05/09/2015 - 16:13
सेतुबन्धम्-८४
सङ्ख‍उलधवलकमले फुडमरग‍अहरिअवत्तभङ्गणिहाए ।विद्दुममिलिअकिसलए उह‍अतडाबद्धसंकमम्मि णलवहे ॥ ८-९९ ॥संचर‍इ वाणरबलं णिम‍इ विसट्टन्तमहिहरो सेउवहो ।ओआहिअपा‍आलं सव्वत्थामगरुअं धरेइ समुद्दो ॥ ८-१०० ॥ [ शङ्खकुलधवलकमले स्फुटमरकतहरितपत्त्रभङ्गनिघाते ।  विद्रुममिलितकिसलये उभयतटाबद्धसंक्रमे नलपथे ॥ सञ्चरति वानरबलं नमति विशीर्यमाणमहीधरः सेतुपथः ।  अवगाहितपातालं सर्वस्थामगुरुकं धारयति समुद्रः ॥]On the bridge joining the two shores lotuses look white due to proximity of conch shells; clear emeralds have struck green leaves; sprouts of trees are mixed with corals; on such a bridge moves the army of monkeys.  At places on the bridge the mountains are giving way. The ocean bears the bridge which extends deep into the netherworld with a tremendous force.
संचालेइ णिअम्बं धारेइ उअरि तरङ्गकरपब्भारम् ।सम्भम्मि वणगओ विअ आबद्धो सेतुसंकमम्मि समुद्दो ॥ ८-१०१ ॥[ संचालयति नितम्बं धारयत्युपरि तरङ्गकरप्राग्भारम् ।  स्तम्भे वनगज इवाबद्धः सेतुसंक्रमे समुद्रः ॥]In the manner a wild elephant held on to a pole holds the pole at the top and shakes the bottom of the pole, the ocean subdued by the bridge holds on to the bridge at the top with its trunk like waves and shakes the bottom of the bridge.
उत्तिण्णा अ पवङ्गा सेलभरुव्वहणजणिअसेअतुसारा ।धा‍उम‍इले कर‍अले पासट्टिअमहिहरोज्झरेसु धुवन्ता ॥ ८-१०२ ॥[ उत्तीर्णाश्च प्लवङ्गाः शैलभरोद्वहनजनितस्वेदतुषाराः ।  धातुमलिनानि करतलानि पार्श्वस्थितमहीधरझरेषु धावयन्तः ॥]Having crossed the ocean, monkeys  who are cold with sweat produced as a result of carrying mountains wash their hands which have been soiled by mountain-ores, in the streams of nearby mountains.
पत्ता अ दहमुहाणिअणन्दणवणपा‍अवोइअवणुद्देसम् ।अलभरणिसण्णजलहरभरमोडिअवणल‍अं सुवेलुच्छङ्गम् ॥ ८-१०३ ॥[ प्राप्ताश्च दशमुखानीतनन्दनवनपादपोचितवनोद्देशम् ।  जलभरनिषण्णजलधरभरमोटितवनलतं सुवेलोत्सङ्गम् ॥]Monkeys reached the slopes of Suvela which was a fit place for planting of trees of Nandana garden brought by Ravana and where creepers were sagging due to weight of the water-laden clouds which had parked there.
सोऊण समुत्तिण्णं उअहिमविद्दविअविक्कमं क‍इसेण्णम् ।जाओ रक्खसलोओ रक्खसणाहस्स पेलवाणत्तिअरो ॥ ८-१०४ ॥[ श्रुत्वा समुत्तीर्णमुदधिमविद्रावितविक्रमं कपिसैन्यम् ।  जातो राक्षसलोको राक्षसनाथस्य पेलवाज्ञप्तिकरः ॥]People of Lanka were ready to carry out the unsteady orders of Ravana after having heard that monkeys had crossed the ocean without any hindrance.
जाव अ महोअहिअडे आवासग्गहणवावडम् क‍इसेण्णम् ।ताव क‍अन्तेण कओ रावणसीसम्मि वामहत्थप्फंसो ॥ ८-१०५ ॥[ यावच्च महोदधितटे आवासग्रहणव्यापृतं कपिसैन्यम् ।  तावत्कृतान्तेन कृतो रावणशीर्षे वामहस्तस्पर्शः ]As soon as the army of monkeys spread itself on the (Northern) shores of the ocean the God of destruction placed his left hand on the head of Ravana.
रामस्स रावणस्स अ लोआलोअन्तरालसरिसामण्णे ।वड्डन्तणिव्व‍अन्ते पा‍आरन्तरदहा‍इअम्मि प‍आवे ॥ ८-१०६ ॥[ रामस्य रावणस्य च लोकालोकान्तरालनिस्सामान्ये ।  वर्धमाननिवर्तमाने प्राकारान्तरद्विधायिते प्रतापे ॥]While the valour of Rama and RavaNa was separated by the fort of Lanka , the former shone and increased and the latter darkened and decreased in an extraordinary manner.
जा‍आ लच्छीअ समं सोहा महिअस्स सामरस्स पसण्णा ।तिअसजणिआणुराए उत्तिण्णम्मि म‍अलच्छणम्मि व रामे ॥ ८-१०७ ॥[ जाता लक्ष्म्या समं शोभा मथितस्य सागरस्य प्रसन्ना ।  त्रिदशजनितानुरागे उत्तीर्णे मृगलाञ्छ्न इव रामे ॥]While Rama crossed the ocean, the luster of the disturbed ocean became tranquil in the manner of Lakshmi’s appearance after the rising of the moon when the ocean was churned.  इअ सिरिपवरसेणविर‍इए कालिदासकए दहमुहवहे महाकव्वे अट्ट्ःअमो आसासओ ।[ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्येऽष्टम आश्वासकः ]Thus ends the eighth chapter in the great epic, “Killing of the Ten-headed” composed by Pravarasena and created by Kalidasa.  
-      - - -= 
Categories: Other Language Links

Setubandham-83

Sat, 05/02/2015 - 15:53
सेतुबन्धम्-८३हिमपडनौत्थ‍इआ‍इं घडिआ‍इं वि णलवहम्मि णज्जन्ति फुडम् ।सिहरा‍इं सिहरिव‍इणो मल‍अस्स अ मलिअचन्दणसुअन्धा‍इं ॥ ८-९२ ॥[हिमपतनावस्थगितानि घटितान्यपि नलपथे ज्ञायन्ते स्फुटम्  । शिखराणि शिखरिपतेर्मलयस्य च मृदितचन्दनसुगन्धानि ॥]The peaks of Himalaya and Malaya used for the bridge can be clearly made out as the former are covered with snow and the latter are fragrant due to the sandal wood trees (on them) trampled upon.
जा‍आ फुडवित्थारा गओणिअत्तन्तजलर‍अविहुव्वन्ता ।पक्करगाहसमग्गा सेउम्मि वि सा‍अरस्य वेलामग्गा ॥ ८-९३ ॥[ जाताः स्फुटविस्तारा गतापनिवर्तमानजलरयविधूयमानाः ।  प्रग्राहसमग्राः सेतावपि सागरस्य वेलामार्गाः ॥]The paths of the tides of ocean undulating due to ebb and flow of water carrying sea-lions are wide and clear on the bridge.
सेला‍इञ्छणपडिआ सलिलोल्लिअगरुअकेसरभरक्कन्ता ।दीसन्ति दरुत्तिण्णा संकमपासल्लसंठिआ केसरिणो ॥ ८-९४ ॥[ शैलातिक्रमपतिताः सलिलार्द्रितगुरुककेसरभराक्रान्ताः ।  दृश्यन्ते दरोत्तीर्णाः संक्रमपार्श्वसंस्थिताः केसरिणः ॥]Lions which have fallen off from shifted mountains and which are burdened by the wetted and hence heavy manes and which have raised themselves slightly from water can be seen to be standing on the sides of the bridge.  
पुव्वावरोअहिग‍आ दहुं पुव्वावरोअहिसमुप्पणा ।सेउपडिसिद्धपसरा  पुणो ण पेच्छन्ति कुलहरा‍इं जलहरा ॥ ८-९५ ॥[ पूर्वापरोदधिगता द्रष्टुं पूर्वापरोदधिसमुत्पन्नाः ।  सेतुप्रतिषिद्धप्रसरा पुनर्न पश्यन्ति कुलगृहाणि जलचराः ॥]Marine creatures born in Eastern and Western parts of ocean which then travel to Western and Eastern parts are unable to return to their home waters obstructed by the (sudden rise of) the bridge.
दीसन्ति धा‍उअम्बा मारुअविहुअधवलोज्झरपडद्धन्ता ।सेउस्स तुङ्घसिहरा उह‍अतलपरिट्ठिआ ध‍अ व्व महिहरा ॥ ८-९६ ॥[ दृश्येते धातुताम्रौ मारुतविधुतधवलनिर्झरपटार्धान्तौ ।  सेतोस्तुङ्गशिखरावुभयतटपरिस्थितौ ध्वजाविव महीधरौ ॥]The two mountains (Malaya and Suvela) with tall peaks at the two ends look like flags erected with their mineral ores looking red and their mountain streams looking like fluttering white cloth.
अह णिम्मिअसेउवहं सेउवहब्भहिअथलप‍इण्णमहिहरम् ।चलिअं चलन्तराहवहिअ‍अणिहिप्पन्तरणसुहं क‍इसेणम् ॥ ८-९७ ॥   [ अथ निर्मितसेतुपथं सेतुपथाभ्यधिकस्थलप्रकीर्णमहीधरम् ।  चलितं चलद्राघवहृदयनिधीयमानरणसुखं कपिसैन्यम् ॥]With the bridge having been built, the army of monkeys moved on; there were mountains scattered all over beyond the bridge; the pleasure of fighting lay hidden in the heart of Rama who also moved.
पेच्छन्ति अ वोलन्ता संकमदोहा‍इअक्खविअवित्थारम् ।वल‍आमुहणिट्ठविएक्कपासवोच्छिण्णपाणिअं म‍अरहरम् ॥ ८-९८ ॥[ प्रेक्षन्ते च व्यतिक्रामन्तः संक्रमद्विधायितक्षपितविस्तारम् ।  वडवामुखनिष्ठापितैकपार्श्वव्यवच्छिन्नपानीयं मकरगृहम् ॥]Monkeys moving on the bridge see that the ocean has dwindled in its extent because of bifurcation and water on one side is reduced due to the presence of the sub-marine fire (on that side).- - - - 
Categories: Other Language Links

Setubandham-82

Sat, 04/25/2015 - 16:16
सेतुबन्धम्-८२
मल‍असुवेलालग्गो पडिट्ठिओ णिहणिहम्मि सागरसलिले ।उअ‍अत्थमणणिराओ रविरहमग्गो व्व पा‍अडो सेउवहो ॥ ८-८५ ॥[ मलयसुवेलालग्नः परिस्थितो नभोनिभे सागरसलिले ।  उदयास्तमननिरायतो रविरथमार्ग इव प्रकटः सेतुपथः ॥] The bridge attached to Malaya and Suvela mountains (at the two ends) over the sky-like ocean appears like the path of the sun between the Eastern mountain (where the sun rises) and the Western mountain (where the sun sets).
दीस‍इ पवणविहुव्वन्ताअ‍अरोअरपरिट्ठिअमहासिहरो ।विअडपसारिअवक्खो उप्पवमाणो व्व महिहरो सेउवहो ॥ ८-८६ ॥[ दृश्यते पवनविधूयमानसागरोदरपरिस्थितमहाशिखरः ।  विकटप्रसारितपक्ष उत्प्लवमान इव महीधरः सेतुपथः ॥]The bridge consisting of huge mountain peaks in the waters which are being blown up by the wind looks like a flying mountain with its wings spread monstrously. 
अर‍ई थोरूसासा णिहाणासो विवण्णदा दौवल्लम् ।सेउम्मि र‍इज्जन्ते रामादो रावणम्मि संकन्ता‍इं ॥ ८-८७ ॥[ अरतिः स्थूलोच्छ्वासा निद्रानाशो विवर्णता दौर्बल्यम् ।सेतौ रच्यमाने रामाद्रावणे सङ्क्रान्तानि ॥]While the mountain was under construction (signs such as) disinterestedness, heavy breathing, loss of sleep, paleness, and weakness moved away from Rama and settled in Ravana.
अह थोरतुङ्घविअडो णेउं णिहणं सबन्धवं दहव‍अणम् ।दोहा‍इअसलिलणिही क‍अन्तहत्थो व्व पसरिओ सेउवहो ॥ ८-८८ ॥[ अथ स्थूलतुङ्गविकटो नेतुं निधनं सबान्धवं दशवदनम् ।  द्विधायितसलिलनिधिः कृतान्तहस्त इव प्रसृतः सेतुपथः ॥]The bridge which bisected the ocean looked like an extended heavy, tall and monstrous hand of Yama, the God of death wanting to kill Ravana the ten-headed along with his relatives.
विसमेण प‍अ‍इविसमं महिहरगरुएण समरसाहसगरुअम् ।दूरत्थेण वि भिण्णं सूलेण व सेउणा दसाणणहिअ‍अम् ॥ ८-८९ ॥[ विषमेन प्रकृतिविषमं महीधरगुरुकेण समरसाहसगुरुकम् ।  दूरस्थेनापि भिन्नं शूलेनेव सेतुना दशाननहृदयम् ॥]The heart of Ravana which was by nature hard and which was unrelenting due to his exploits in battles looked like having been spiked by the bridge which was hard and heavy due to being made up of mountains although being at a distance.
दीसन्ति खुहिअसा‍अरसलिलोल्लिअकुसुमणिवहलग्गमहुअरा ।सेतुस्स पासमहिहरप‍अडन्तोव्वत्तकिसल‍आ कड‍अदुमा ॥ ८-९० ॥[ दृश्यन्ते क्षुभितसागरसलिलार्द्रितकुसुमलग्ननिवहमधुकराः ।  सेतोः पार्श्वमहीधरप्रकट्यमानोद्वृत्तकिसलयाः कटकद्रुमाः ॥]Swarms of bees attached to flowers wetted by the agitated ocean  are seen on trees on the ridges of mountains (forming the bridge) and up-turned sprouts of the trees can be seen on the sides of such mountains.
थिमिओअहिसच्छाया कत्थ वि दीसन्ति महिहरन्तरवडिआ ।फलिहसिला‍अलवडिआ मज्झच्छिण्ण व्व सेउबन्धोआसा ॥ ८-९१ ॥[ स्तिमितोदधिसच्छायाः कुत्रापि दृश्यन्ते महीधरान्तरपतिताः ।  स्फटिकशिलातलघटिता मध्यच्छिन्ना इव सेतुबन्धावकाशाः ]
At places on the bridge where white marble portions resembling a calm ocean are in between mountains, it looks as if the bridge has discontinuities.
- - - - 
Categories: Other Language Links

Setubandham-81

Sat, 04/18/2015 - 16:20
सेतुबन्धम्-८१
लहुइअपेसणहरिसिअक‍इणिवहणिसुद्धसेलपहरवलन्तो ।ण‍इसोत्तो व्व समुद्दो सेउसवेलन्तरे मुहुत्तं वूढो ॥ ८-७८ ॥[लघुकृतप्रेषणहर्षितकपिनिवहनिपातितशैलप्रहारवलमानः । नदीस्रोत इव समुद्रः सेतुसुवेलान्तरे मुहूर्तं व्यूढः ॥]The ocean which was sinuous caused by the striking mountains thrown by the monkeys who were happy that the bridge was almost complete by the Grace of  God, for a moment, looked compacted like a river stream between  the (almost completed)  bridge and Suvela mountain.
जह जह णिम्माविज्ज‍इ वाणरवसहेहि सेउसंकमसिहरम् ।तह तह दसमुहहिअ‍अं फाडिज्ज‍इ सा‍अरस्स सलिलेण समम् ॥ ८-७९ ॥[ यथा यथा निर्मीयते वानरश्रेष्ठैः सेतुसंक्रमशिखरम् ।  तथा तथा दशमुखहृदयं पाट्यते सागरस्य सलिलेन समम् ॥]As the tower of the landing part of the bridge gets constructed by the monkeys Ravana’s heart gets broken along with the waters of the ocean.
पा‍आलमिलिअमूलो अव्वोच्छिण्णपसरन्तसरिआसोत्तो ।ठाणट्ठिओ वि पडिओ मुहम्मि धरणिहरसंकमस्स सुवेलो ॥ ८-८० ॥[पातालमिलितमूलोऽव्यवच्छिन्नप्रसरत्सरित्स्रोताः ।स्थानस्थितोऽपि पतितो मुखे धरणीधरसंक्रमस्य सुवेलः ॥]Suvela mountain which stood where it was with its roots going deep and with river streams continuously flowing from it became the front end of the bridge made of mountains.
मल‍उच्छङ्घएण वि रहुव‍इपासट्ठिएण बाणरव‍इणा ।क‍इकल‍अलेण नाओ णिप्पच्छिमसेलपूरिओ सेउवहो ॥ ८-८१ ॥[ मलयोत्सङ्गगतेनापि रघुपतिपार्श्वस्थितेन वानरपतिना ।  कपिकलकलेन ज्ञातो निश्पश्चिमशैलपूरितः सेतुपथः ॥]Sugriva, the chief of monkeys who was standing beside Rama on the slopes of Malaya mountain came to know from the uproar of monkeys that the bridge has been completed by filling up with the last mountain.
आरम्भन्ते स‍अलो तिहा‍अविसमो दरुट्ट्ःइअम्मि णलवहे ।होइ दुहा अ समत्ते सो चिअ अण्णो पुणो पुणो वि समुद्दो ॥ ८-८२ ॥[ आरभ्यमाणे सकलस्त्रिभागविषमो दरोत्थिते नलपथे ।  भवति द्विधा च समासे स एवान्यः पुनः पुनरपि समुद्रः ॥]When the construction of the bridge was just begun the ocean which was one whole became divided into three (one on either side and one in front) when the bridge was partly constructed and became divided into two when the bridge was completed thus becoming different again and again.
मल‍उच्छङ्घप‍उत्तो चलन्तवाणरभरोणओ सेउवहो ।गरुओ तिऊडगिरिणा पल्हत्थन्तो दुमो दुमेण च धरिओ ॥ ८-८३ ॥[ मलयोत्सङ्गप्रवृत्तश्चलद्वानरभरावनतः सेतुपथः ।गुरुकस्त्रिकूटगिरिणा पर्यस्यमानो द्रुमो द्रुमेणेव धृतः ॥]The bridge starting from the slopes of Malaya got depressed due to the weight of the monkeys and being struck by the waves was supported by the heavy Trikuta mountain (at the southern end) in the manner a tree is supported by another tree.  
दीस‍इ सेउमहावहदोहा‍इअपुव्वपच्छिमदिसाभा‍अम् ।ओव्वत्तोह‍अपासं मज्झुक्कित्तविसमं णमन्तं व णहम् ॥ ८-८४ ॥[ दृश्यते सेतुमहापथद्विधायितपूर्वपश्चिमदिग्भागम् ।  अपवृत्तोभयपार्श्वं मध्योत्क्षिप्तविषमं नमदिव नभः ॥] It looks as if the bridge has divided the sky into two parts with the sides lowered and the central portion raised and the sky is bent.
- - - - 
Categories: Other Language Links

Pages